ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 243, कुल 249 में से
संदर्भ में पढ़ें॥ चतुर्थोऽध्यायः ॥
पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् । तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४.०१ ॥
ऊर्णनाभिर्यथातंतून् सृजते संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ ४.०२ ॥
नेत्रे जागरितं विद्यात्कंठे स्वप्नं समाविशेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ ४.०३ ॥
यतो वचो निवर्तंते अप्राप्य मनसा सह । आनंदमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः ॥ ४.०४ ॥
सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् । आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदम् ॥ ४.०५ ॥
श्री गुरुमूर्तिः ।
ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः । पप्रच्छ सद्गुरुं शांतं सावधानेन चेतसा ॥ ४.०६ ॥
निदाघः ।
भगवन् भवता पूर्वं यतोवाच इति श्रुतेः । आनंदो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते ॥ ४.०७ ॥
आनंदमयसंज्ञस्य जीवस्योक्तश्च यद्यपि । श्रुतौ तथापि हेयात्वान्तदीयो भवेद्धि सः ॥ ४.०८ ॥
नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते । नानंदस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् ॥ ४.०९ ॥
एवं पृष्टो मुनिश्रेष्ठो निदाघेन महात्मना । ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् ॥ ४.१० ॥
ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् । मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् ॥ ४.११ ॥
पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् । श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु ॥ ४.१२ ॥