साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 284, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । ६१ विश्वनाथस्य नाम सान्धिविग्रहिक-महापात्र-कविराजेत्युपाधिभिर्घटितं दृश्यते । तत्र सान्धिविग्रहिक इति राज्याधिकारविशेष । तदानीं विद्याप्रणयिनां कलिङ्ग- पार्थिवानां राज्याधिकारे विश्वनाथस्य पूर्वपुरुषास्तदनुबन्धिनः श्रीधर-राघ- वानन्द-कृष्णानन्दप्रभृतयश्चासन् । अत एतन्नामापि सान्धिविग्रहिक-महापात्र- विशेषणाभ्यां भूषितम् । अत्र श्रीधर-राघवानन्दौ काव्यप्रकाशस्य टीका- कृतावपि । कृष्णानन्दस्तु वैदर्भीरीतिप्रधानस्य सहृदयानन्दाख्यस्य नलचरित- महाकाव्यस्य रचयिता । राघवानन्दनाम दर्पणस्य प्रथमपरिच्छेदे; सहृदयानन्दस्य 'सूचीमुखेन-'इति पद्यं सप्तमपरिच्छेदे वर्तते । सान्धिविग्रहिक इति संधिविग्रहा- द्विष्टन् । 'तत्र नियुक्त-' (पा० सू० ४।४।६९) इति ठक् । एषा उपाधी राजतरङ्गिण्यादौ सुप्रसिद्धः । महापात्रो ब्राह्मणविशेष इति केचित्, सङ्केत्यपरे । ननु महामात्र इति सम्भावनीयम् । कविराज इति महाकविसमानार्थकम् । नतु सद्य (सद्योध्या) प्रान्तीयप्रधानहिंदीभाषायां 'भाट' इति प्रसिद्धब्राह्मणजातेर्- व्यञ्जकम् । श्रीनारायणचरणारविन्देत्यादि तु ह्यास्तिकादिप्रदर्शनाथम् । काव्यप्रकाशदर्पणे तु '...सङ्गीतविद्याविद्याधर कलाविदामलतीमधुकर-विविध- विद्यार्णवकर्णधार...'इति विश्वनाथस्य त्रीणि विशेषणान्यधिकानि । वस्तुतोऽयं महाकुलप्रसूतो बहुज्ञः सहृदयश्चेति । एतत्प्रणीतग्रन्थास्त्वेते ज्ञायन्ते—(१) राघवविलास महाकाव्यम् (२) कुवलयाश्वचरितप्राकृतमहाकाव्यम् (३) चन्द्रकला नाटिका (४) प्रभावती नाटिका (५) षोडशभाषामयी प्रशस्तिरत्नावली (एतेषां निर्माणोत्तरं) (६) साहित्यदर्पण (७) नरसिंहविजयम् (८) काव्यप्रकाशदर्पण. । एतत्पितुश्चन्द्रशेखरस्य पुष्पमाला नाटिका, भाषार्णव इति ग्रन्थद्वयी दर्पणेतो ज्ञायते । तत्र— 'भाषामध्यमपात्राणां नाटकोक्तौ विशेषतः । महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥ हीनेष्वपि विभाषा स्यात्सा च सप्तविधा स्मृता । प्राच्यावन्ती मागधी च शाकारी च तथापरा ॥ चण्डाली शाबरी चापि तथाऽऽभीरीति भेदतः ।' इत्युक्तस्य अनन्तदासस्य रीत्या भाषादर्पणनामकग्रन्थे । प्रशस्ति- रत्नावल्याः षोडशभाषाप्रकाराणाम् उक्तत्वाद् इति मूलग्रन्थेऽभिप्रायः । विश्वनाथपूर्वपुरुषाणां कविराजसम्बन्धः स्पष्ट एव । यिच । "कुरङ्गचिह्नं" इति पद्येनोर्वशीवेधे इति ग्रन्थद्वयरचयितुरनन्तदासस्य काव्यदर्पणे 'वैदर्भीयं रुचि'युक्तं इति पाठः । अत्र विन्दु-पदं चन्द्रशेखरस्यात्मजत्वेनैवापवरितम्, स्वसन्तानपरतया 'कुवलयाश्वदलं' इत्यादि इति नैषधम् उपश्लोकेनिसंस्मृत्य पद्यं स्मरतः । आत्मेव वैदग्ध्यमधिकन्तु विश्वनाथस्येत्याशयेनकाव्यदर्पणे कृतोऽयं द्र० सं० ६