रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 213, कुल 335 में से
संदर्भ में पढ़ें१२६ देवतामूर्तिप्रकरणम् (९)अर्धचन्द्रा (१०)त्रिकोणा च विज्ञेया दश पीठिकाः । [ पीठिकालक्षणम् ] चतुरस्रा स्थण्डिला स्यात् संयुता मेख(ला?लै)कया ॥१४२॥ चतुरस्रा यदा वेदी सर्वकामफलप्रदा । [ इति स्थण्डिला(१) ] कर्तव्या मण्डलाकारा मेखलाभिरलङ्कृता । मण्डला सा तु विज्ञेया गणानां सिद्धिहेतवे ॥१४३॥ [ इति मण्डला(५) ] पूर्णचन्द्र (वि?नि)भाकारा मध्यन्यस्तद्विमेखला । विज्ञेया पूर्णचन्द्रा सा रुद्राणीशतसंप्रिया ॥१४४॥ [ इति पूर्णचन्द्रा(६) ] षडस्रा च भवेद्वज्रा मेखलात्रयभूषिता । [ इति वज्रा(७) ] षोडशास्रा भवेत् पद्मा किञ्चिच्च(स्या?स्यान्) मृणालवत् ॥१४५॥ [ इति पद्मा ८) ] लग्नज्यधनु(षा?रा)काराऽर्धचन्द्रा चैव सा भवेत् । [ इत्यर्धचन्द्रा(९) ] त्र्यस्रा त्रिकोणा विज्ञेया सा शक्त्या सदृशा भवेत् ॥१४६॥ [ इति त्रिकोणा(१०) ] [ आसां फलम् ] स्थण्डिला पीठिका यत्र धनधान्यार्थदायिनी । महिषीगोप्रदा वापी यक्षी सर्वार्थदायिनी ॥१४७॥ १४६। लग्नज्येति ज्यायुक्तधनुराकृतिरित्यर्थः ; एवं ह्यर्द्धचन्द्राकृतिर्भवेत् । १४७। इदानीं पीठिकानां नामभेदेन फलान्याह—स्थण्डिलेति । अत्राऽऽद्यायाः स्थण्डिलायाः परं वापीयक्षीवैरीणां तिसृणां पीठिकानां लक्षणं नोपलक्ष्यते । फलकथनप्रस्तावे पुनर्वापीयक्ष्योर्नामनी दृश्येते, वैरी तु वैरायमाणेव दृष्टिपथं परिहृतवती ।