ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 96, कुल 249 में से
संदर्भ में पढ़ें॥ अष्टादशोऽध्यायः ॥
ऋभुः –
शृणु भूयः परं तत्त्वं सद्यो मोक्षप्रदायकम् ।
सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥ 18.1॥
ब्रह्मैकाक्षरमिदं सर्वं पराकारमिदं नहि ।
इदमित्यपि यद्दोषं वयमित्यपि भाषणम् ॥ 18.2॥
यत्किञ्चित्स्मरणं नास्ति यत्किञ्चिद् ध्यानमेव हि ।
यत्किञ्चिद् ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥ 18.3॥
यत्किञ्चिद् ब्रह्मवाक्यं वा यत्किञ्चिद्वेदवाक्यम् ।
यत्किञ्चिद्गुरुवाक्यं वा तत्सर्वं ब्रह्म एव हि ॥ 18.4॥
यत्किञ्चित्किल्बिषं सत्यं यत्किञ्चित् प्रियभाषणम् ।
यत्किञ्चिन्नननं सत्ता तत्सर्वं ब्रह्म एव हि ॥ 18.5॥
यत्किञ्चित् श्रवणं नित्यं यत् किञ्चिद्ध्यानमश्नुते ।
यत्किञ्चिन्निश्चयं श्रद्धा तत्सर्वं ब्रह्म एव हि ॥ 18.6॥
यत्किञ्चिद् गुरूपदेशं यत्किञ्चिद्गुरुचिन्तनम् ।
यत्किञ्चिद्योगभेदं वा तत्सर्वं ब्रह्म एव हि ॥ 18.7॥
सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः ।
तूष्णीमेवासनं ब्रह्म सुखमेव हि केवलम् ॥ 18.8॥
सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् ।
सर्वत्यागं परानन्दं सर्वत्यागं परं सुखम् ॥ 18.9॥
सर्वत्यागं मनस्त्यागः सर्वत्यागमहंकृतेः ।
सर्वत्यागं महायागः सर्वत्यागं सुखं परम् ॥ 18.10॥
सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि ।
चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥ 18.11॥
चित्तमेव महामाया चित्तमेव शरीरकम् ।
चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥ 18.12॥
चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् ।
चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥ 18.13॥