भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 278, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 278

बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः । २१३ जम्बीरैर्बीजपूरैश्च नारङ्गैः पीनकैः फलैः । पूजयेत् सत्यनामानं ¹देवं तेन स तुष्यति ॥ ८ ॥ मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः । सितैः फलैर्नारिकेलैर्भृशश्च परितुष्यति ॥ ९ ॥ गन्धधूपप्रयोगैश्च नभोनामानमर्चयेत् । पुष्पैः सुगन्धिभिः शुक्लैर्मारुतः परितुष्यति ॥ १० ॥ कृसरं मधुसंयुक्तं ⁴पूष्णे भक्त्या निवेदयेत् । वितथं तु शुभैरन्यैर्मद्यमांसविवर्जितैः ॥ ११ ॥ पूजितस्तुष्टिमायाति विवस्वांश्च महामुनिः । पुष्पैः सपुष्पकैस्तुष्टिमवाप्नोति गृहक्षतः ॥ १२ ॥ मत्स्यमांसयुतैर्मद्यैर्यमस्तुष्टिः सदा भवेत् । पुन्नागांगरुधूपेन गन्धर्वानर्चयेद् बुधः ॥ १३ ॥ मृगमांसयुतैर्भक्ष्यैर्भृङ्गराजं च तर्पयेत् । राजजम्बूफलैर्बिल्वैर्देवमभ्यर्चयेन्मृगम् ॥ १४ ॥ पायसैर्मधुसंयुक्तैर्मांसैर्भक्तैश्च शोभनैः । कर्पूरसुरभिद्रव्यगन्धैः संपूजयेत् पितॄन् ॥ १५ ॥ सपुष्पैर्मोदकैर्लाजैः पल्लवैश्च विमिश्रितैः । दौवारिकं प्रयत्नेन पूजयेद् विघ्नकारकम् ॥ १६ ॥ अपूपैः शोभनैर्गन्धैर्धूपैर्माल्यैरनुत्तमैः । पुष्पैः कण्टकजातीनां सुग्रीवं पूजयेत् सदा ॥ १७ ॥ ⁸सपुष्पैर्लापं(ज)कैर्भक्ष्यैर्दधियुक्तान्नपायसैः । ¹⁰अर्चयेत् पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ॥ १८ ॥ मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत् । वरुणं ¹¹च महासत्त्वं पूजयेद् धूपचन्दनैः ॥ १९ ॥


पादटिप्पणी (Footnotes):

१ द. ख. नदेवं वेहि समुष्यति । २ द. ख. ग. सर्व । ३ द. ख. ॰रेःभृ॰ । ४ द. ख. पृष्टे; क. घष्णे । ५ द. ख. विवष्टायांश्च । ६ द. ख. ॰गम्रुनुधू॰ । ७ द. ख. ॰क्षैः॰ । ८ द. ख. ग. ॰पुष्पैर्लाप॰ । ९ क. ॰घ॰ । १० द. ख. अवये । ११ द. वर्तुणं तु; ख. चर्तुणं तु ।