साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 370, कुल 506 में से
संदर्भ में पढ़ेंअथ विब्बोकः— विब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ यथा— 'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान्वरसमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥' अथ किलिकिञ्चितम्— स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । सांकर्यं किलिकिञ्चितमभीष्टतमसंगमादिजाद्धर्षात् ॥ १०१ ॥ यथा— 'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स कुरुते करभोरूर्हारि शुष्करुदितं च सुखेऽपि ॥' यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे पैर- रुद्भावने दोषाणामनुवृत्तिः स्वयं पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि- रोधं वस्त्रक्षेपादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं १. प्राणानिति । मानग्रहग्रस्तत्वात्प्राणार्पणं तावत्सुकरम्, न पुनः सम्पूर्णदृष्ट्यर्पणम् ॥ २. वस्तुनीति । नीवीवसनादिरूपे ॥ ३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे बीजम् । ४. पाणीति । करभोरूः स्त्री अनिरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का- मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर स्मित गर्भे अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड- १ 'गर्वाभिमानादिष्टेऽपि विब्बोकोऽनादरक्रिया । तथा वात्स्यायनः—"शोभाऽभ्यस्तविर्तवेन यत्प्रिय- स्यावधीरणम् । हाटेन चार्धदन्तेन यच्च दानाय याचनम् ॥ प्रियेऽपराधिते [....] जाननुयुक्ताद्विघा हति । दन्तरुचिन्तमैश्चारोपन्यानेऽपि दण्डिनम् ॥ प्रेष्यताम्बूलेरागं[...]प्रबोध्येतनालसे । विब्बोकाय सूनो हाव कामशास्त्रविचक्षणैः ॥ अभिनवगुप्तेननाट्यशास्त्रेऽपि "गर्वेऽनादरलज्ज्या । गर्वं विदन्त्य स्यन (न) ताडनप्रमाभिधादि विब्बोकः" अवधीरये यथा कालिदासः—"निर्मत्सुन्ध दशनच्छदं न्ते वाचि मधुरदधीणत्परा । शैलराजनया समीक्षणात्तन्मन विचलनहेतुरभूत् ॥" इति ग २ 'दासा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'क्रोधाद्दरस्मीत्यादे संकरः किलिकिञ्चितम् ।' इति ग ४ 'रतिनीडादुक्ते व्यजननि संगाद्व संमदं गदा हस्येऽहू तथा यत्किञ्चिद्लज्जाम्भये । कुच- भूम्नाऽदौ मरटिभिरित्यादैरदिन्त्स्यक्रोधादीन् पुनरपि वि इत्यादीनि सुखम् ॥' इति ग. ९२