भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 286, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 286

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २२१ अभिषेकं महारत्नसाम्ना तस्य समाचरेत् । अथैशानीं दिशं गत्वा शङ्कं तस्यां निवेशयेत् ॥ ६८ ॥ भाग्रेण१ साम्ना कुर्वीत प्राग्वत् तस्याभिषेचनम् । ततोऽनु सूत्रं बध्नीयात् सव्यं२ द्विगुणवेष्टितम् ॥ ६९ ॥ प्रदक्षिणं प्रसार्यैतदुक्तः शङ्कक्रमो यथा । म(बं३)ध्यमानं यदा सूत्रं शङ्कुः४ किमपि५ मुञ्चति ॥ ७० ॥ तदा पुत्रवधं विद्याच्छिन्नं स्वस्वामिमृत्यवे६ । तस्माद् यत्नः प्रकर्तव्यो यावत् सूत्रं प्रसार्यते७ ॥ ७१ ॥ चतुर्णामपि बाहूनां पोषं(?)छिन्नं न दुष्यति । सूत्रं प्रसार्य वितरेच्चरूंन्८ पूर्वं प्रकल्पितान् ॥ ७२ ॥ स्वेषु स्वेषु ततः स्थानेष्वनेन विधिना बुधः । शङ्कुस्थानेषु दातव्याः सिताद्याश्चरवः क्रमात् ॥ ७३ ॥ प्राग्दक्षिणस्या विदिशो९ मन्त्रं चेमं हृदा जपेत्१० । मारुतानां च सर्वेषां मौनवानां११ तथैव च ॥ ७४ ॥ बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम् । रक्तं बलिमुपादाय नैर्ऋत्यभिमुखस्तथा ॥ ७५ ॥ नैर्ऋत्यधिपतिश्चैव नैर्ऋत्यां ये च राक्षसाः । बलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ॥ ७६ ॥ कृष्णं१२ बलिमुपादाय गत्वा च दिशमानिलीम्१३ । नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ॥ ७७ ॥ बलिं तेषु प्रयच्छामि कृष्णमोदनमुत्तमम् । बलिमुद्धृत्य हारिद्रमैशानीमाश्रयेन्१४ दिशम् ॥ ७८ ॥ १ द. भागेण । २ द. सत्यं । ३ द. मं० । ४ ख. ग. कुः । ५ द. कमपि । ६ द. विद्याच्छिन्नसुस्वामि० ७ क. र्येत् । ८ द. च्चनून् । ख. ग. नू । ९ क. र्वि १० द. जयेत् । ११ द. मरुतानां तं० । १२ द. कृष्णां १३ द. ०लिन् । १४ ख. ग. येन् दि; द. ०येद्दिशम् ।