भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 180, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 180

पञ्चमोऽध्यायः ६३ सुतेजसं विश्वरूपं विश्वज्ञं सृष्टिकारकम् । तस्य चानुक्रमं वक्ष्ये (विश्व ? विंश)द्भिर्हस्त(के यु ? कैर्यु)तम् ॥ ६४ ॥ पताक(ा ?)शङ्खौ च हलं वज्रमङ्कुशसायकौ । चक्रं तुङ्गञ्च वरदौ दक्षिणेषु करेषु च ॥ ६५ ॥ पता(कं ? का) दण्डपा(शञ्च ? शौ च) गदाशार्ङ्गविधृतकरम् । पद्म( ? )शृ(ङ्गो ? ङ्गी) च कुमुदमक्षमाला तथैव च ॥ ६६ ॥ योगमुद्रा कर(द्वयं ? द्वन्द्वे) वैनतेयोपरि स्थितम् । नरञ्च नारसिंहञ्च (तृतीयं?स्त्रीमुखं) शूकराननम् ॥ ६७ ॥ इति विश्वरूपः । अनन्तानन्तरूपञ्च यस्माद् वि(श्वं ? श्व)समुद्भव(वम् ? वः) । अनन्तशक्ति(मा ? सं)कीर्णमन(न्तं ? न्त?) रूपसंयुतम् ॥६८॥ संयुतं द्वादशभुजैश्चतुर्वक्त्रमहोत्सवम् । सुपर्ण(केतोतराखं?स्कन्धमारूढं) कर्त्तव्यं सर्वकामदम् ॥६६॥ ९४। यद्यपि ‘विंशत्या हस्तकैर्युतम्’ इत्येव समीचीनः पाठः, तथाऽप्यक्षरसाम्यमनुबद्ध्य ‘विंशद्भिर्वि’ति कृतम् । भूरिप्रयोगश्चायं विंशच्छब्दस्त्रिंशदादिशब्दवत् पुराणेषु, वचनविपर्ययोऽपि नगण्य एवैवंविधानिबन्धेषु । ‘विंशत्या हस्तकैर्युक्तो विश्वरूपश्चतुर्मुखः’ इति रूपमण्डने पाठः । ९७। नरञ्चेति । यथाश्रुतपाठे तु विश्वरूपस्त्रिविध इत्यायाति । अत्र च विश्वरूपस्य मुखसङ्ख्यादर्शनात् सम्भवदपि तस्य त्रैरूप्यं तन्त्रान्तरविरोधीति कृत्वा परिहृतम्, पाठान्तरञ्च कल्पितम् । अत एव रूपमण्डने— विंशत्या हस्तकैर्युक्तो विश्वरूपश्चतुर्मुखः । पताका हलशङ्खौ च वज्राङ्कुशशरांस्तथा ॥ चक्रञ्च बीजपूरञ्च वरो दक्षिणबाहुषु । पताका दण्डपाशौ च गदाशार्ङ्गोत्पलानि च ॥ शृङ्गी मषलमक्षञ्च क्रमात् स्युर्वामबाहुषु ।

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 180, कुल 335 में से · BharatKosha