समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 282, कुल 726 में से
संदर्भ में पढ़ेंकीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २१७ तस्योपरिष्टाद् विन्यस्येत् क्षीरवृक्षस्य पल्लवम् । सुगन्धिनाथै^१ धूपेन धूपयित्वा चतुर्दिशम् ॥ २३ ॥ वेष्टयेदहतेनैनं शुक्लवस्त्रेण सर्वतः । वास्तुमध्ये यतो ब्रह्मा कुम्भरूपं(पः) स तिष्ठति ॥ २४ ॥ कुम्भस्योत्तरभागे तु कीलकान् स्थापयेद् बुधः । कीलानष्टौ परीक्षेत^२ स्था^३पयेच्च यथाविधि ॥ २५ ॥ श्वेतचन्दनलिँप्तां^४स्ताञ्^५ श्वेतपुष्पै^६र्विभूषयेत् । सालक्तकाँन्^७ सुरभिणा धूपेन च सुधूपितान्^८ ॥ २६ ॥ ऊर्णां^९मयेन सूत्रेण त्रिवर्णेनाभिवेष्टयेत् । मधुसर्पिर्दधिक्षीरैर्मूलं^१०भागेषु लेपयेत् ॥ २७ ॥ अर्चयेत् परशुं सूत्रमष्टीलां^११दीनि सर्वतः । अथोपकरणान्यत्र धूपपुष्पाक्षतादिभिः ॥ २८ ॥ ततः पूर्वोत्तरे वास्तोर्भागे सप्तार्चिषः पदे । गोमयेन समालिप्ते कुशास्तरै^१२णमास्थितः ॥ २९ ॥ अग्निकार्यं प्रकुर्वीत पुरोधाः शान्तिमेव च । सांवत्सरैः^१३ शुचिः स्नातः कृतस्नानैः(?)^१४ समाहितः ॥ ३० ॥ शङ्कु^१५ना साधयेल्लग्नं सम्यक् तं^१६घटिकाथवा(?)। रात्रिलग्नं तु नक्षत्रैर्मध्यास्तोद्यसंश्रितैः ॥ ३१ ॥ एवं संसाधयेल्लग्नं यदीच्छेत् सिद्धिमात्मनः^१७ । पूजर्या^१८ तुष्टिकारिण्या पूजयेच्च पुरोहितम् ॥ ३२ ॥ अभ्यर्चिते यतस्तस्मिन् ब्रह्मा भवति पूजितः । सांवत्सरस्य कर्तव्या तैतः^१९ पूजा यथाविधिं^२० ॥ ३३ ॥ १ द. ख. ग. च । २ द. पविन्स्वेतः; ख. ग. यवीश्वेत । ३ द. स्ना° । ४ द. ख. °प्तास्ता श्चे°; क. °प्तास्ते श्चे° । ५ क. काः । ६ द. ख. °पिता; क. °पिताः । ७ द. ख. ऊर्वासि° । ८ द. ख. सं° । ९ द. ख. °मूल्यस्य° । १० द. ख. ग. °ष्टीलावानी । ११ द. °रिणं । १२ द. ख. °वा । १३ द. ख. रो सु°; ग. °रशुचिः । १४ द. ख. °न । १५ द. ख. ग. शंकुंत । १६ द. ख. ग. तं खाटि° । १७ द. ख. माप्नुयात् । १८ द. ख. पूजा वा । १९ द. ख. °व्यास्त° । २० द. ख. °धिः । वा. २८