भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 285, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 285

२२० ·समराङ्गणसूत्रधारे। ऐन्द्रीं प्रति नतः कीलो धनसम्मानकारकः । आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ॥ ५८ ॥ याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम् । धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ॥ ५९ ॥ सौम्यं सौम्योऽनते राजप्रसादाद्येशतो गतः । कीलके कूर्चके जाते पुत्रपौत्रान्वयैर्गृहे³ ॥ ६० ॥ परमामुद्धिमाप्नोति धनधान्यैश्च वर्धते । हन्यमानो⁴ यदा यत्नात् कीलः कश्चिदपि स्फुटेत् ॥ ६१ ॥ नांशं विद्यात् तस्य पत्न्या ज्येष्ठस्य तनयस्य वाँ । यदि भज्येत कीलः खात् स्वामिनो जायते वधः ॥ ६२ ॥ यदा कीलः पतेद्धस्ताद् भ्रंशः स्यात् स्थपतेस्तदा । हस्तभ्रष्टश्च(?) स भवेदष्ठीले हस्तविच्युते⁹ ॥ ६३ ॥ सुखेन हन्यमानश्चेत् कीलः स्वस्थो न जायते । अष्टौ प्रहारानपरांस्तस्य दद्यात् तदा पुनः ॥ ६४ ॥ स्रग्गन्धधूपोपहारैः कुर्यांच्चै¹¹ परिषेचनम् । इदं¹² साम महापुण्यं परिचिन्त्य¹³ समासतः ॥ ६५ ॥ त्रैशोकं¹४ तु जपेद् विद्वान् यावच्छङ्कभिषेचनम् । गत्वाथ नैर्ऋतीमाशां ततः शङ्कं निवेशयेत् ॥ ६६ ॥ ऊर्णायवेन¹⁵ ¹⁶ साम्नास्य सम्यक्¹⁷ स्नपनमाचरेत् । वायोर्दिशं ततो गत्वा तत्र शङ्कं निवेशयेत्¹⁸ ॥ ६७ ॥

१ ख. ग. च गते; द. °गते कीले । २ द. °म्यागतो राज्ञप्रं । ३ द. हैः। ४ द. °नं यदा मत्तान् । ५ द. भासं विंद्या तं° ६ ख. च । ७ क. लस्यात् । ८ क. स्य । ९ द. °विद्युते । १० क. लतुस्थो; द. कीलतुस्था न जां° । ११ द. °च्च कतिषे॑ । १२ द. इदं मास महापुण्यं· परिवर्त्य । १३ क. वर्त्य स । १४ द. वै श्लोकं तज्जपेद्वि° । १५ द. औत्तार्थ्य वेनशाम्नासम्पक् । १६ क. यवेशन; ख. र्यवेन । १७ क. प्राग्वत् (स्नानं स) मोच । १८ द. निवेश्य च ।