भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 135, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 135

१८० साहित्यदर्पणे - भूतो यथा—'चिन्ताभिः स्तिमितम्—' इत्यादि (१७८) शापाद्यथा—'तां जानीयाः—' इत्यादि (१२३ पृ.) ^१संभ्रमो दि- मानुषनिर्घातोत्पातादिजः । यथा—विक्रमोर्वश्यामुर्वशीपुरूरवसोः । अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनां दशानामुभयेषामप्युभयत्र संभवेऽपि चिरंतनप्रसिद्ध्या विविच्य प्रति- पादनम् । अथ करुणविप्रलम्भः— यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनरलभ्ये । विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्यः ॥२०९॥ यथा कादम्बर्यां पुण्डरीकमहाश्वेतावृत्तान्ते । पुनरलभ्ये शरीरान्तरेण वा लभ्ये तु करुणाख्य एव रसः । अत्यन्तसखित्वमित्यत्र पृथक् प्रियसखित्वोपादानम् । प्रियतमगमने गन्तुमारभ्या वलयादयः सख्योचित कर्म कुर्वन्ति । त्वमपि प्रियस्य सुहृद्भवसीति तवापि गमनं न्याय्यमित्याह—गन्तव्ये सतीति । अत्रेयमुक्तिरनुभावः । अश्रुभ्रंशहत्तापव्यथो- विषादो व्यभिचारिभावः । प्रियतम आलम्बनम् । नायिकाया रतिङ्गे सामाजिके रसोत्पत्ति ॥ तां जानीया इति प्रोषितभर्तृकाया नायिकाया उदाहरणमिदम् ॥ दिव्यो विद्युदुल्कादि । मानुषो मर्त्यलोकभवो भूकम्पादि । निर्घात इति नामसोपलक्षणम् । उत्पातोऽनिष्टसूचको देवकृत प्रकृतिविपर्याय । आदिना उन्मादादिपरिग्रहः । उर्वशीपुरूरवस्योरिति । उर्वशी हि पुरा मित्रवरुणशा- पान्मर्त्यलोकं प्राप्य पुरूरवसो गृहे 'यदि भवन्त सुरतसमयातिरिक्तसमये नग्नं पश्यामि तदा त्वामहं त्यक्ष्यामि, मम मेषद्वयं भवता रक्षणीयम्' इति नियम कृत्वा स्थिता । तदनन्तर देवैरन्वतमसे मेषद्वयमपहृतम् । तच्छ्रुत्वा पुरूरवा ससंभ्रमेण वस्त्रमपरिधायैव खड्गपाणिर्मेषापहर्तु पश्चाद्धावित । एतस्मिन्नन्तरे विद्युद्दीप्त्य नग्नमवलोक्योर्वशी स्वर्ग गतेति ग्रन्थस्य वर्तुलार्थ । अत्र देवरुन्मेषापहरणाद् दिव्योत्पातेन पुरूरवसः संभ्रम , तेनोर्वश्या विप्रयोगप्रकृतित्वम् ॥ उभयत्र पूर्वरागे प्रवासे च ॥ करुणविप्रलम्भमाह—यूनोरिति । विमनायते शोकव्याकुलचित्ततया विलापं कुरुते । पुनर्गलभ्य इति । रतेर्नाशाद् उत्कृष्टशोकसमवाय करुणाख्यो


१. संभ्रम इत्यादिसंक्षिप्तिका कारिकाग्रन्थे न कार्येः । १. गन्तुमुद्यते तु स्विन्नं शरीरं यष्टिर्मा न रीर्यत प्रसीद प्रियसखि न्याय्यं त्वयि । इत्युत्तरं यद्भवत्याऽङ्गा न प्रवर्तन्त दर्पयद भर्त्तारम् ?' इत्याद्याशय २. 'एतन्मन्द' इति 'नारी' इत्यादि पाठो क्वचिद् दृश्यते. ३. 'अत्र—इत्यादि प्रसिद्ध्या यावत् 'साहित्यदर्पणे २०६। इति वृत्तिग्रन्थे दृश्यते ४ 'मित्रस्य दूषितत्वाद्'इत्यपि