भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 98, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 98

आत्मैव जगदाकारं आत्मैव भुवनत्रयं ।
आत्मैव जगतां श्रेष्ठः आत्मैव हि मनोमयः ॥ 18.29॥

आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः ।
आत्मैव बहुधा भाति आत्मैवैlegacy/आत्मैवेकं परात्मनः ॥ 18.30॥

आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः ।
आत्मैव परमं लोकं आत्मैव परमात्मनः ॥ 18.31॥

आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः ।
आत्मैव हरिरानंदः आत्मैव स्वयमात्मनः ॥ 18.32॥

आत्मैवानंदसन्दोहा आत्मैवेदं सदा सुखं ।
आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥ 18.33॥

आत्मैव पंचभूतात्मा आत्मैव ज्योतिरात्मनः ।
आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥ 18.34॥

आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः ।
आत्मैव ब्रह्मविज्ञानं आत्मैवाहं त्वमेव हि ॥ 18.35॥

आत्मैव परमानंद आत्मैवाहं जगन्मयः ।
आत्मैवाहं जगद्भानं आत्मैवाहं न किंचन ॥ 18.36॥

आत्मैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः ।
आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥ 18.37॥

आत्मैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः ।
आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥ 18.38॥

आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः ।
आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलं ॥ 18.39॥

नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा ।
आत्मैवाहं जगन्नान्यद् अमृतात्मा पुरातनः ॥ 18.40॥

पुरातनोऽहं पुरुषोऽहमीशः परात् परोऽहं परमेश्वरोऽहं ।
भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयं ॥ 18.41॥

आनंदोऽहमशेषोऽहममृतोऽहं न संशयः ।
अजोऽहमात्मरूपोऽहमन्यन्नास्ति सदा प्रियः ॥ 18.42॥

ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः ।
सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥ 18.43॥