साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 409, कुल 506 में से
संदर्भ में पढ़ें२०८ साहित्यदर्पणे अविवक्षितवाच्यस्य भेदावाह— अर्थान्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते । अविवक्षितवाच्योऽपि ध्वनिर्दैविध्यमृच्छति ॥ ३ ॥ अविवक्षितवाच्यो नाम ध्वनिरेकार्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृत- वाच्यश्चेति द्विविधः । यत्र स्वयमनुपयुज्यमानो मुख्योऽर्थः स्वविशेषरू- पेऽर्थान्तरे परिणमति, तत्र मुख्यस्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमि- त्वादर्थान्तरसंक्रमितवाच्यत्वम् । यथा— कदली कदली, करभः करभः, करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ॥ अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादि- मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति जाड्याद्यतिशयश्च व्यङ्ग्यः । अविवक्षितवाच्येति ध्वनेरंगति शेषः । यत्रेति । प्रकृतान्वये' इति शेषः । मुख्यतावच्छेदकरूपेण स्वविशेष्यरूपे स्वकीयमुख्यतावच्छेदकव्याप्यधर्मे परि- विशेष्यतया भासते । अर्थान्तरे संक्रमितत्वाद् विशेष्यतया भासमानत्वात् । । मुख्यस्यार्थस्य मुख्यतावच्छेदकरूपेण प्रकृतान्वयानुपयोगाच्च बाधनस्यैव विशेषा- न्वयेन बोध इत्येवमुपादानलक्षणापि सूचितम् ॥ कदलीति । 'मणिबन्धादाक- निष्ठं करभो बहिः' इत्यमरः । चमूरुदृगूरुपदम् । जाड्यादिति । जाड्यं शैत्यं यद्यपि शैलं पयस्येव तथापि तस्य परम्परया कदल्यादिगतत्वमवगन्तव्यम् । आर्द्र- हस्तलक्षणतयोर्मोहदम् । नच शैत्यादीनामन्द्यत्रापि सत्त्वात्कथं कदलीत्यादि- व्यत्वमिति वाच्यम् । शैत्यादिविशेषस्यैवात्र विवक्षितत्वात् । जाड्याद्यतिश- येति । व्यङ्ग्यो लक्षणप्रयोजनबोधविषयः सर्वत्रैव मुख्यार्थेस्याभेदः संबन्धः एवं च कदल्यादिशीता करभोऽतिह्रस्वः करिराजगजोऽतिकर्कश इति हेतोश्च- दृश इदंमीदृशमूरुयुगं भुवनत्रितयेऽपि तुलां सादृश्यं न बिभर्तीत्यर्थः । यत्र तु स्यादौ सादृश्यं संभाव्यते तदतिशैत्यादिनापहृतवदिति सुतरां भुवनत्रितयेऽ- नास्तीति भावः । अत्र व्यतिरेकालंकारो व्यङ्ग्यः । यत्र पुनरिति शब्द इति शेषः १. अर्थान्तरेति । अर्थान्तरे उपयोगादिति मुख्यतावच्छेदके स्वसमानाधिकरणेऽर्थे वाच्यं यत्र तादृशः ॥ २. अत्यन्तेति । अत्यन्ततिरस्कृतं न चेत्तापि सर्वथानुपपन्नार्थं वाच्यं यत्र तादृशः १. 'अविवक्षितवाच्योऽपि' 'ध्वनिद्वैविध्यमृच्छति' इत्यत्र पाठो मुद्रितपुस्तके नास्ति.