समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 303, कुल 726 में से
संदर्भ में पढ़ें२३८ समराङ्गणसूत्रधारे उद(प)¹धिर्भगिनीं हन्यादथवा परिचारकान् । पुंसां पुन्नामभिर्द्रव्यैः स्त्रीणां ²स्त्रीन(नाम)भिर्भवेत् ॥ ३० ॥ उपघातो हतैर्नित्यं द्रव्याणां तु नपुंसकैः । ³भौलिका स्त्रीविनाशाय गृहनाशाय वे⁴र्धनम् ॥ ३१ ॥ कीला वा सन्धिपा⁵लिर्वा मित्रनाशाय दुष्यति । नवे गृहे नवं दारु क्रियमाणमथो कृतम् ॥ ३२ ॥ आयोज्यमानं युक्तं वां⁶ न्यूनसंवत्सरं स्थितम् । भज्यते देहनाशाय स्फुटत्य⁷थ विभज्यते ॥ ३३ ॥ गृहं ब्राह्मणसात् कृत्वा रवैरालिख्य चापरम् । नवैर्वस्त्रैः परिच्छाद्य पुनर्भि⁸द्यानि(?)कारयेत् ॥ ३४ ॥ दग्धे भिन्ने प्रचलिते विनते विद्युता हते । विरूढे दलिते सन्ने सर्वत्रौषधिभिः स्मृतौः ॥ ३५ ॥ शान्तयो विविधं हुत्वा ब्राह्म¹¹णान् स्वस्ति वाच्य वा । स्थूणिका भज्यते यस्य कीर्त्तिस्तस्योपहन्यते ॥ ३६ ॥ चन्द्रसूर्यौ यजेतं¹² तत्र ततः शाम्यति पातकम् । तद्विधं वृक्षमानीय पुनस्तां प्रति कारयेत् ॥ ३७ ॥ एवं कृ¹³ते सुखी स स्यात् कीर्त्तिश्चायुर्ध्रुवा भवेत् । मल्लुको भ¹⁴ज्यते य¹⁵स्य पौरुषं तस्य हन्यते ॥ ३८ ॥ इष्टानभसनक्षत्रं(?)प्रायश्चित्तं समाचरेत् । तद्विधं वृक्षमानीय प्रति कुर्वीत मल्लुकम् ॥ ३९ ॥ एवं कृत्वा सुखी स स्याद् ब¹⁶लं चास्याभिवर्धते । पृष्ठवंशस्य भङ्गेन गृही बन्धमवाप्नुयात् ॥ ४० ॥
१ द. उधिर्भग्निहिन्या च दथवा; क. धिर्भगिना, ख. ग. 'भगिनि ह'। २ द. स्त्रीणां स्त्रीनामभि- र्भवेत् । ३ ख. द. चू । ४ द. वैधनं । ५ द. ले । ६ ख. स्यान्न्यू । ७ ख. ग. न्य; द. स्फुटंत्यथ विभुज्यते । ८ द. ंच मेयंति तु कां; ख. ग. च भेयति तु कार । ९ द. भग्ने; ख. ग. क्तनै । १० द. तः । ११ द. ण । १२ द. यजस्त्र । १३ द. कृतमुर्खा सस्या । १४ क. भु । १५ द. यस्य तस्य पुरुषोपहन्यते; ख. ग. स्य तस्य पुरुषोऽपहन्य । १६ द. ख. ग. स्याद्दनं चां । .