रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 181, कुल 335 में से
संदर्भ में पढ़ें६४ देवतामूर्तिप्रकरणम् गदाखड्(गं ? गौ) तथा चक्रं वज्राङ्कुश(क ? श)राणि वै । शङ्खखेटौ धनुः पद्मं दण्डपाशावनन्तकः ॥ १०० ॥ नरं तथा नारसिंहं (तृतीयं? स्त्रीमुखं) शूकराननम् । तेजःपुञ्जोद्भवं कार्यमनन्तं नाम नामतः ॥ १०१ ॥ इत्यनन्तः । त्रैलोक्यमोहनं वक्ष्ये संसारमोहकारकम् । षोडशैव भुजास्तस्य तार्क्ष्यारूढं महाबलम् ॥ १०२ ॥ गदाचक्राङ्कुशान्येव बाणशक्तिसुदर्शनम् । वरदं करमुद्धृत्य शस्त्रा वै दन्ति(णस्त?णे त)था ॥ १०३ ॥ मुद्गरः पाशशार्ङ्गौ तु शङ्ख(:) पद्मकमण्ड(लु ? लू) । शृङ्गी च वामहस्ते स्याद् योगमुद्रा करद्व(यम् ? ये) ॥१०४॥ नरञ्च नारसिंहाख्यं शूकरं कपिलाननम् । द्विशक्त्यष्टशक्तियुतं कुर्यात् त्रैलोक्यमोहनम् ॥ १०५ ॥ इति त्रैलोक्यमोहनः । हस्तद्वये योगमुद्रा वैनतेयोपरि स्थितः । क्रमान्नरनृसिंहस्त्रीवराहमुखवन्मुखः ॥ ( ३ अ० ५५-५८ श्लो० ) इत्यस्य विश्वरूपस्य चतुर्मुखत्वं वैकुण्ठवत् प्रकारभेदञ्च प्रतिपादयति । मूले तुङ्गमित्यत्र लुङ्गमिति स्यात्, नामैकदेशे नाम इति मातुलुङ्गमित्यर्थः । १०१ । अत्रापि विश्वरूपवद् व्यवस्था । यद्वा उभयत्रापि 'तृतीयमि'ति 'स्त्रीमुखमि'त्य- स्यानुकर्षणार्थम्, एवञ्च 'स्त्रीमुखम्' इति बन्धनीमध्ये पाठान्तरकल्पनं सुखार्थम् । रूपमण्डने मुखस्य विवरणं नास्ति । रूपमण्डनेऽनन्तलक्षणम्—( ३ अ० ५८-५९ श्लो० ) अनन्तोऽनन्तरूपस्तु हस्तैर्द्वादशभिर्युतः । अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥ दक्षिणे तु गदाखड्गौ चक्रं वज्राङ्कुशे शरः । शङ्खः खेटं धनुः पद्मं दण्डपाशौ च वामतः ॥ इति १०२-१०५ । अत्र त्रैलोक्यमोहनस्य षोडशानां भुजानां चतुर्दशसु यथोक्तान्यस्त्राणि करद्वये योगमुद्रेति चतुर्थार्थः । शृङ्गी योगेन पर्वतमभिधत्ते ।