भारतकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 244, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 244

उपसंक्रमितव्यो यदानन्दमय उच्यते । वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः ॥ ४.१३ ॥

तस्मात्स्ययं सदापूर्णः पञ्चमस्य विकारिणः । आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः ॥ ४.१४ ॥

भृगवे वरुणेनैवं तैत्तिरीयाभिधश्रुतौ । पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु ॥ ४.१५ ॥

मयट्प्रयोगाभावेन हेतुना निर्विकारता । न शंक्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् ॥ ४.१६ ॥

अतस्स्पष्टं परंब्रह्म पञ्चमेनोपलक्षितं । निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय ॥ ४.१७ ॥

प्राचुर्यार्थकतायां तु मयटो निर्विकारिणः । सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् ॥ ४.१८ ॥

शारीरत्वाभिधानेन पूर्वानन्दमयस्य तु । विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च ॥ ४.१९ ॥

नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते । उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् ॥ ४.२० ॥

उपसंक्रमणं चोक्तं मयडन्तस्य केवलं । आनन्दस्य ततोन्यस्य न परात्मतया खलु ॥ ४.२१ ॥

ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितं । यत्तत्स्वरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु ॥ ४.२२ ॥

आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने । प्रारब्धान्ते पुच्छभूताऽरूपब्रह्मप्तिरिष्यते ॥ ४.२३ ॥

प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोऽपि च । शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितं ॥ ४.२४ ॥

तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः । आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते ॥ ४.२५ ॥

मोदप्रमोदयश्चैवं सति वेद्यत्वमापतेत् । इतिचेन्नैष दोषोस्ती तयोर्ब्रह्मांशता यतः ॥ ४.२६ ॥

ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः । उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते ॥ ४.२७ ॥