समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 284, कुल 726 में से
संदर्भ में पढ़ेंकीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २१९ अहताम्बरसंवीतः शुचिः स्थपतिरासने । निषद्य प्राङ्मुखः शङ्कुं धृत्वा दक्षिणपाणिना ॥ ४६ ॥ पश्चादादाय वामेन प्रतिष्ठाप्य च भूतले । मन्त्रानमून जपन् वीरो हन्यात् परशुना ततः ॥ ४७ ॥ विशन्तु ते तलं नागा लोकपालास्तथैव च । प्रतिष्ठन्तु गृहं चास्मिन्नायुर्बलकरं भवेत् ॥ ४८ ॥ प्रहारान् सुस्थिरानष्टौ दद्यात् कीलस्य मूर्धनि । हन्यमाने ततः कीले निमित्तान्युपलक्षयेत् ॥ ४९ ॥ गोविप्ररॅथनागाढ्याः कन्या नृपवरैःस्त्रियः । शङ्खदुन्दुभिंवंशानां तथा गीतस्य च ध्वनिः ॥ ५० ॥ आविर्भवति यद्यस्मिन् हन्यमाने प्रभुस्तदा । सततं सुखमाप्नोति शान्त्यैश्वर्यैश्च वर्धते ॥ ५१ ॥ हतं श्रुतं विपन्नं वा निषेधः सूत्रकीलयोः । पाषण्डिनां च सर्वेषां दर्शनं न सुखावहम् ॥ ५२ ॥ दृष्ट्वा शुभनिमित्तानि ततः शङ्कुं निवेशयेत् । हन्यमानो यदा कीलो विशेद् भूमौ शनैः शनैः ॥ ५३ ॥ कर्मसिद्धिर्भवेत् तत्र गृहं रत्नपरिच्छदम् । हन्यमानोऽपि न विशेद् धरित्रीं कीलको यदा ॥ ५४ ॥ न तत्र कर्मसिद्धिः स्यादनिमित्तं च लक्षयेत् । एकेनापि प्रहारेण यत्र कीलो विशेन्महीम् ॥ ५५ ॥ नं सिद्धिं याति तत्रौकः कृतं वा नोपभुज्यते । आयस्याष्ठीलया हन्यान्न काष्ठेन कथञ्चन ॥ ५६ ॥ काष्ठेन ताडितः कीलो वह्निदोषकरो भवेत् । अश्मना यदि ताडयेत तदा व्याधिं प्रयच्छति ॥ ५७ ॥ १ द. ख. ॰र्हतांबरः । २ द. ख. ॰ध्यां । ३ क. कुम्भं । ४ द. प्रवरमनागांश्च । ५ क. ॰रः । ६ द. ख. ॰भिवासानां । ७ द. ख. ग. शान्त्यर्थैश्च; क. शान्तैश्वं । ८ द. ख. ज्वं; ग. ज्ञं । ९ द. ख. ग. स ।