भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 245, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 245

स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः । तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि ॥ ४.२८ ॥

न तावता त्रिपाच्युत्याद्यनुरोधेन निश्चितं । स्वभेदं विदुषां किञ्चिद्विद्यते मुक्तजन्मनां ॥ ४.२९ ॥

सूक्ष्मबुद्ध्या विचारे हि स्वात्मभेदः प्रकाशते । अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु ॥ ४.३० ॥

एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः । जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरं ॥ ४.३१ ॥

आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका । तृतीया सुप्तिरूपाऽन्या तुरीया चित्स्वभात्मिका ॥ ४.३२ ॥

आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः । तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः ॥ ४.३३ ॥

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्थितः ॥ ४.३४ ॥

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ४.३५ ॥

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोध च ॥ ४.३६ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसं । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोध च ॥ ४.३७ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ४.३८ ॥

प्रभवस्सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ४.३९ ॥

विभूतिं प्रसवन्त्यन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ४.४० ॥

इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ४.४१ ॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ४.४२ ॥