समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 281, कुल 726 में से
संदर्भ में पढ़ें२१६ समराङ्गणसूत्रधारे षडङ्गुलपरीणाहाः सर्वेष्वेते शुभावहाः । ब्राह्मणक्षत्रियविशां वेदाष्टाश्रषडश्रयः१ ॥ १२ ॥ षडश्रयस्तु शूद्रस्य प्रकृतेस्तु२ यदृच्छया । दार्भमौञ्जौर्णकार्पासं३ विप्रादीनां यथाक्रमम् ॥ १३ ॥ अर्धपर्वपरीणाहं४ दृढं सूत्रं तु वर्तितम् । अलाभे६ स्वस्य सूत्रस्य प्रोक्तादन्यतमं बुधः ॥ १४ ॥ गृह्णीयात् सूत्रमन्ये तु गृह्णीयुः स्वेच्छयैव ते७ । इत्थं संभृत्य सम्भारान् गृहभर्ता शुभेऽहनि ॥ १५ ॥ शुक्लपक्षे शुचिः स्नातः स्थपतिश्च सिताम्बरः । गृहस्थान्निमित्तात् तु देवस्थानानि८ लक्षयेत् ॥ १६ ॥ कुसुमाक्षतमय्यैश्च कर्तव्या गृहदेवताः । आदौ स्थानानि शङ्कूनां परीक्षेत समन्ततः ॥ १७ ॥ तेषु सर्वेषु कर्तव्यमर्चनं तु९ यथाविधि । गृहस्य मध्ये सिक्त्वा तु निरूप्य ब्रह्मणः१३ पदे ॥ १८ ॥ गोमयेन समालिप्तां कुर्याद् वेदीं सुलक्षणाम् । चतुरश्रां१४ चतुर्द्वारामक्षतैः सुप्रतिष्ठिताम् ॥ १९ ॥ तस्या मध्ये प्रतिष्ठाप्यः कुम्भो हैमोऽथ राजतः । ताम्रको मृन्मयो वापि पूर्वाभावे परः परः ॥ २० ॥ अकालमूलः सोऽव्यङ्गो जलपूर्णः स्वलङ्कृतः । मणिरत्नप्रवालैश्च स्वर्णरूप्येण गर्भितैः१५ ॥ २१ ॥ प्रतिष्ठाप्या(प्योऽ)क्षतैः पुष्पफलबीजसमन्वितः । श्वेतेन चन्दनेनैनं चर्चयित्वा समन्ततः ॥ २२ ॥
१ द. ख. ग. ०दशास्रष० । २ द. ख. ०क्षियेस्तु; ग. ०क्षिपेस्तु । ३ द ख. सौजसां चोर्णका० । ४ द. ख. ०दुमं । ५ द. ख. हां । ६ द. ख. आलमे । ७ द. ख. तौ । ८ द. ख. ग. ०ना० । ९ द. ख. ग. ०त्ता तु । १० द. ख. ०नामिल्० । ११ ख. ग. ०प्यश्वकं० । १२ द. ख. च । १३ द. ख. ब्राह्मणः पदैः । १४ द. ख. ०स्यां० । १५ द. ख. गर्हिताः ।