साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 453, कुल 506 में से
संदर्भ में पढ़ें३४२ साहित्यदर्पणे यथा वेण्याम्—द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति यन्तं कर्णं प्रति ‘राजा—साधु अङ्गराज, साधु । कथमन्धथा दत्त्वाभयं सोऽतिरथ्यो वध्यमानं किरीटिना । सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्धथा ॥’ दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् । यथा तत्रैव—कर्णं प्रति ‘अश्वत्थामा— निर्वीर्यं गुरुशापभापितवशात्किं मे तवेवायुधं संप्रत्येव भयाद्विहाय समरं प्रासोऽसि किं त्वं यथा। जातोऽह स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रिय प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥’ अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ॥ १९० ॥ यथा तत्रैव—‘सुन्दरकः—अज्जा, अवि णाम सारथिरो दिट्ठो तुम्हेहि महाराओ दुय्योधणो ण वेत्ति ।’ प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । यथा विक्रमोर्वश्याम्—‘राजा— सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वय कृत पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥’ सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम् ॥ १९१ ॥ अर्थापत्तिरिति ॥ अङ्गराज इति कर्णसम्बोधनम् । कथमन्थेति । भर वक्तव्यम् । इति शेष ॥ स द्रोण । सिन्धुराजं जयद्रथम् । एवं पुत्राभिषे सिप्राय । अन्यथा प्रकारान्तरेण । अत्र सिन्धुराजोपक्षारूपार्थान्तरोक्त्या द्वे पुत्राभिषेकाभिप्राय प्रतीयते ॥ दूषणोद्धोषणायामिति कृतायामिति शेष अभ्यर्थनापरैः सविनयै ॥ अज्जा इति । ‘आर्या , अपि नाम सारथिरि दृष्टो युष्माभिर्महाराजो दुर्योधनो न वेत्ति’ । इति संस्कृतम् ॥ लोकसिद्धाथै लोकख्यातवस्तुभि । अर्थसाधनं पदार्थपरिचय ॥ सूर्याचन्द्रमसाविति अत्र सूर्यादिभि प्रसिद्धार्थ पुरूरनम परिचय ॥ अनुरूपस्य सदृशस्य सम्म
- स्तुतिवंशेति । स्तुतिवंशयो कीर्तन विदन्ति ये तेषा सारथीना सुन्दर 2 अस्त्रेनेति । अस्त्रेण नयनाम्बुना ॥ १ ‘नभिष्टुतान्’ क-ग-ग-घ. २ ‘नर्तनं’ घ