भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 279, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 279

२१४ समराङ्गणसूत्रधारे राहुं च मांससंयुक्तैस्तर्पयेद् भक्ष्यभोजनैः । रुधिरेण प्रदत्तेन तुष्टिमेति शनैश्वरः ॥ २० ॥ मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत् । मेदसा पूजयेद् रोगं सर्वलोकभयङ्करम् ॥ २१ ॥ वासुकिं क्षीरदानेन पूजयेत् सततं नरः । पूर्ववत् पूजयेद् देवं विश्वकर्माणमीश्वरम् ॥ २२ ॥ सितप्रसूनविन्यासैर्भल्लाटं पूजयेद् बुधः । दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥ २३ ॥ कुबेरं धूपदानेन पूजयेत् सततं नरः । अदितिं च सुवर्णेन पद्मैरपि च पूजयेत् ॥ २४ ॥ अर्कमन्दारमालाभिर्वृषभं च समर्archayett समर्चयेत् । अन्येषामपि देवानामर्र्चनं^१ धूपसाम्प्रतैः(?) ॥ २५ ॥ सर्वपुष्पफलैश्चैषां कार्यं बुद्धिमता सदा । इत्येते बलयः सर्वे शान्त्यर्थं परिकल्पिताः ॥ २६ ॥ शोधने कर्षणे भूमेः साधने रूपकल्पने । गृहे प्रवेशने रम्ये तिथिमभ्युदयेषु च(?) ॥ २७ ॥ स्कन्धावारनिवेशेषु पुरग्रामनिवेशने । देवालयक्षितिपवेश्मनिवेशनेषु प्रोक्तान् बलीन् प्रवितरेत् प्रयततः सुरेभ्यः । प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः कुर्वन्निमं विधिमभीप्सितभाजनं स्यात् ॥ २८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः ॥ १ द. ॰स्तु॰ । २ द. ख. ॰ने ।