समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 280, कुल 726 में से
संदर्भ में पढ़ेंकीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २१९ अथ कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । वर्णानां यानि दारूणि कीलकार्थं नियोजयेत् । इदानीं तानि वक्ष्यामि श्रेयःकीर्त्तिहिताय च ॥ १ ॥ खदिरोदुम्बराश्वत्थशालशाकधवार्जुनाः । अञ्जनः कदराशोकतिनिशारुणचन्दनाः ॥ २ ॥ ³शिरीषसर्जन्यग्रोधवेणवः कीलकर्मणि । पुन्नामानो⁴ द्रुमाः शस्ताः स्त्रीनामानो विगर्हिताः ॥ ३ ॥ अश्वत्थः खदिरश्चैतौ विप्राणां वृद्धिकारको । रक्तचन्दनवेणूत्थकीलौ क्षत्रस्य पूजितौ ॥ ४ ॥ शाकश्च खदिरश्चेति सामन्तानां हिताविमौ । कीलौ¹⁰ शालशिरीषोत्थौ वैश्यानां कीर्तितौ¹¹ शुभौ ॥ ५ ॥ शूद्रजातेस्तु तिनिशधवार्जुनसमुद्भवाः । वैश्यवेश्मसु सौभाग्यकार्ये च स्युरशोकजाः ॥ ६ ॥ न्यग्रोधो¹² वणिजां धाम्नि भूमिकर्मण्युदुम्बरः¹³ । महामात्र(त्रा)¹⁴श्ववैद्यानां कीलाः सर्जार्जुना गृहे ॥ ७ ॥ विप्राणां सर्ववर्णोत्थाः क्षत्रियाणां त्रिवर्णजाः । वर्णद्वयोक्ता वैश्यानां शूद्राणां स्वानुलोमतः ॥ ८ ॥ प्रतिलोमा न कर्तव्याः कीलका भूतिमिच्छता । प्रमाणान्यथ कीलानां निगद्यन्ते पृथक् पृथक् ॥ ९ ॥ द्वात्रिंशदङ्गुलाः कीला विप्राणां स्युः शुभावहाः । क्षत्रियाणां पुनश्चाष्टाविंशत्यङ्गुलसम्मिताः ॥ १० ॥ चतुर्विंशत्यङ्गुलाश्च वैश्यानां शुभदायिनः । विंशत्याद्यङ्गुलैः कीलाः शूद्रजातेस्तु ते हिताः ॥ ११ ॥ १ द. ॰क्ष॑ । २ क. ॰नं॑ । ३ द. ख. ॰दीवेववर्जन्यस्तोथ॰ । ४ द. ख. ॰न्नामो । ५ द. ख. ॰मो स्त्रिविरा गर्हिताः । ६ द. ख. ॰राश्च ते । ७ द. ख. ॰ल । ८ द. ख. ॰तः । ९ द. ख. ॰द् ॰ । १० द. ख. ॰ल । ११ द. ख. ॰तः शुभः । १२ द. ख. ॰धा । १३ द. ख. ॰रा । १४ द. ख. ॰त्वस्वविप्रियाणां; ग. ॰स्ववैविद्यानां । १५ द. ख. स्वेन । १६ द. ख. ॰र्मिं॰ ।