साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 286, कुल 506 में से
संदर्भ में पढ़ेंविष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः । आविष्कृतं मुञ्जमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥' इत्यनेनात्मानं वाक्पतिराजदेवापरनाम्नो मुञ्जभूमृतः सभानानाख्यत् । न च ऽयं ९९४ ख्रिस्ताब्दे आसीदिति सुभाषितावलिदोहतो ज्ञायते । अयमेव कालो धनिकस्यापि भवितुं युक्तः । धनिकेन काव्यनिर्णयोऽपि निरमायीति दशरूपालो- क्तो व्यज्यम् ॥ नखकुट्टः । कोऽयं कश्चैतन्निर्मितो निबन्ध इति नाद्यावधि ज्ञायते । एतन्मतं तु दर्पणस्य षष्ठपरिच्छेदे 'नेपथ्योक्तं श्रुतं तत्र' इत्याद्युक्तम् ॥ पुरुषोत्तमः । द्वौ पुरुषोत्तमौ ज्ञायेते । एकस्त्रिकाण्डशेषकर्ता, अन्यो विष्णुभक्तिरत्नप- ङ्कारचायता । तत्राद्यस्य त्रिकाण्डशेषसमाप्तौ पुरुषोत्तमदेव इति नाम, द्वितीयस्य तु पुरुषोत्तम इति । परन्त्वाद्यस्यापि पद्यरचनायां पुरुषोत्तम इत्येव नामधेयं दृश्यते । तथाहि त्रिकाण्डशेषप्रारम्भे 'एष प्रयत्नः पुरुषोत्तमस्य' इति । हारावलीप्रारम्भे 'हारावली विरचिता पुरुषोत्तमेन' इति च । अतो द्वयोरैक्यता सम्भवति । यद्यप्येतद् दर्पणस्य नवमपरिच्छेदे 'पुरुषोत्तमस्त्वाह' इत्यादिना रसगङ्गाधरे ईश्वरपथापरनाम्नः कस्याञ्चदस्य दाम्पत्यमन्त्रग्रन्थस्य पुरुषोत्तमनाम्ना ग्रन्थकृत ऐतिह्यविज्ञानानुसारेण नि- ष्पादनीयाः ॥ भरतः । एतदुपज्ञमेव नाट्यशास्त्रं लोके प्रसिद्धम् । एतस्य द्वित्रिचुलुकं वृत्तिकारैर्भट्टा- याभिहितम् । एतदादिभरतनामकमपि नाट्यशास्त्रमभिनवगुप्ताद्युल्लेखितैः श्लोकेभ्यो ज्ञायते । तत्र भरतः, आदिभरत इति द्वेधा भेदो बहुश्रुतैर्गृह्यते । भरतस्य सादिशरा पश्चाद्वर्ती भवेत् । यतश्च हरिवंशग्रन्थादौ महानाटका- वगतास्तथाऽपि दृश्यन्ते । भरतप्रणीतस्य नाट्यशास्त्रस्योपरि अभिनव- भारतीति व्याख्यानग्रन्थ एवाभिनवगुप्ताचार्येण विरचितः ॥ भर्तृहरिः । भर्तृहरिहरि-शतकत्रयप्रणेता एव ज्ञेयो महाभाष्यप्रदीप (वाक्यपदीय)- स्यापि सुप्रसिद्धत्वान्नानुसन्धेय इति तु केचिदाहुः । तथापि प्राच्यैरित्थमेव प्र- पन्नं दृश्यते । तन्मतेऽपि प्रतिभासमानः पक्षो न सङ्गतः । यन्महाभाष्यप्रदीप- पदीययोर्भेदोऽपि प्रतिभासते बहुभिर्हेतुभिर्विकसितत्वात्, पूर्वग्रन्थेऽपि प्राची- नैरेवं दर्शितत्वात्, ग्रन्थादिदर्शनेऽपि - वाक्यपदीयनिबन्धने ... भर्तृहरि- राजस्य । महाभाष्यटीकायां भर्तृहरिप्रणीतायां पदप्रत्यये .... इत्याद्यभिनवे- न विरचितेऽपि नाट्यशास्त्रटीकायाम् । वाक्यपदीयग्रन्थे महाभाष्ये टीकायां च दृश्य- न्त्येव । 'विद्युद्विलास-' (२।१०८) इत्यादिश्लोकस्तु महाभारतान्तः-