साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 273, कुल 506 में से
संदर्भ में पढ़ें२८ साहित्यदर्पणे वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता । भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥' इत्ययं द्वापञ्चाशतो राज्ञा काल = १२६६ स च न सवदति। एतदुक्तं भवति- यदि नाम प्रकृतोपयुक्ता सप्तर्षीणां गतिर्नोपलभ्यते, तर्हि तया युधिष्ठिरकालनिर्ण- योऽशक्यः । अत्र सिद्धान्ततत्त्वविवेके कमलाकरभट्टाः । 'अद्यापि कैरपि नरैर्गतिराश्चर्य्य- र्दृष्टा न या च कथिता किल संहितासु । तत्काव्यमेव हि पुराणवदत्र तज्ज्ञा- स्तेनैव तत्त्वविषयं गदितुं प्रवृत्ताः ॥” ( भग्रह. ३२ ) इत्यादि निर्णायन्ति । तथा सिद्धान्तदर्पणे चन्द्रशेखराचार्या अपि- 'सप्तर्षीणां ध्रुवः प्राग्भिर्नोक्तः संचारसंभवात् । तथाप्यनुभवात्तेषां व्यवस्था क्रियतेऽधुना ॥ पूर्व्वाग्रं शकटाकारमुदक्स्थमुडुसप्तकम्। सप्तर्षिमण्डलं प्रोक्तं व्यक्तं विश्वनमस्कृतम् ॥ तत्पूर्व्वान्तररेखाग्रे मरीचिः पश्चिमे ततः । वसिष्ठोऽरुन्धतीयुक्तस्तत्पश्चादङ्गिराः स्थितः ॥ तत्पश्चाच्चतुरस्रस्य शम्भुदिश्यग्निरस्य तु । पुलस्त्यो दक्षिणे तस्य पश्चिमे पुलहः स्थितः ॥ क्रतुस्तदुत्तरस्थानस्तत्रोक्तौ पुलहक्रतू । ध्रुवसूत्रेण यल्लग्नौ तद्दक्षस्या महर्षयः ॥ कथ्यन्ते सांप्रतं (४९७०) सिंहे भूभुजां(२१)शान्तगौ हि तौ। कालांशैर्विश्वकैः १३ प्राच्यां पुलस्त्यो वर्तते ततः ॥ तन्मन्दैः सायकैः (५) रनिरङ्गिरा नवभि(९)स्ततः ॥ ततोऽष्टाभि(८)र्वसिष्ठोऽस्मान्मरीचिर्वर्त्ततेऽष्टभिः(८) ॥' इत्येवमादि सङ्क्षेपादुक्त्वान्ते- 'प्रत्यक्षं प्राग्गतिः प्रोक्ता पुराणैरप्यलौकिकाः । नैषां नो निश्चिता पूर्व्वानुभवाददीनान्मया ॥' इत्युपसञ्जह्रुः । एतेन सर्व्वेषागमावात् ६५३ एतावत्कालिकगणनं तदानीं असम्भवमेव । दन्ते हि कलेः ४० वर्षानन्तरमेव ६५३ वर्षानन्तरमपि प्रवृत्त्यानुगतमेव तत एव समर्थितवत् ( लौकिकाब्दः ) इव कलियुगसंवत् ( यु० सं० = सप्तर्षिसंवत् ) इत्येवं द्वयमपि अयमेवदकमेव । नहि ३१७५- २५२२ = ६५३ तावन्मात्रेण अनेकग्रन्थादृष्टवचनादाढ्य, वा भारतसंग्रामस्य, निर्वृतिसमयस्य, वा सर्वाभिमतकालस्य सङ्घटनार्थमेकस्य युधिष्ठि- रसंवत्सरस्य बहुव्यत्ययप्रवादो बोद्धुं शक्यते । तस्मात्—