ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् । आत्मज्ञानं महोनात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४॥
आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् । आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५॥
आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् । आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६॥
आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः । आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७॥
आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् । आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८॥
आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् । आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९॥
आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् । आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२०॥
आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि । आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१॥
आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः । आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२॥
आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् । आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३॥
आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् । आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४॥
आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः । अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६.२५॥
अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् । आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६.२६॥
चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् । निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६.२७॥
सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः । सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६.२८॥
सर्वं ब्रह्मेत्यनुभवं विना शब्दं पर स्वयं ।
कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ ३६.२९॥
अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।
ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६.३०॥
ब्रह्मैवाहमिति स्थित्वा कोटीशो दानमप्यणु ।
ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६.३१॥
ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयं ।
ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६.३२॥
तस्मात् स्वप्नेऽपि नित्यं च सर्वं संत्यज्य यत्नतः ।
अहं ब्रह्म न संदेहः अहमेव गतिर्मम ॥ ३६.३३॥
अहमेव सदा नान्यदहमेव सदा गुरुः ।
अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६.३४॥
अहमेव गुरुः शिष्यः अहमेवेति निश्चिन ।
इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६.३५॥
न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किंचन विद्यते ॥ ३६.३६॥
इत्येवं भावनपरो देहमुक्तः सुखीभव ।
अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६.३७॥
अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।
इदमेव सदा नास्ति जडत्वादसदेव हि ।
इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६.३८॥
तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना ???
विशेषकामवासना विनिश्चितात्मवृत्तितः ।
नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा-
पतिं ??? न ते भजन्ति केचन ??? ॥ ३६.३९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥
॥ सप्तत्रिंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु वक्ष्यामि रहस्यं परमद्भुतम् । श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७.१॥
इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.२॥
इदमेव हि नास्त्येव अयमित्यपि नास्ति हि । एक एवाप्यणुरपि नास्ति नास्ति न संशयः ॥ ३७.३॥
व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा । बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७.४॥
सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयं । दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७.५॥
आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि । देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७.६॥
कार्यकारणरूपोऽहमन्तःकरणकार्यकम् । एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७.७॥
सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् । तत्त्वज्ञानं परं ब्रह्म ॐकारार्थं सुखं जपम् ॥ ३७.८॥
द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.९॥
आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि । इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७.१०॥
यद्यत् सम्भाव्यते लोके यद्यत् साधनकल्पनम् । यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्वृतम् ॥ ३७.११॥
स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि । बुद्धेर्भेदं मनोभेदं अहङ्कारं जडं च तत् ॥ ३७.१२॥
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते । श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७.१३॥
आत्मैवाहं परं चैव नाहं मोहमयं स्वयं । ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७.१४॥
ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः । ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥ ३७.१५॥
ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते । ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७.१६॥
ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किंचन । नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥ ३७.१७॥
न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् । न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७.१८॥
न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा । कदाचिदपि नास्त्येव सत्यं सत्यं न किंचन ॥ ३७.१९॥
नैकमात्रं न चायं वा नान्तरं न बहिर्न हि । ईषन्मात्रं च न द्वैतं न जन्यं न च दृश्य कम् ॥ ३७.२०॥
न भावनं न स्मरणं न विस्मरणमण्वपि । न कालदेशकलनं न संकल्पं न वेदनम् ॥ ३७.२१॥
न विज्ञानं न देहोऽहं न वेदोऽहं न संसृतिः । न मे दुःखं न मे मोक्षं न गतिश्च च दुर्गतिः ॥ ३७.२२॥
नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते । न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७.२३॥
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा । अखण्डाकाररूपत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२४॥
हुंकारास्यावकाशो वा हुंकारजननं च वा । नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७.२५॥
अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् । आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७.२६॥
नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि । सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२७॥
सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः । वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७.२८॥
ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियं । यद्यच्चास्तेषु निर्लीतं यद्यद्वेदेषु निश्चितं ॥ ३७.२९॥
परापरमतीतं च अतीतोऽहमवेदनं । गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७.३०॥
गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयं । आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७.३१॥
आत्मनः शुभमात्मैव अन्याभावान्न संशयः । आत्मनो मोहमात्मैव आत्मनोऽस्ति न किंचन ॥ ३७.३२॥
आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः । आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियं ॥ ३७.३३॥
आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः । आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभं ॥ ३७.३४॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखं । आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥ ३७.३५॥
ब्रह्मैवात्मा न संदेहा आत्मैव ब्रह्मणः स्वयं । स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७.३६॥
स्वयमेव चिदाकाशः स्वयमेव निरंतरं । स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७.३७॥
स्वयमेव गुणातीतः स्वयमेव महत् सुखं । स्वयमेव हि शांतात्मा स्वयमेव हि निश्चलः ॥ ३७.३८॥
स्वयमेव चिदानंदः स्वयमेव महत्प्रभुः । स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७.३९॥
स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः । स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७.४०॥
सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः । दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७.४१॥
विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् । एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७.४२॥
एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः । एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७.४३॥
एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ 37.44॥
अहं ब्रह्म एतदेव स्वभावं सततं निजं ।
अहं ब्रह्म एतदेव सदा नित्यं स्वयं सदा ॥ 37.45॥
अहं ब्रह्म एतदेव बन्धनाशं न संशयः ।
अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयं ॥ 37.46॥
एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः ।
सर्वोपनिषदार्थः सर्वानन्दमयं जगत् ॥ 37.47॥
महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.48॥
नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.49॥
ऋषीणां हृदयं ह्येतत् देवानामुपदेशकं ।
सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.50॥
यच्च यावच्च भूतानां महोपदेश एव तत् ।
अहं ब्रह्म महोमोक्षं परं चैतदहं स्वयं ॥ 37.51॥
अहं चानुभवं चैतन्यहोगोष्यमिदं च तत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ 37.52॥
महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् ।
एतदेव महामन्त्रं एतदेव महोजपः ॥ 37.53॥
एतदेव महास्नानमहं ब्रह्मेति निश्चयः ।
एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ 37.54॥
एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः ।
एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ 37.55॥
एष एव महाकाश अहं ब्रह्मेति निश्चयः ।
एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलं ।
सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ 37.56॥
सव्यासव्यतयाद्वयज्ञहृदया गोपोदहोर्द्यः प्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शम्भुं हिरण्यात्मकं ।
सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः
क्षुब्धं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥
॥ अष्टात्रिंशोऽध्यायः ॥
ऋभुः –
वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् । सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८.१॥
आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् । सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८.२॥
नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् । चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८.३॥
इदमस्तीति सत्तात्मवाहमस्तीति वा जगत् । स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८.४॥
स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना । ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८.५॥
माया सत्ता महो सत्ता चित्तसत्ता जगन्मयम् । यद्यच्छ दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८.६॥
एकमित्येव निर्देशं द्वैतमित्येव भाषणम् । शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥ ३८.७॥
विष्णुरस्मीति विभ्रान्तिर्जगदस्तीति विभ्रमः । ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८.८॥
सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् । आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८.९॥
दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् । द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८.१०॥
जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् । सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८.११॥
वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८.१२॥
ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् । गुणागूणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८.१३॥
सत्यासत्यविचारं वा चराचरविचारणम् । एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८.१४ ॥
सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् । द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८.१५ ॥
असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् । कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८.१६ ॥
सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा । सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.१७ ॥
मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् । पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८.१८ ॥
यद्यद्वैतशास्त्रं यद्यद्वैदो गुरोऽपि वा । सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८.१९ ॥
सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् । सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८.२० ॥
सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् । सहोदेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८.२१ ॥
विचार्य जन्ममरणं वासनाचित्तरूपकम् । कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥ ३८.२२ ॥
त्रैलोक्यसम्भवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् । ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८.२३ ॥
कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् । अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८.२४ ॥
चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् । मायामात्रमिदं द्वैतं सदसत्त्वादिनिर्णयम् ॥ ३८.२५ ॥
किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् । जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८.२६ ॥
गोपनं तत्पदार्थस्य त्वम्पदार्थस्य मेलनम् । तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥ ३८.२७ ॥
भेदेषु भेदाभेदं च नान्यत् किञ्चिच्च विद्यते । एतत् प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८.२८ ॥
सर्वं चैतन्यमात्रत्वात् केवलं ब्रह्म एव सः ।
आत्माकारमिदं सर्वमात्मनोऽन्यन्न किंचन ॥ ३८.२९॥
तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते ।
सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३०॥
चित्तं कालं वस्तुभेदं संकल्पं भावनं स्वयं ।
सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८.३१॥
यद्यद्भेदपरं शास्त्रं यद्यद् भेदपरं मनः ।
सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३२॥
मनः कल्पितकल्पं वा आत्मकल्पनविभ्रमं ।
अहंकारपरिच्छेदं देहोऽहं देहभावना ॥ ३८.३३॥
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ।
प्रपंचस्य च सद्भावं प्रपंचोद्भवमन्यकं ॥ ३८.३४॥
बंधसद्भावकलनं मोक्षसद्भावभाषणं ।
देवताभावसद्भावं देवपूजाविनिर्णयं ॥ ३८.३५॥
पंचाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतं ।
प्राणादिपंचकास्तित्वमुपप्राणादिपंचकं ॥ ३८.३६॥
पृथिवीभूतभेदं च गुणा यत् कुंठनादिकं ।
वेदांतशास्त्रसिद्धातं शैवागमनमेव च ॥ ३८.३७॥
लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकं ।
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८.३८॥
आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणं ।
रेचकं पूरकं कुंभं षडाधारविशोधनं ॥ ३८.३९॥
द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकं ।
अखंडाकारवृत्तिश्च अखंडाकारसंमतं ॥ ३८.४०॥
अनंतानुभवं चापि अहं ब्रह्मेति निश्चयं ।
उत्तमं मध्यमं चापि तथा चैवाधमाधमं ॥ ३८.४१॥
दूषणं भूषणं चैव सर्ववस्तुविनिंदनं ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८.४२॥
अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः ।
वैश्वानरो विराट् स्थूलप्रपंचमिति भावनं ॥ ३८.४३॥
आनन्दस्फूरणेनाहं परापरविवर्जितः ।
नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८.४४॥
दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकं ।
कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८.४५॥
भूतभव्यं भविष्यच्च वर्तमानमसत् सदा ।
कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८.४६॥
प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् ।
प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८.४७॥
शिवागमसमाचारं वेदान्तश्रवणं पदम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८.४८॥
सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव ।
अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८.४९॥
स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च ।
एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८.५०॥
शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः ।
एतत् प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८.५१॥
पठेद्वा शृणुयाद्वापि स च मुक्तो न संशयः ।
निमिषं निमिषार्धं वा श्रुत्यैतद्ब्रह्मभार्भवेत् ॥ ३८.५२॥
लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका
भीतिः शंकरनामरूपमसृदप्याकुर्वते केवलम् ।
सत्यासत्यनिरंकुशश्रुतिवचोवीचीभिराभृश्यते
यस्यैतत् सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपंचशून्यत्वप्रकरणं नाम अष्टात्रिंशोऽध्यायः ॥
॥ एकोनचत्वारिंशोऽध्यायः ॥
ऋभुः –
परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।
तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९.१॥
चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।
आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९.२॥
गुणातीतं जनातीतमवस्थातीतमव्ययम् ।
एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९.३॥
सर्वातीतःस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।
सत्योऽहं सर्वहन्ताऽहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९.४॥
अजोऽहं शान्तरूपोऽहं अशरीरोऽहमन्तरः ।
सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९.५॥
आत्मैवाहं परात्माऽहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।
चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९.६॥
व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।
निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९.७॥
निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।
निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९.८॥
निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।
निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९.९॥
निष्प्रपञ्चपरिवारो निष्प्रपञ्चोत्सवो भवः ।
निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९.१०॥
निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।
निष्प्रपञ्चगुहान्तःस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९.११॥
निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।
चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९.१२॥
चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।
चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९.१३॥
चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।
ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९.१४॥
ब्रह्मभावनया दुःखं नाशमेति न संशयः ।
ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९.१५॥
ब्रह्मभावनया कामः नाशमेति न संशयः ।
ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९.१६॥
ब्रह्मभावनया लोभः नाशमेति न संशयः ।
ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९.१७॥
ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।
ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९.१८॥
ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।
ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९.१९॥
ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।
ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९.२०॥
ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।
ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९.२१॥
ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।
ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९.२२॥
ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।
ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९.२३॥
ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।
ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९.२४॥
ब्रह्मभावनया भीतिः नाशमेति न संशयः ।
ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९.२५॥
ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।
ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९.२६॥
ब्रह्मभावनया कर्म नाशमेति न संशयः ।
ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९.२७॥
ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।
ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९.२८॥
निश्चयं चापि संत्यज्य स्वरूपांतरासनम् । अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ ३९.२९॥
ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् । दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयं ॥ ३९.३०॥
किंचिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि । अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३९.३१॥
अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्मा त्यहं सदा । नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३९.३२॥
एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् । निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्मा त्त्वमेव हि ॥ ३९.३३॥
सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् । गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३९.३४॥
सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरंजनम् । एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३९.३५॥
इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः । आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरंतरः ॥ ३९.३६॥
एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् । ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३९.३७॥
चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः । अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणं ॥ ३९.३८॥
अहमेव हि नित्यात्मा एवं भावय सुव्रत । अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९.३९॥
आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु । आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ३९.४०॥
विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो- ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च । विश्वेशस्य समर्चनेन सुमहाल्लिंगार्चनाद्यस्यदृक् रुद्राक्षामलधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥ ३९.४१॥
॥ इति श्रीशिवरहस्ये शंकाराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥
॥ चत्वारिंशोऽध्यायः ॥
ऋभुः –
सर्वसारात् सारतरं ततः सारतरांतरं ।
इदमन्तिमत्यन्तं शृणु प्रकरणं मुदा ॥ ४०.१॥
ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किंचन ।
निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ ४०.२॥
ब्रह्मैव सर्वभुवनं भुवनं नाम संत्यज ।
अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ ४०.३॥
सर्वमेवं लयं याति स्वयमेव पतत्रिवत् ।
स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ ४०.४॥
न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलं ।
न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलं ॥ ४०.५॥
न दैवं न च कार्याणि न देहं नेन्द्रियाणि च ।
न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकं ॥ ४०.६॥
इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।
सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०.७॥
सदा ब्रह्म विचारं च सर्वं ब्रह्मेति निश्चिनु ।
तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.८॥
सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।
नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.९॥
भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।
गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१०॥
कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।
अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.११॥
अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।
सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१२॥
सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।
देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१३॥
देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।
देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१४ ॥
ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१५ ॥
तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१६ ॥
चित्तसत्त्वादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१७ ॥
मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
अहङ्कारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१८ ॥
पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
शब्दादिसत्त्वासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१९ ॥
दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२० ॥
वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२१ ॥
मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२२ ॥
रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२३ ॥
माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।
स्थूलव्यष्ट्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२४ ॥
सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।
व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२५ ॥
विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।
तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२६ ॥
वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु ।
जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवं ॥ ४०.२७ ॥
भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकं ।
लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२८ ॥
एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् ।
सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥ ४०.२९॥
असंकलितकापिलैर्मधुहराक्षिपूज्याम्बुज-
प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।
तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं
क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०.३०॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥
॥ ఏకచత్వారింశోఽధ్యాయః ॥
ఋభుః –
అహం బ్రహ్మ న సందేహః అహం బ్రహ్మ న సంశయః ।
అహం బ్రహ్మైవ నిత్యాత్మా అహమేవ పరాత్పరః ॥ 41.1॥
చిన్మాత్రోఽహం న సందేహ ఇతి నిశ్చిత్య తం త్యజ ।
సత్యం సత్యం పునః సత్యమాత్మనోఽన్యన్న కించన ॥ 41.2॥
శివపాదద్వయం స్పృష్ట్వా వదామీదం న కించన ।
గురుపాదద్వయం స్పృష్ట్వా వదామీదం న కించన ॥ 41.3॥
జిహ్వయా పరశుం తప్తం ధారయామి న సంశయః ।
వేదశాస్త్రాదికం స్పృష్ట్వా వదామీదం వినిశ్చితం ॥ 41.4॥
నిశ్చయాత్మన్ నిశ్చయస్థం నిశ్చయేన సుఖీ భవ ।
చిన్మయస్థం చిన్మయత్వం చిన్మయానంద ఏవ హి ॥ 41.5॥
బ్రహ్మైవ బ్రహ్మభూతాత్మా బ్రహ్మైవ త్వం న సంశయః ।
సర్వముక్తం భగవతా యోగినాంమపి దుర్లభం ॥ 41.6॥
దేవానాం చ ఋషీణాం చ అత్యంతం దుర్లభం సదా ।
ఐశ్వరం పరమం జ్ఞానముపదిష్టం శివేన హి ॥ 41.7॥
ఏతత్ జ్ఞానం సమానీతం కైలాసాచ్ఛంకరాంతికాత్ ।
దేవానాం దక్షిణామూర్తిర్దశసాహస్రవత్సరాన్ ॥ 41.8॥
విఘ్నేశో బహుసాహస్రం వత్సరం చోపదిష్టవాన్ ।
సాక్షాచ్ఛివోఽపి పార్వత్యై వత్సరం చోపదిష్టవాన్ ॥ 41.9॥
క్షీరాబ్ధౌ చ మహావిష్ణుర్బ్రహ్మణే చోపదిష్టవాన్ ।
కదాచిత్బ్రహ్మలోకే తు మత్పిత్రుశ్చోక్తవానహం ॥ 41.10॥
నారదాది ఋషీణాం చ ఉపదిష్టం మహాద్భుతం ।
ఆయాతయామం విస్తారం గృహీత్వాఽహమిహాగతః ॥ 41.11॥
న సమం పాదమేకం చ తీర్థకోటిఫలం లభేత్ ।
న సమం గ్రంథమేతస్య భూమిదానఫలం లభేత్ ॥ 41.12॥
ఏకానుభవమాత్రస్య న సర్వం సర్వదానకం ।
శ్లోకార్ధశ్రవణాత్స్యాపి న సమం కించిదేవ హి ॥ 41.13॥
देवनागरी-रूपान्तरणम्
॥ एकचत्वारिंशोऽध्यायः ॥
ऋभुः –
अहं ब्रह्म न सन्देहः अहं ब्रह्म न संशयः ।
अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥ ४१.१ ॥
चिन्मात्रोऽहं न सन्देह इति निश्चित्य तं त्यज ।
सत्यं सत्यं पुनः सत्यमात्मनोऽन्यन्न किञ्चन ॥ ४१.२ ॥
शिवपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ।
गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥ ४१.३ ॥
जिह्वया परशुं तप्तं धारयामि न संशयः ।
वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥ ४१.४ ॥
निश्चयात्मन् निश्चयस्थं निश्चयेन सुखी भव ।
चिन्मयस्थं चिन्मयत्वं चिन्मयानन्द एव हि ॥ ४१.५ ॥
ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः ।
सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥ ४१.६ ॥
देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा ।
ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ ४१.७ ॥
एतत् ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् ।
देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ ४१.८ ॥
विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् ।
साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ ४१.९ ॥
क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् ।
कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ ४१.१० ॥
नारदादि ऋषीणां च उपदिष्टं महाद्भुतम् ।
आयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ ४१.११ ॥
न समं पादमेकं च तीर्थकोटिफलं लभेत् ।
न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ ४१.१२ ॥
एकानुभवमात्रस्य न सर्वं सर्वदानकम् ।
श्लोकार्धश्रवणात्स्यापि न समं किञ्चिदेव हि ॥ ४१.१३ ॥
తాత్పర్యశ్రవణాభావే పరంస్తూష్టీం స ముచ్యతే ।
సర్వం సంత్యజ్య సతతమేతద్గ్రంథం సమభ్యసేత్ ॥ 41.14॥
సర్వమంత్రం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వదేవాంశ్చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.15॥
సర్వస్నానం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వభావం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.16॥
సర్వహోమం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వదానం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.17॥
సర్వపూజాం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వగుహ్యం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.18॥
సర్వసేవాం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వాస్తిత్వం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.19॥
సర్వపాఠం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వాభ్యాసం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.20॥
దేశికం చ పరిత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
గురుం వాపి పరిత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.21॥
సర్వలోకం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వైశ్వర్యం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.22॥
సర్వసంకల్పకం త్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ।
సర్వపుణ్యం చ సంత్యజ్య ఏతద్గ్రంథం సమభ్యసేత్ ॥ 41.23॥
ఏతద్గ్రంథం పరం బ్రహ్మ ఏతద్గ్రంథం సమభ్యసేత్ ।
అత్రైవ సర్వవిజ్ఞానం అత్రైవ పరమం పదం ॥ 41.24॥
అత్రైవ పరమో మోక్ష అత్రైవ పరమం సుఖం ।
అత్రైవ చిత్తవిశ్రాంతిరత్రైవ గ్రంథిభేదనం ॥ 41.25॥
అత్రైవ జీవన్ముక్తిశ్చ అత్రైవ సకలో జపః ।
ఏతద్గ్రంథం పరంస్తూష్టీం సద్యో ముక్తిమవాప్నుయాత్ ॥ 41.26॥
సర్వశాస్త్రం చ సంత్యజ్య ఏతన్మాత్రం సదాభ్యసేత్ ।
దినే దినే చైకవారం పఠేచ్చేన్ముక్త ఏవ సః ॥ 41.27॥
జన్మమధ్యే సకృద్యాపి శ్రుతం చేత్ సోఽపి ముచ్యతే ।
సర్వశాస్త్రస్య సిద్ధాంతం సర్వవేదస్య సంగ్రహం ॥ 41.28॥
देवनागरी लिप्यन्तरणम् (Devanagari Transcription)
तात्पर्यश्रवणाभावे परंस्तूष्णीं स मुच्यते ।
सर्वं संत्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ ४१.१४॥
सर्वमन्त्रं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वदेवांश्च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१५॥
सर्वस्नानं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वभावं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१६॥
सर्वहोमं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वदानं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१७॥
सर्वपूजां च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वगुह्यं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१८॥
सर्वसेवां च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वास्तित्वं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१९॥
सर्वपाठं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वाभ्यासं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२०॥
देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् ।
गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२१॥
सर्वलोकं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वैश्वर्यं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२२॥
सर्वसंकल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वपुण्यं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२३॥
एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् ।
अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ ४१.२४॥
अत्रैव परमो मोक्ष अत्रैव परमं सुखम् ।
अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥ ४१.२५॥
अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः ।
एतद्ग्रन्थं परंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥ ४१.२६॥
सर्वशास्त्रं च संत्यज्य एतन्मात्रं सदाभ्यसेत् ।
दिने दिने चैकवारं पठेच्चेन्मुक्त एव सः ॥ ४१.२७॥
जन्ममध्ये सकृद्यापि श्रुतं चेत् सोऽपि मुच्यते ।
सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य संग्रहम् ॥ ४१.२८॥
सारात् सारतरं सारं सारात् सारतरं महत् ।
एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥ 41.29 ॥
न प्रसिद्धं गते लोके न स्वर्गेऽपि च दुर्लभं ।
ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभं ॥ 41.30॥
एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः ।
क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥ 41.31॥
ज्ञात्वा क्षीरसमुद्रस्य तीरे प्राप्तं गृहीतवान् ।
गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥ 41.32॥
तत् आरभ्य तल्लोकं त्यक्त्वाहमिमुमागतः ।
अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महोद्भुतं ॥ 41.33॥
तद् ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः ।
आत्मनिष्ठैकलभ्योऽसौ सद्गुरुर्ह्येष लभ्यते ॥ 41.34॥
ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातीरागता ।
भवते दर्शितं ह्येतद्गमिष्यामि यथागतं ॥ 41.35॥
एतावदुक्तमात्रेण निदाघु ऋषिसत्तमः ।
पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥ 41.36॥
उवाच वाक्यं सानन्दं साष्टांगं प्रणिपत्य च ।
निदाघः –
अहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
भवतां दर्शनेनैव मज्जन्म सफलं कृतं ॥ 41.37॥
एकवाक्यस्य मनने मुक्तोऽहं नात्र संशयः ।
नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥ 41.38॥
तस्यापि नावकाशोऽस्ति अहमेव न वास्तवं ।
त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥ 41.39॥
ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किंचन ।
एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥ 41.40॥
सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि ।
तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलं ॥ 41.41॥