भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 371, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 371

१४८ साहित्यदर्पणे यथा— 'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः, कुशलिनो वत्सस्य वार्तापि नो । यत्नात्सञ्चिततैलविन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसा निजंवधूं श्वश्रूश्चिरं रोदिति ॥' अथ श्रमः— खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः । यथा— 'सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्त्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुतः कृतवती प्रथमावतारम् ॥' अथ मदः— संमोहानन्दसंभेदो मंदो मद्योपयोगजः ॥ १४६ ॥ स्थूणा स्तम्भः । अभ्यर्णजलागमो निकटस्थवर्षासमयः । तैलविन्दूना घटिका क्षुद्रभाजनम् ॥ सद्य इति । वारंवार गन्तव्याध्वपरिमाणजिज्ञासया सीतायाः स्वल्पपथलङ्घनश्रममवधार्य श्रीरामस्य रोदनम् ॥ संमोहानन्दयो संभेदो मेलकः

  1. वत्सस्येति । वत्सस्य पुत्रस्य ॥
  2. निजवधूमिति । निजवधू आत्मस्नुषाम् ॥
  3. श्रम इति । बहुतरशारीरव्यापारजन्मा नि श्वासाङ्गमर्दननिद्रादिकारणीभूतः खेद- विशेषः श्रम इति । यदाहु —'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकै । गात्रसंवाहनैरा- स्यसंकोचैरङ्गमोटनैः ॥ निःश्वासैर्जृम्भितैर्मन्दै पादोत्क्षेपैः श्रमो मतः ॥' इति । अयं च सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानि । अतो ग्लानि- श्रमस्य भेदः ॥
  4. प्रथमेति । प्रथमावतार पूर्वाविष्करणम् ॥
  5. मद इति । मद्याद्युपयोगजन्मा उल्हासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो १ '-श्रम स्वेदादिकारक रतान्मार्गममनादेश्च य खेद स श्रम स्वेदमर्दनाद्यनुभावननक ।' इति ग. २ 'यथा' ग-पुस्तके नास्ति ३ ग-पुस्तके तु 'सद्य ' इति श्लोकस्य स्थाने 'अइ पिहुल घेत्तूण समागदम्हि सहि तुरिअम् । समसेअसलिलणीतासणीसहा वीसमानि खणम् ॥' इति ४ 'च' घ ५ 'हर्षोत्कषों मद पानात्स्खलदङ्गवचोगति । मद्यादिपानाद्यो हर्षोत्कर्ष वचनस्खलादिस्खलनानुभावक ।' इति ग.