समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 314, कुल 726 में से
संदर्भ में पढ़ेंअष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः । २४९ यो वेत्त्येताङ्गान्यमून्यष्टौ सोऽत्र स्थपतिसत्तमः । यशो मानं स लभते पूज्यते च नराधिपैः ॥ ७ ॥ अशास्त्रज्ञमकर्मज्ञं स्थपतिं यः प्रयोजयेत् । न तस्य वास्तु सिध्येत सिद्धमप्यसुखावहम् ॥ ८ ॥ तस्मात् कर्म च शास्त्रं च यो वेत्ति द्वितयं नरः । अष्टाङ्गमपि यो वेत्ति स राज्ञः स्थपतिर्भवेत् ॥ ९ ॥ अङ्गानि पूर्वमुक्तानि वास्तुशास्त्रोक्तविस्तरात् । तेषु प्रासादिकं यत् तद् वक्ष्यामोऽग्रे सविस्तरम् ॥ १० ॥ अथाऽङ्गं सप्तमं ब्रूमो यत् तद् यज्ञेषु युज्यते । विनिविष्टे पुरे पूर्वं कॢप्तेषु सुरधामसु ॥ ११ ॥ दिशि दक्षिणपूर्वस्यां यज्ञार्थं मापयेद् भुवम् । निवेशं तत्र कुर्वीत चतुरश्रं समन्ततः ॥ १२ ॥ आयामेन विधातव्यो हस्ताष्टादशविस्तृतः । पूर्वद्वारं विधातव्यमादित्यस्य पदे बुधैः ॥ १३ ॥ तस्य पश्चिमभागे तु यजमानकुटी भवेत् । षोडशायामविस्तारा प्राङ्मुखी सा प्रशस्यते ॥ १४ ॥ यजमानकुटीद्वारे देवता या च कीर्तिता । ततः प्रभृति पूर्वेण प्राग्वंशं परिकल्पयेत् ॥ १५ ॥ वेदिमध्ये स्थितं तत् स्यान्मानं वेद्याश्च शस्यते । पूर्वापरेण षट्त्रिंशत् कर्तव्याः प्रक्रमा बुधैः ॥ १६ ॥ एकत्रिंशत् कुटीभागे मध्येऽष्टादश कल्पयेत् । प्रक्रमाः स्युः शिरस्थाने विंशतिश्चतुरुत्तराः ॥ १७ ॥ पुरुषस्य शिरस्तत्र प्राग्वंशे तु प्रतिष्ठितम् । तस्मात् पूर्वोत्तरं ज्ञेयं सर्वयज्ञेषु पूजितम् ॥ १८ ॥ १ ख. ग. च्येतान्य; द. यो भित्ते तान्यमूनष्टौ । २ द. ˚मकर्मत । ३ द. ते । ४ द. ब्रूयाद्यं । ५ द. पूर्वं तत्कॢप्ते । ६ द. जय˚ । ७ क. प्रतिक˚ । ८ द. विद्याश्च कथ्यते । ९ क. ख. ग. कथ्यते । १० द. ˚रोत्तराः; क. ख. ग. रो । ११ क. ख. राः । वा. ३२