भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत । स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः ॥ ४.४३ ॥

नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकम् । न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् ॥ ४.४४ ॥

इदन्त्ये नतर्ह्यामदृश्यं चप्यलक्षणम् । अचिन्त्याव्यवहार्यं चाव्यपदेशं पृथक्तया ॥ ४.४५ ॥

एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवम् । शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः ॥ ४.४६ ॥

स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः । तुर्यात्मज्ञानहीनानां न मुक्तिस्स्यात्कदाचन ॥ ४.४७ ॥

निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्सुतः ॥ ४.४८ ॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ ४.४९ ॥

नात्मानं न परं चैव न सत्यं नापिचानृतम् । प्राज्ञः किञ्च न संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ ४.५० ॥

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते ॥ ४.५१ ॥

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ४.५२ ॥

अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ४.५३ ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा ॥ ४.५४ ॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ४.५५ ॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ ४.५६ ॥

निदाघः ।

भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः । भवतोऽभिमतं तत्र संशयो मे भवत्यलम् ॥ ४.५७ ॥

ऋभुः ।

द्वैतप्रपञ्चशून्येऽस्मिन् निर्गुणे पूर्णचिद्घने । ब्रह्मण्यद्वैतसंसिद्धिर्ऋतो नान्यत्र सर्वथा ॥ ४.५८ ॥

अतस्स्वरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः । ममैवाद्वैतवादित्वन्नारूपादद्वैतवादिनः ॥ ४.५९ ॥

द्वैताद्वैतोभयातीते व्यवहाराद्यगोचरे । नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् ॥ ४.६० ॥

द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् । नीवृत्तिस्स्याद्यथादीपात्तमसो नत्वरूपतः ॥ ४.६१ ॥

अतो नाद्वैतसिद्धिस्स्यात्कथञ्चिदपि सत्तम । अरूपागोचरब्रह्मवादिनां तादृशे मते ॥ ४.६२ ॥

चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् । नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् ॥ ४.६३ ॥

यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिध्यति । तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः ॥ ४.६४ ॥

वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते । कथमद्वैतशब्दोऽयं सावकाशो भवेन्मुने ॥ ४.६५ ॥

निदाघः ।

देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते । तस्योपनिषदत्वस्याव्यभिचारोऽस्वरूपिणः ॥ ४.६६ ॥

ततोऽस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् । वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक ॥ ४.६७ ॥

ऋभुः ।

अरूपब्रह्मविषयाश्श्रुन्त्येव यद्यपि । तेनोपनिषदत्वं च कथञ्चित्तस्य सिध्यति ॥ ४.६८ ॥

तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिध्यति । रूढ्यर्थमात्रवत्त्वेनाल्लक्षकत्वादयोगतः ॥ ४.६९ ॥

योगार्धवृद्धिश्शब्दैर्वा लक्ष्यैर्वाचकैश्च वा । शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः ॥ ४.७० ॥

अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्रुतौ यतः । याज्ञवल्क्येन गार्ग्या तन्नत्त्वं प्रष्टुमिहार्हसि ॥ ४.७१ ॥

तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः । सच्चिदानन्दपूर्णैस्त्वं मदुक्तं विद्धि मुक्तये ॥ ४.७२ ॥

जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै । स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः ॥ ४.७३ ॥

सुषुप्तौ कारणं देहमानन्दमयकोशकं । तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितं ॥ ४.७४ ॥

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वं । स्त्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति ॥ ४.७५ ॥

स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके । सुषुप्तिकाले सकले विलीने तमोऽभिभूतस्सुखरूपमेति ॥ ४.७६ ॥

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः । पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रं ॥ ४.७७ ॥

आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च । यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं ॥ ४.७८ ॥

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी ॥ ४.७९ ॥

यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ४.८० ॥

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४.८१ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ४.८२ ॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितं । मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहं ॥ ४.८३ ॥

अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रं । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ४.८४ ॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सशृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहं ॥ 4.85 ॥

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचाहं ।
न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति ॥ 4.86 ॥

न भूमिरापो मम वह्निरस्ति न चानिलोमेऽस्ति न चाम्बरं च ।
एवं विदित्वा परमार्थरूपं गुहाशयं निष्कलमद्वितीयं ॥ 4.87 ॥

अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपं ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वं ॥ 4.88 ॥

श्री गुरुमूर्तिः ।

एवं श्रुत्वा निदाघस्सु ऋभुवक्त्राद्यदार्थतः ।
ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे ॥ 4.89 ॥

यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् ।
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् ॥ 4.90 ॥

॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ॥

॥ ॐ तत्सत् ॥