साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 285, कुल 506 में से
संदर्भ में पढ़ें७० साहित्यदर्पणे 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कु- वेतालभट्ट-घटखर्पर-कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' इत्येवमादिश्लोकाः परीक्षापेक्षा । अत्रेयं भ्रान्तिदिक्—वराहमिहिरो हि 'सप्ताश्विवेदसङ्ख्य शककाल-(४२७)' इति स्वसमयं निर्दिदेश । तेन गमयो व्यभिचरितो द्रष्टव्य । कालकलनानादरे तु— 'भासो रामिल-सोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- र्माघो भारवि-कालिदास-तरलाः स्कन्धः सुबन्धुश्च यः। दण्डी वाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥' इत्येवमादिश्लोका अदुष्टा इत्यलम् । दण्डी । अयमाचार्यदण्डी कवि कुत्र कदा बभूवेति विज्ञानं दु शकम् । दण्डीति नाम्ना चतुर्थ्याश्रमिनमेन मन्यन्ते कतिपये । कतिपये पुनः काव्यादर्श वैदर्भीरीतेर्भृशं प्राशस्त्याद् विदर्भजनपदस्थं दाक्षिणात्य कीर्तयन्ते । अथ— 'त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥' इति सूक्तिमुक्तावल्यां धृत-राजशेखरमहाकविलोकाद्दण्डिनो ग्रन्थत्रयकर्तृत्वं सुव्यक्तम् । तत्र काव्यादर्श-दशकुमारचरिते तावदतिरोहिते । तृतीयो ग्रन्थः क इति गवेषणायाम्—‘छन्दोविचित्या सकलस्तत्प्रपञ्चो निरूपित' इति काव्यादर्शवचनात्, ‘छन्दोविचितिरिव मालिनीसनाथा' इति सौबन्धवीयवासवदत्ताश्लेषेण 'छन्दो- विचितिग्रन्थविशेष' इति त्रिपाठीशिवरामप्रणीतया टीकया च छन्दोविचितिरेव द्वैवेति । केचित्पुनश्छन्दोविचितिशब्दं यौगिकं मन्यन्ते । तथाच विचितिः प्रसार इति मन्यते । अन्ये तु तृतीयं ग्रन्थं कलापरिच्छेदं कल्पयन्ते । मल्लिकामारुतनिर्माणं तु दण्डिनो न तु दण्ड्येति । दण्डिनः समयस्तु प्रवरसेनादवस्ताद् रुद्रटाच्च सूच्यते ॥ धनिकः । ... दशरूपावलोकस्यापि रचयिता, दशरूपस्य तु विष्णुतनुजन्मना धनञ्ज- येन कृतत्वादिति तदुभयकर्तृकत्वाद् ग्रन्थयोः । अतएव — ... ... । ... राजदेवो ... ... । हम्मीर... मु १२९७ ... ... ।