भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 287, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 287

१२२ समराङ्गणसूत्रधारे नमो रुद्रेषु सर्वेषु ये चान्ये तान् समाश्रिताः । प्रयच्छामि बलिं तेषां हारिद्रौदनमुत्तमम् ॥ ७९ ॥ एवमेतान् बलीन् सर्वान् यथावत् प्रतिपादयेत् । ततः कुम्भोदकं पुण्यं साम्ना दिव्येन मन्त्रयेत् ॥ ८० ॥ वामदेव्येन कुर्वीत प्रोक्षणं तेन वास्तुनः । द्रुमा विप्रादीनामिति निगदिताः शङ्कुघटने फलं यच्छङ्कोश्च स्फुटमिह निमित्तानि बहुशः । तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं बलिः कीलेषूक्तस्त्रिदशपरितोषाय विधिवत् ॥ ८१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः ॥ अथ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः । इदानीमभिधास्यामो वास्तुसंस्थानमातृकाम् । निवासहेतवे सम्यक् सर्वकर्मोपजीविनाम् ॥ १ ॥ चतुरश्रं समं †साचि दीर्घं वृत्तं च शम्बुकम् । शकटाक्षं भगादर्शवज्रकन्थाकृतीनि च (?) ॥ २ ॥ छिन्नकर्णं विकर्णं च शङ्खाभं क्षुरसन्निभम् । शक्त्याननं कूर्मपृष्ठं सदंशं व्यजनाकृति ॥ ३ ॥ शरावस्वस्तिकाकारं मृदङ्गपणवोपमम् । विशर्करं कबन्धाभं यवमध्यसमाकृतिं ॥ ४ ॥ १ द. हं° । २ द. ॰देवेन । ३ द. यत्स° । ४ द. नितांतं । ५ द. पातोव्यायो सप्तत्रिंशः ॥ छ ॥ ६ द. संभुकं । ७ द. च संयातं । ख. ग. संयातं । ८ ख. ग. द. ‘संक्षामनं’। ९ द. °रे । १० द. तिः । † पूर्वाध्यायोन्तिमश्लोकादारभ्या चत्वारिंशाध्यायावसानात् क. पाठो लुप्तः, ख. गयोस्तु विनियोगे ‘शेष्य’ति पठ्यते ।