भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 290, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 290

द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । २२१ माहेन्द्रेऽर्केऽथ सत्ये वा आर्यके^१ वा निकेतनम् । कार्यं गृहक्षतद्वारं क्षत्रियस्य शुभावहम् ॥ ३ ॥ याम्ये वैवस्वते वापि गान्धर्वेऽथ गृहक्षते । वैश्यस्य भवनं कार्यं द्वारं पुष्पादह्वये शुभम् ॥ ४ ॥ वारुणे पौष्पदन्ते वा यद्वा मैत्रेऽथवासुरे । शूद्रस्य सदनं कार्यं भल्लाटद्वारमुत्तमम् ॥ ५ ॥ विप्राणां प्राङ्मुखं वास्तु गृहं स्याद् दक्षिणामुखम् । वर्धते धनधान्येन पुत्रपौत्रैश्च नित्यशः ॥ ६ ॥ दक्षिणाभिमुखं वास्तु भवनं पश्चिमामुखम् । क्षत्रियस्य धनं धान्यं विक्रमश्चेह वर्धते ॥ ७ ॥ वास्तुनः पश्चिमं^२ द्वारं भवनस्योत्तरामुखम् । तत्रैधते धनैर्धान्यैः पुत्रपश्वादिभिश्च विट् ॥ ८ ॥ वास्तु^३ स्यादुत्तरद्वारं गृहं पूर्वांमुखं तथा^४ । शूद्रस्य कर्मवृत्तिं^५स्तु धनधान्यैर्विवर्धते^६ ॥ ९ ॥ एकस्यामपि शालायां चत्वारः संप्रकीर्तिताः । निवेश्यै^७द्वारभागाश्च कथ्यन्ते च शुभाशुभाः ॥ १० ॥ उत्सङ्गो हीनबाहुश्च पूर्णबाहुस्तथापरः । प्रत्यक्षा^८यश्चतुर्थश्च निवेशः परिकीर्तितः ॥ ११ ॥ उत्सङ्ग §एवदीक्षाभ्यां(?) द्वाराणां वास्तुवेश्मनोः । स सौभाग्यप्रजावृद्धिधनधान्यजेयप्रदः ॥ १२ ॥ यत्र प्रवेशतो वास्तु(?)गृहं भवति वामतः । तद्धीनंबाहुकं वास्तु निन्दितं वास्तुचिन्तकैः ॥ १३ ॥ १ ख. ग. ‘स्ते’; द. आर्यस्ते वा निवेशनं । २ द. ‘मं’ । ३ द. °स्तुः । ४ द. य° । ५ द. °त्तिस्तद्व° । ६ द. °ध्यते । ७ द. °श्यगद्वाराश्च; ख. ‘श्यगृहद्वाराश्च’ । ८ द. क्षेोयं°; ख. ‘क्षो’ । ९ द. भ° । १० द. °नं । § ‘एकदिक्काभ्यां द्वाराभ्याम्’ इति पाठः स्यात् । वा. २९

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 290, कुल 726 में से · BharatKosha