भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 136, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 136

तृतीयः परिच्छेदः । १८१ किंञ्चात्राकाशसरस्वतीभाषानन्तरमेव शृङ्गारः, संगमप्रत्याशया रतेरु- द्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । यच्चात्र 'संगम- प्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव' इति केचिदाहुः, तदन्ये 'मरणरूपविशेषसंभवात्तद्भिन्नमेव' इति मन्यन्ते । अथ संभोगः— दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ २१० ॥ आदिशब्दादन्योन्याधरपानचुम्बनादयः । यथा—'शून्यं वासगृ- हम्—' (२३ पृ.) इत्यादौ । संख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् । अयमेक एव धीरैः कथितः संभोगशृङ्गारः ॥ २११ ॥ तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः । जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥२१२॥ अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च । रसः, न पुनर्विप्रलम्भ इति भावः । अत्र विशेषमाह—किं चेति । निषेवेते कुरुतः । एकतरस्यानुरागाभावे शृङ्गाराभास इति तद्वारणाय—अन्योन्यमिति ॥ शून्यमिति । व्याख्यातमेतत्प्राक् (२३ पृ ) एक एकप्रकारः । संभोगोद्दीपनवि- भावानाह—तत्रेति । संभोग इत्यर्थः । स्याद् उपयुक्तं भवति । वाच्यं संभो- गोद्दीपकत्तया वर्णनीयम् । शुचि मेध्यमत्यन्तं निर्मलम् । अन्यदन्यादि ॥ संख्यातुं

  1. अत्रेति । यत्र कादम्बर्यां चन्द्रापीडं प्रति श्वेतेन पुण्डरीकव्यतिकरे वर्ण्यमाना महाश्वेताया वाग्येत्यित्यर्थः । जीवितावधियोगे जीवितावस्थानदशाया वैक्लव्यपोपिताया रतेरेव प्राधान्याद्विप्रलम्भः । दैन्यं तु संचारिमात्त्रम् । वृन्दान्तरदशाया तु रतिपोषि- तस्य दैन्यस्यैव प्राधान्यादिति करुण एव । यदा तु नद्यपि मृत्यनन्तरे देवानुप्रसादादिना पुनर्जीवनदानं तदचिन्त्यान्तरत्वात्कन्दर्पव्यापारनिवृत्तिराभावाच्चिरस्थानं इदं विप्र- लम्भ एव । न मरण इति नव्याः ॥
  2. केचिदिति । 'उद्भग्नां तु प्रथमं द..., शापादन्तःसतीवचनादूर्ध्वं प्रवास- शृङ्गार एवेति' स्थानार्थविदः ॥ 3 विलासिनाविति । विलासिनी च विलासी च विलासिनावित्येकशेषः ॥ १. '...' ग. प. २. '...' क. ३. 'अदि म...' इ. प. ४. 'क...' इति द्रष्टव्यम् ५. 'अवि...' ग. पुस्तके । ६. '...' इति ग. सा०हि० १६