भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 99, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 99

निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा । अनर्थमूलं नास्त्येव मायाकार्यं न किंचन ॥ १८.४४॥

अविद्याविभवो नास्ति अहं ब्रह्म न संशयः । सर्वं ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥ १८.४५॥

तदेवाहं स्वयं चाहं परं चाहं परेश्वरः । विद्याधरोऽहमेवात्र विद्याविद्ये न किंचन ॥ १८.४६॥

चिदाहं चिदाहं नित्यं तुर्योऽहं तुर्यकः परः । ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽस्म्यहं ॥ १८.४७॥

मत्तोऽन्यन्नापरं किंचिन्मत्तोऽन्यद्बृह्य च क्वचित् । मत्तोऽन्यत् परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥ १८.४८॥

मत्तोऽन्यत् सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे । मत्तोऽन्यत् भवनं नास्ति मत्तोऽन्यद् ब्रह्म एव न ॥ १८.४९॥

मत्तोऽन्यत् कारणं नास्ति मत्तोऽन्यत् किंचिदप्यणु । मत्तोऽन्यत् सत्यरूपं च मत्तोऽन्यत् शुद्धमेव न ॥ १८.५०॥

मत्तोऽन्यत् पावनं नास्ति मत्तोऽन्यत् तत्पदं न हि । मत्तोऽन्यत् धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥ १८.५१॥

मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि । मत्तोऽन्यद्भाति सर्वस्वं मत्तोऽन्यच्छशशृंगवत् ॥ १८.५२॥

मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकं । मत्तोऽन्यत् संशयो नास्ति मत्तोऽन्यत् कार्य कारणं ॥ १८.५३॥

ब्रह्ममात्रमिदं सर्वं सोऽहमस्मीति भावनं । सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥ १८.५४॥

बहुनोक्तेन किं योगिन् निश्चयं कुरु सर्वदा । सक्यन्निश्चयमात्रेण ब्रह्मैव भवति स्वयं ॥ १८.५५॥

वननगभुवनं यच्छंकरान्न्यान्यदस्ति जगदिदमसुराद्यं देवदेवः स एव । तनुमनगमनाद्यैः कोशकाशावकाशे स खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥ १८.५६॥

चक्षुःश्रोत्रमनोऽसवश्च हृदि भादुद्यासितध्वान्तरात् तस्मिन्नेव विलीयते गतिपरं यद्यासना वासिनी ।