साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 194, कुल 506 में से
संदर्भ में पढ़ेंपञ्चमः परिच्छेदः । २६३ नाना आस्वादपदवीं गताः सन्तो रसा उच्यन्त इति, अवश्यंभावी प्रतीतिक्रमः केवलमाशुभावितयाऽसौ न लक्ष्यते, यतोऽयमद्याप्यभि- व्यक्तिगर्भः" इति यदुक्तम्, तत्र प्रष्टव्यम्—किं शब्दाभिनयसमर्पित- विभावादिप्रत्ययानुमितरामादिगतरत्यादिज्ञानमेव रसत्वेनाभिमतं भवतः, उद्भावनया भावकैर्भाव्यमानः स्वप्रकाशानन्दो वा । आद्ये न विवादः । किंतु 'रामादिगतरत्यादिज्ञानं रससंज्ञया नोच्यतेऽस्माभिः' इत्येव विशेषः । द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव । तथोक्तं तेनैव—'यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसंचारिणा- मभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः' इति सुग्रहैव व्याप्तिः पक्षधर्मता च । आस्वादपदवीम्—त एवेति । विभावाद्य एवेत्यर्थः । आस्वादपदवीं प्रत्यक्षवि- षयताम् । तथा च पयो दध्यान्ययोगेन दधित्वं प्राप्नुवद्यथा कारणमुच्यते तथा विभावादयोऽप्यन्योन्यसंसर्गादियोगेन रसादिरूपतां प्राप्नुवन्तो रसादेः कारण- मुच्यन्त इति भावः । नन्वेतादृशकार्यकारणभावस्वीकारे रसादेरसंलक्ष्यक्रम- व्यत्वं व्यसङ्गतमत आह—अवश्यंभावीति । तासां विभावादिप्रतीतिव्या- प्तिपक्षधर्मता महरणमधुलेखास्वादनरूपाणां प्रतीतीनां क्रमः पौर्वापर्यम् । आशु- भावितया शैघ्रयसंबन्धात् । असौ क्रमः । तथा चासा शतपत्रव्यतिभेदेवत्क्र- मस्यात्त्वेऽपि सूक्ष्मत्वात्तया स न लक्ष्यत इति भावः । ननु भवत्सिद्धनधिकं कल्प- न्तत आह—यत इति । अयमीदृशः, अद्यापि रसादेर्व्यङ्ग्यत्वस्वीकारेऽपि, अभिव्यक्तिर्व्यञ्जनजन्यबोधः । यथा भवतां प्रथमं विभावाद्युपस्थितिः, ततो रत्यादिस्मृतिः, ततः साधारण्याभिमानः, ततो रसानुभूतिः, इति क्रमसत्त्वेऽ- प्याशुभावितया रसादेरसंलक्ष्यक्रमसमुपलक्ष्ये तथास्माकमपीति भावः । शब्दाभि- नयेति । शब्दव्यञ्जकवाच्यद्वयानभिप्रायेण । समर्पितेति । जनितेत्यर्थः । भव- तस्त्व । तद्भावनया विभावादिवोधेन । भावकैः सामाजिकैः । भाव्यमान आस्वाद्यमानः सन् आत्मना प्रकाशो यस्य स । 'रसत्वेनाभिमतः' इति द्वित- यकल्पेनान्वयः । असिद्धो नानुमिति विषयः । श्रोत्रियचरणलीन चञ्चादीनां विभा- बादिसद्भावसत्त्वेऽपि स्वप्रकाशानन्दानुत्पत्तिदर्शनादयं हेतुर्व्यभिचारीति व्याप्तिग्र- १. व्याप्तिरिति । यत्र यत्र धूमस्तत्र तत्र वह्निरिति साहचर्यनियमः । साध्यसाध- नयोर्व्याप्तिरित्यर्थः ॥ २. पक्षेति । व्याप्तस्य (धूमस्य) पर्व्वतनिष्ठवृत्तित्वम् ॥
- 'व्यङ्ग्यक्रियः' क. 'अभिव्यक्तिज्ञः' घ. २. 'इमं-' इत्यादि 'अभ्यनुज्ञेयं' इत्यन्तः पाठः इतःपूर्व्वं द्विषु पुस्तकेषु दृश्यते । ३ 'बोधः' इत्यादिः पाठो मुद्रिते.