ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 246, कुल 249 में से
संदर्भ में पढ़ेंआप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत । स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः ॥ ४.४३ ॥
नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकम् । न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् ॥ ४.४४ ॥
इदन्त्ये नतर्ह्यामदृश्यं चप्यलक्षणम् । अचिन्त्याव्यवहार्यं चाव्यपदेशं पृथक्तया ॥ ४.४५ ॥
एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवम् । शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः ॥ ४.४६ ॥
स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः । तुर्यात्मज्ञानहीनानां न मुक्तिस्स्यात्कदाचन ॥ ४.४७ ॥
निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्सुतः ॥ ४.४८ ॥
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ ४.४९ ॥
नात्मानं न परं चैव न सत्यं नापिचानृतम् । प्राज्ञः किञ्च न संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ ४.५० ॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते ॥ ४.५१ ॥
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ४.५२ ॥
अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ४.५३ ॥
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा ॥ ४.५४ ॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ४.५५ ॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ ४.५६ ॥
निदाघः ।