साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 382, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १६५ तद्भेदानाह— रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्यष्टौ प्रोक्ताः शमोऽपि च ॥ १७५ ॥ तत्र रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम् । वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥ १७६ ॥ इष्टनाशादिभिश्चेतोवैकल्यं शोकशब्दभाक् । प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ॥ १७७ ॥ कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते । रौद्रशक्त्या तु जनितं चित्तवैकल्यदं भयम् ॥ १७८ ॥ त्वेन सम्बन्धी । तैर्भावैः पुष्यते रसरूपता नीता प्रस्फुटं क्रियते ॥ तद्भेदान् स्थायिभावान् । अष्टौ भावा स्थायिभावाः । शमोऽपि च । स्थायिभाव इत्यर्थः ॥ रतिरिति । मनसोऽनुकूले प्रिये वस्तुनि प्रवणायितम् । प्रेमार्द्रं मनो रतिरित्सर्थः । तच्चोत्कण्ठावेण एव पर्यवस्यति । न चानुराग एव सोऽपि प्रकृते सुरतेच्छात्मक एव । केचित्तु—"स चानुराग एव सोऽपीष्टसाधनताज्ञानधारारूप , अनिष्टाविद्वेष्टृत्वेनो- त्थत्वात्" इत्याहुः । तन्न । सुरतेच्छाया आलम्बनप्राप्त्यभिलाषं प्रति हेतुत्वसम्भवेन लक्षणाया अयोगात् । चेतोविकास उपहसनीयत्वेन ज्ञानमुसन्धिनास्पदतान्य- हेतुः । चेतोवैकल्यं दुःखम् । तैक्ष्ण्यस्य अपचिकीर्षाया अवबोध उद्भटनम् । कार्यारम्भेषु सङ्कटकार्येषु संरम्भ उद्धट आवेशः । केचित्तु—'संरम्भः सहसोद्यतित' इत्याहुः । तन्न । आयप्रवृत्तिस्थलगम्भस्य द्रष्टुमसंभवात्, वर्ण्यन्ते उत्कटावेशस्यैव स्थायित्वेनास्वाद्यमानत्वाच्च । रौद्रशक्त्येति । मातङ्गादेर्निदर्श-
- रतिरिति । रत्यादीना विशदतर लक्षणमभिहितं रसगङ्गाधरे—"स्त्रीपुंसयोरन्यो- न्यालम्बनः प्रेमाख्याश्चित्तवृत्तिविशेषो रतिः । मुनिवत्सलाद्युपालम्बनास्तु व्यभिचारी । वागादिने विकारदर्शनाज्जन्या चित्तस्फूर्ती हासः । पुत्रादिवियोगजन्यविकलता- रूपाचित्तवृत्तिविशेषः शोकः । गुरुप्रभृतिविषयापराधजन्या चित्तज्वाला क्रोधः । अयं च परनिग्रहादिहेतुः । कृतापराधजन्या तु स्वपराधजन्यापरितोषः । अयंवेदान्तविषये व्यभिचारीति विशेषः । परपराक्रमदर्शनसमुल्लसितो हि चित्तस्योत्साहः । व्याघ्रा- दर्शनादिजन्या परानर्थचिन्तयेद् हेतुचित्तसंक्षोभो भयम् । परानर्थविषयकप्रार्थने तु भय एव शमो व्यभिचारी । औत्सुक्योत्कण्ठयोस्तद्वैपरीत्यम्, स्वापराधमपनीते भेदनाहुः । स्वस्मिन्मुक्तिहेतुवस्तुजन्या चित्तविकलतादिरूपा निर्वेदिरूपेणोक्ता । ततो- ऽधिकमुपदर्शयिष्याम इत्यन्यत्रैवानुसन्धेयः ॥
- 'रतिरुच्यते' घ. 2. 'प्रतिकूलविषयेष्वभिनिवेशविशेषः क्रोधः' इति रसगङ्गाधरः । 3. 'उत्कट- शक्तिना दुष्टात्मनोऽवलोकनादिना । अतिप्रौढस्य शौर्यादियुक्तस्यापि' इति केचित् ।