रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 122, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ३५ नक्षत्रयोनिश्च षडष्टकञ्च वर्गाष्टकं नाडिगतञ्च ऋक्षम्। देवादिकृक्षाणि विशोपकाश्च (?) एते विलोक्याः प्रतिमाविधाने ॥५६॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्त्तिप्रकरणे शिलापरीक्षाप्रतिमाप्रमाणगुण^दोषाङ्गुताधिकारो नाम प्रथमोऽध्यायः। स्तम्भादितत्तद्वस्तूनां ग्रहणम्। एतच्चातिसाहसेन यथाज्ञानमभ्युह्य समुपस्थापितमस्माभि- र्व्याख्यानम्, निर्णये तु पाठकाः प्रमाणम्। रूपमण्डने तु— वत्सेनाभिमुखे कुर्याद् यात्रां द्वारञ्च वास्तुनः। प्रवेशप्रतिमादीनां गुर्विणीनां विशेषतः॥ (अ० १, १७ श्लो०) इति विशेषः। ५९। नक्षत्रयोनिश्चेत्यादि। नक्षत्रयोनिः योनिवैरम्, देवादिकृक्षाणि देवनरराक्षसगणनक्षत्राणि विशोपकाश्च प्रतिमाविधाने देवतामूर्त्तिगठनकाल इत्यर्थः, एते नक्षत्रयोन्यादयः, विलोक्या विचार्या इत्यर्थः। अत्र विशोपकाश्चेति किं शुद्धः पाठः किं वापपाठस्तदपि निर्णेतुमसमर्थैरस्माभिस्तूष्णी- भास्यते। नक्षत्रयोनिविचारः—कर्मकर्त्तुः कर्मदिनस्य च नक्षत्रयोः परस्परं योनिगतशत्रुतां नक्षत्रयोनि- वैरमुच्यते। प्रतिमागठनस्य शुभदिनकरणे नक्षत्रयोनिवैरं दोषावहम्। अत्र कर्मदिननक्षत्रं प्रतिमाया जन्मनक्षत्रं ज्ञेयम्। एवमन्यत्रापि। अश्विन्याः— अश्वयोनिः ज्येष्ठायाः— हरिणयोनिः शतभिषायाः— ” अनुराधायाः— ” स्वात्याः— महिषयोनिः आर्द्रायाः— श्वयोनिः हस्तायाः— ” मूलायाः— ” पूर्वभाद्रपदस्य— सिंहयोनिः उत्तरफल्गुन्याः— गोयोनिः धनिष्ठायाः— ” उत्तरभाद्रपदस्य— ” भरण्याः— हस्तियोनिः चित्रायाः— व्याघ्रयोनिः रेवत्याः— ” विशाखायाः— ” कृत्तिकायाः— मेषयोनिः अश्लेषायाः— विडालयोनिः पुष्यायाः— ” पुनर्वसोः— ” पूर्वाषाढायाः— वानरयोनिः मघायाः— मूषिकयोनिः श्रवणायाः— ” पूर्वफल्गुन्याः— ” रोहिण्याः— सर्पयोनिः अभिजितः— नकुलयोनिः मृगशिरसः— ” उत्तराषाढायाः— ”