समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 110, कुल 726 में से
संदर्भ में पढ़ेंपुरनिवेशो दशमोऽध्यायः । ४५ शास्त्रज्ञः स्थपतिस्तस्मात् प्रयत्नपरया धिया । यथावत् कथितं १चारु नगरं विनिवेशयेत् ॥ ६९ ॥ वेदीनिवेशयात्रायां२ देवागारामिचारयोः । नदीकर्मणि मैत्रे च शान्तिं कुर्याच्छ्रमेषु च ॥ ७० ॥ यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः । कुर्यात् तथाभ्युदयिकं यच्चान्यदपि किञ्चन ॥ ७१ ॥ पुरे भीतिकरं शश्वदनायुष्यमपौष्टिकम् । कृतमप्रयतैः कर्म नृपतिघ्नं च जायते ॥ ७२ ॥ विहितं यदशास्त्रज्ञैर्यच्च निर्लक्षणैः कृतम् । कृतमप्रयतैर्यच्च३ तदशस्तं फलोज्झितम् ॥ ७३ ॥ शास्त्रज्ञः स्थपतिर्ज्योतिर्विदा तद्वत् पुरोधसा । अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥ ७४ ॥ पुरोहितोऽग्निं जुहुयाद् दद्यान्मौहूर्त्तिकः स्थिरम्४ । स्थपतिश्च बलिं दद्याद् योजयेदिति शान्तिकम् ॥ ७५ ॥ तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः । पूज्यन्ते सततं पौरैश्चत्वरस्थायिनस्तथा ॥ ७६ ॥ चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम् । धनुर्वेदश्च सप्ताङ्गो ज्योतिषं कमलालयात् ॥ ७७ ॥ सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः । ब्रह्मा विष्णुश्च रुद्रश्च त्यजन्त्येते न तत् पुरम् ॥ ७८ ॥ नगरस्य विभागोऽयं यथावत् समुदीरितः । खेटं तदर्थविष्कम्भमाहुर्ग्रामं तदर्धतः ॥ ७९ ॥ योजनेन पुरात् खेटं खेटाद् ग्रामं प्रचक्षते । गव्यूतिपरिमाणेन ग्रामाद् ग्रामं प्रचक्षते ॥ ८० ॥ १ 'चारु न' क. पाठः । २ 'यां वेदागा' ग. पाठः । ३ 'यतैः कर्म त' क. पाठः । ४ 'तम्' ख. ग. पाठः ।