रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 214, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः १२७ मण्डला कीर्त्तिबहुला पूर्णचन्द्रा तु शान्तिदा । वज्रा शत्रुविनाशाय पद्मा सौभाग्यदायिनी । अर्धचन्द्रा सुखाय स्यात्त्रिकोणा शत्रुनाशिनी ॥१४८॥ [ पीठिकानां स्वजातिकर्त्तव्यता ] शैलजे शैलजा योज्या दारुजे दारुजा शुभा । पार्थिवे पार्थि(वा?वी) कार्या लोहजे लोहजोत्तमा । रत्नजे धातुजा शस्ता रत्नजाता विशेषतः ॥१४९॥ [ प्रणालव्यवस्था ] मूलादग्रं प्रणाल(स्या?स्य) प्रमाणा इधिकं शुभम् । जल(मग्राविभाषेण ?मार्गास्त्रिभागेन) चाग्रतस्तु सुशोभनम् ॥१५०॥ [ मुखलिङ्गम् ] सम्मुखं (चैव?चैक)वक्त्रं स्यात् लिव(क्त?क्त्वे) पृष्ठतो नहि । पश्चिमास्यं स्थितं शुक्लं कुङ्कुमाभं तथोत्तरम् । याम्यं कृष्णकरालञ्च प्राच्यं दीप्ताग्निसन्निभम् ॥१५१॥ [ मुखनामानि ] सद्यो वामं तथाऽघोरं पुरुषञ्च चतुर्थकम् । पञ्चमञ्च तथेशानं योगिनामप्यगोचरम् ॥१५२॥ इति पीठिकामुखलिङ्गाधिकारः । वामे गणाधिपत्यञ्च दक्षिणे पार्वती स्मृता । नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ १५३ ॥ १५१। मुखलिङ्गमाह—सम्मुखमिति । एतत्पूर्वार्द्धत्वेन रूपमण्डने— 'मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रं चतुर्मुखम्' ( अ० ४, श्लो० १३ )