भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 289, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 289

२२४ समराङ्गणसूत्रधारे परशुप्रतिमे क्षेत्रे बन्धनागारिणो जनाः । विस्राविणि सुराकाराः श्वभ्राभे कर्मकारिणः ॥ १६ ॥ युगले नापिताः स्वाविवाह्ये¹(?)कोशरक्षिणः । त्रिकुष्टे पञ्चकुष्टे च वसेयुर्वह्नि²जीविनः ॥ १७ ॥ समन्ततः *परिच्छन्ने सर्वे मानोपजीविनः । दिक्स्वस्तिके तु चैत्यानि कुर्याद् वासांश्च सर्वशः ॥ १८ ॥ श्रीवृक्षप्रतिमे³ वृक्षान् यज्ञवाटांश्च कारयेत् । वर्धमानाकृर्तिमुखे⁴ऽप्येतानेव प्रकल्पयेत् ॥ १९ ॥ एणीपदे तु गणिकौश्चौरान् नरपदोपमे⁵ । इत्युक्ताः शुभर्दा⁶ वासाः सर्वकर्मोपजीविनाम् ॥ २० ॥ कर्मोपजीविजनवासनिमित्तमेताः क्षेत्राकृतीरभिहिताः⁷ प्रविमृश्य तेषाम् । वेश्मानि कारयति यः स्थपतिर्यथाव- न्मान्यः स कस्य न भवेदिह भूमिपृष्ठे ॥ २१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वास्तुसंस्था⁸(प?)नमातृकानामाष्टात्रिंशोऽध्यायः ॥ अथ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । गृहाण्युक्तानि सर्वेषामेवं कर्मोपजीविनाम् । वर्णिनां च गृहस्थानां कथ्यन्तेऽतः परं यथा ॥ १ ॥ भल्लाटे धनदे यद्वा चरके पृथिवीधरे । ब्राह्मणस्य भवेद् वेश्म माहेन्द्रद्वारमुत्तमम् ॥ २ ॥


१ ग. स्वाधि वा; द. °धि°। २ द. वसेत्पूर्वाहि°। ३ द. मा। ४ द. कृतिर्मुख्येऽप्ये- तान्येव। ५ द. °काचोरोत्तरपदोपमाः। ६ द. °टा। ७ द. विरचिताः। ८ द. °स्थापन°। ९ द. °मिव।

  • 'परिच्छिन्नामि' ति लक्ष्ये पठितम्।