समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 315, कुल 726 में से
संदर्भ में पढ़ें२३० समराङ्गणसूत्रधारं वेद्यन्तरं तु कर्तव्यं शकटं येन गच्छति । तस्मादुत्तरवेदी¹ या कार्या प्रत्युत्तरेण तु ॥ १९ ॥ द्विहस्तायामविस्तारो² होमचेष्टः³ कृनोऽत्र हि । प्राग्दक्षिणेन संस्थानं यजमानस्य शस्यते ॥ २० ॥ कटिमात्रं सदो कार्यं नाभिमात्रमथापि वा । ततोऽधिकेन दुर्भिक्षमनावृष्टिश्च जायते ॥ २१ ॥ एषा यज्ञक्रिया प्रोक्ता कोटिहोमोऽथ वक्ष्यते । पुरस्याभ्यन्तरे भागे हुताशस्य पदे तथा ॥ २२ ॥ तस्मिन् स्थाने विधातव्यः कोटिहोमः सदा पुरे । लक्षहोमश्च कर्तव्यो नित्यो नैमित्तिकोऽपि वा ॥ २३ ॥ अथ भूमिवशात् स्थानं कदाचिन्नैव लभ्यते । सर्वतो ब्रह्मणः स्थानाद्धोमस्थानं निवेशयेत् ॥ २४ ॥ ऐशानीं दिशमाश्रित्य ब्राह्मणैर्वेदपारगैः । पुरश्चरणतत्त्वज्ञैः षट्कर्मनिरतैः सदा ॥ २५ ॥ नित्यं शान्तिपरैर्विप्रै राजा⁴ तु विजयी भवेत् । नोपसर्गास्तु जायन्ते न च लक्ष्मीः पुरं त्यजेत् ॥ २६ ॥ अनावृष्टिभयं नास्ति सुभिक्षं जायते सदा । उक्तं याज्ञिकमङ्गं तु सर्वाङ्गेभ्यः प्रशस्यते ॥ २७ ॥ सर्वं स्थपतिना ज्ञेयं तत्त्वज्ञैर्ब्राह्मणैः सह । एकाशीतिपदेनैव यज्ञभूमिं तु मापयेत् ॥ २८ ॥ निवेशं⁵ शिविरस्याथ कथयामोऽङ्गमष्टमम् । यदा तु नृपतिः⁶ स्थानात् स्वाद् यात्राभिमुखो भवेत् ॥ २९ ॥ शिविरस्य निवेशं च तत्त्ववेत्ता परीक्षयेत् । अर्थशास्त्रविधिज्ञो वा स्थपतिर्वा प्रकल्पयेत् ॥ ३० ॥ १ द. °द्या । २ द. °रा । ३ द. °श्वि° । ४ द. °दः । ५ द. ज्ञा । ६ द. विधि° । ७ द. मः । ८ द. ति ।