साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 92, कुल 506 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः । ४७ ‘हस्तोऽयम्’ । अत्रावयवावयविभावलक्षणसंबन्धः । ‘ब्राह्मणोऽपि तक्षा- सौ’ । अत्र तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु ‘अमी इन्द्राः’ । अत्र तादर्थ्यलक्षणः संबन्धः । एवमन्यत्रापि । निगीर्णस्य पुनर्विषयस्यान्यता- दात्म्यप्रतीतिकृत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ॥ दन्त्वार्थशान्तिवं प्रयोजनमित्यन्ये । ब्राह्मणोऽपीत्यपिशब्दः क्षत्रियादिनिवृत्त्यर्थः । तक्षा जातिविशेषः । समग्रतक्षकर्मणि नैपुण्यमत्र प्रयोजनम् । इन्द्रार्थामित्यिति । इन्द्रपूजार्थं प्रतिष्ठितास्वित्यर्थः । स्थूणासु स्तम्भेषु । इन्द्रवत्पूज्यमानत्वमत्र प्रयो- जनम् । एतदुदाहरणचतुष्टयमपि सारोपाया एव । ‘-निगीर्णस्य यस्तु नान्येना- न्तरा’ इति कारिकादल(दल) व्याकरोति—निगीर्णस्येति । उत्तर...