भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

२३० समराङ्गणसूत्रधारं वेद्यन्तरं तु कर्तव्यं शकटं येन गच्छति । तस्मादुत्तरवेदी¹ या कार्या प्रत्युत्तरेण तु ॥ १९ ॥ द्विहस्तायामविस्तारो² होमचेष्टः³ कृनोऽत्र हि । प्राग्दक्षिणेन संस्थानं यजमानस्य शस्यते ॥ २० ॥ कटिमात्रं सदो कार्यं नाभिमात्रमथापि वा । ततोऽधिकेन दुर्भिक्षमनावृष्टिश्च जायते ॥ २१ ॥ एषा यज्ञक्रिया प्रोक्ता कोटिहोमोऽथ वक्ष्यते । पुरस्याभ्यन्तरे भागे हुताशस्य पदे तथा ॥ २२ ॥ तस्मिन् स्थाने विधातव्यः कोटिहोमः सदा पुरे । लक्षहोमश्च कर्तव्यो नित्यो नैमित्तिकोऽपि वा ॥ २३ ॥ अथ भूमिवशात् स्थानं कदाचिन्नैव लभ्यते । सर्वतो ब्रह्मणः स्थानाद्धोमस्थानं निवेशयेत् ॥ २४ ॥ ऐशानीं दिशमाश्रित्य ब्राह्मणैर्वेदपारगैः । पुरश्चरणतत्त्वज्ञैः षट्कर्मनिरतैः सदा ॥ २५ ॥ नित्यं शान्तिपरैर्विप्रै राजा⁴ तु विजयी भवेत् । नोपसर्गास्तु जायन्ते न च लक्ष्मीः पुरं त्यजेत् ॥ २६ ॥ अनावृष्टिभयं नास्ति सुभिक्षं जायते सदा । उक्तं याज्ञिकमङ्गं तु सर्वाङ्गेभ्यः प्रशस्यते ॥ २७ ॥ सर्वं स्थपतिना ज्ञेयं तत्त्वज्ञैर्ब्राह्मणैः सह । एकाशीतिपदेनैव यज्ञभूमिं तु मापयेत् ॥ २८ ॥ निवेशं⁵ शिविरस्याथ कथयामोऽङ्गमष्टमम् । यदा तु नृपतिः⁶ स्थानात् स्वाद् यात्राभिमुखो भवेत् ॥ २९ ॥ शिविरस्य निवेशं च तत्त्ववेत्ता परीक्षयेत् । अर्थशास्त्रविधिज्ञो वा स्थपतिर्वा प्रकल्पयेत् ॥ ३० ॥ १ द. °द्या । २ द. °रा । ३ द. °श्वि° । ४ द. °दः । ५ द. ज्ञा । ६ द. विधि° । ७ द. मः । ८ द. ति ।

अङ्गाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः । २३१

शिविरं चतुरश्रं स्याद् वृत्तं वृत्तायतं क्वचित् । चतुरश्रायतं वापि विषमं वा क्वचिद् भवेत् ॥ ३१ ॥ भूमिभागवशात् कल्पं(ल्प्यं)महारथ्योभयान्वितम् । शिविरस्य तु चत्वारि कुर्याद् द्वाराणि यत्नतः ॥ ३२ ॥ रथ्या सार्धा तु सेनायाः पुररथ्याप्रमाणतः । मित्रे स्थानं नरपतेः कार्यं पृथ्वीधरेऽपि वा ॥ ३३ ॥ आर्यम्णे¹ वा विधातव्यं पदे² वैवस्वतो(ते)ऽथवा । निवेशो मन्त्रिणां कार्यः पश्चिमो(मे) राजवेश्मनः ॥ ३४ ॥ पुरोहितस्योत्तरतो बलाध्यक्षस्य पूर्वतः । अन्तःपुरं दक्षिणतो भाण्डागारं तथैव च ॥ ३५ ॥ गृहं प्रविशतो राज्ञो न्यस्येद् दक्षिणतो हयान् । वामे च दन्तिनो न्यस्येदेवं सैन्यं निवेशयेत् ॥ ३६ ॥ बाह्यतः परिखां तस्य कारयेद् राजवेश्मनः । हस्तांस्त्रींश्चतुरो वापि पञ्चहस्तानथापि वा ॥ ३७ ॥ चतुष्षष्टिपदाख्येन विभाज्यं शिविरं बुधैः । निवेशः शिविरस्योक्तो दुर्गकर्मार्थ कथ्यते ॥ ३८ ॥ दुर्गं तु षड्विधं प्रोक्तं राज्ञां तु विजिगीषताम् । अब्दुर्गं पङ्कदुर्गं वा वनदुर्गैरिणे¹⁴ ¹⁵ तथा ॥ ३९ ॥ पार्वतीयं¹⁶ महादुर्गमिति कल्प्यानि पार्थिवैः । सर्वेषामेव दुर्गाणां पार्वतीयं प्रशस्यते ॥ ४० ॥ दुर्गस्थानविभागोऽत्र षोडशाख्येन कीर्तितः । मध्ये तु ब्रह्मणः स्थानमसम्बाधं विधीयते ॥ ४१ ॥


१ द. स्ते । २ द. पदे चैव तुला यथा । ३ द. ॰ध्यक्षस्य । ४ क. ख. ग. द. ॰वे । ५ क. शि । ६ द. नि । ७ द. हस्तास्त्रीं । ८ क. व्यं । ९ द. शिशिरा बु° । १० द. के । ११ द. त्विषट्द्विधं । १२ द. राज्ञा भूमि जिगीषता । १३ द. अदुर्गं । १४ द. दुर्गेरिणा । १५ ग. णो । १६ द. पर्वतीयं गुहादुर्गमिति कल्याणपार्थिवः । ख. ग. प । १७ ख. ग. गु । १८ द. र्ग ।

२५२ समराङ्गणसूत्रधारे । ब्रह्मस्थानं समारभ्य हर्म्यं पञ्चशयाः स्मृताः । उपरथ्या त्रिहस्ता ते शेषास्तु द्विशै³याः स्मृताः ॥ ४२ ॥ संनिकृष्टा विधातव्या दुर्गा(र्ग)रथ्या समन्ततः । द्वारं⁵ रथ्याप्रमाणेन कार्यं नात्यन्तमुच्छ्रितम् ॥ ४३ ॥ परचक्रसमं (मसं)बाधं सुरक्षं तत् सदा भवेत् । दुर्गेश्वरगृहस्थानं ब्रह्मणः परितो भवेत् ॥ ४४ ॥ वैवस्वतेऽथवार्यम्णे मैत्रे पृथ्वीधरेऽपि वा । यथा पुरे पुरा प्रोक्तं स्थानं दुर्गेऽपि तत् तथा ॥ ४५ ॥ वीराः शुभा ह्यदोषाश्च भूमिपालस्य संमताः । धनुर्वेदविधिज्ञाश्च कृतास्त्राः शास्त्रपारगाः ॥ ४६ ॥ दुर्गे स्थाप्याः सुरूपाश्च बहवश्च वरस्त्रियः । अन्तःपुरं च कोशं च कुमारांश्चात्र वासयेत् ॥ ४७ ॥ एवं दुर्गे¹¹विधानस्य समासोऽयमुदाहृतः । इत्यष्टाङ्गो वास्तुशास्त्रस्य सारः संक्षेपेण स्पष्टमस्माभिरुक्तः । यन्न ज्ञाते शिल्पिवृन्दू वास्तुविद्यापाथोनाथं सन्तरन्त्यप्रयासात् ॥ ४८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ॥ अथ तोरणभङ्गादिशान्तिकॊ नाम षट्चत्वारिंशोऽध्यायः । पुरातनं नवं वापि कृतं वार्थार्ध¹³निर्मितम् । देवतानां नृपाणां¹⁴ च तोरणं निपतेद्¹⁵ यदि ॥ १ ॥ १ द. रध्यं । २ द. स्तु । ३ द. ती । ४ द. शांतिकृष्टा । ५ द. र । ६ द. ब्रह्मादपरतो । ७ ख. ग. द. थ । ८ द. का । ९ द. लाथ । १० द. रा । ११ द. र्गे । १२ क. वृद्वास्तु वि । १३ द. चार्थोर्द्धनिं० । १४ ख. ख. ऋषीणां च । १५ क. पत्यते य, ग. नृपतेर्यदि; द. नृपते यदि ।

तोरणभङ्गादिशान्तिकं नाम षट्चत्वारिंशोऽध्यायः २५३ भज्यते दह्यते वाथ नमते सज्जतेऽथवा । दवविद्युज्जलाद्यैर्वा हन्यते तत् कदाचन ॥ २ ॥ तत्र दोषान् प्रवक्ष्यामो दोषप्रशमनानि च । तोरणं निपतेत् सर्वं शिरो वास्य कथञ्चन ॥ ३ ॥ राज्ञां सेनापतीनां च प्रतीहारपुरोधसाम् । प्रधाना³श्वगजानां च विप्रपौरजनस्य च ॥ ४ ॥ तत्र मृत्युभयं विद्या⁴द् दुर्भिक्षं चापि निर्दिशेत् । तस्मात् प्रशमहेत्वर्थं विधिं कुर्यादिमं⁵ बुधः ॥ ५ ॥ ऋत्विग्भिर्ब्राह्मणै६र्धीरः स्थपतिः सपुरोहितैः । रात्रौ होमबलिं कुर्यान्नगरे तु चतुर्दिशम् ॥ ६ ॥ कर्णचत्वरशृङ्गाटेष्ववनीपालवेश्मनि । स्थानेष्वेतेषु विप्राद्यैर्वेदिं निष्पाद्य साक्षताम् ॥ ७ ॥ कलशैर्द्रव्यगन्धैश्च श्वेतमाल्याम्बरैर्वृताम् । तत्र होमं प्रकुर्वीत शान्तिकं बलिमेव च ॥ ८ ॥ एवं प्रशमयेत् सर्वं यत्किञ्चिद् दुरितोत्थि⁸तम् । तोरणं भज्यते चेत् तद्राष्ट्रभङ्गं विनिर्दिशेत् ॥ ९ ॥ अस्य प्रशमहेत्वर्थं पूर्वोक्तं कारयेद् विधिम् । तदै⁹वकं प्रदह्येत तोरणं नगरे१० र्य(य)दि ॥ १० ॥ तदा वह्निभयं ब्रूयाद् राष्ट्रस्य नगरस्य च । सबाह्याभ्यन्तरं विप्रैर्विधिमेनं प्रयोजयेत् ॥ ११ ॥ नते वा शीर्णभग्ने वा व्याधिपीडां विनिर्दिशेत् । होमं बलिं च कुर्वीत पुनःसंस्कारमस्य च ॥ १२ ॥ वातेन विद्युता११ वापि तोरणं यदि भज्यते । तस्मिन् रोगाः प्रवर्तन्ते कुलपीडाधन¹²क्षयोः ॥ १३ ॥ १ द. भिद्यते । २ द. नृपते । ३ ख. ग. द. ˚नानां ग˚ । ४ द. ˚यं ब्रूयान् दु˚ । ५ द. ˚मां । ६. क. वीं; द. धीरैः । ७ द. स्थि । ८ द. ज्ञो । ९ क. तदा चैकं । १० ग. रै; द. ˚र्ययदि । ११ द. ˚तो । १२ क. ग. द. यः ।

२६४ समराङ्गणसूत्रधारे शान्तिकर्म प्रकुर्वीत ततः शान्तिकरं भवेत् । एवमादौ कृते पश्चात् पुनः संस्कारयेद् बुधः ॥ १४ ॥ पूर्वावयवनिर्माणाद् विशिष्टं रचयेत् पुनः । १दृढसन्धिनिगूढं च दृढद्रव्यसमन्वितम् ॥ १५ ॥ विविधं रूपकर्मार्ढ्यं सुसंस्थानं मनोरमम् । अकुब्जमनतं चैव पूर्वोत्कृष्टतरं तथा ॥ १६ ॥ नियुक्ते तु पुनः शान्तिं ब्राह्मणान् वाचयेत् ततः । पुराणे वा नवे वाथ कृते वार्धकृतेऽथवा ॥ १७ ॥ प्रासादे वा गृहे वापि कपोतः प्रविशेद् यदि । तत्र दोषाः प्रपद्यन्ते शान्तिकर्म तथैव च ॥ १८ ॥ ३कालमूर्तिः कपोतश्च पापमूलकरण्डकम् । विहङ्गापशदो हीनः कृष्णचारी विहिङ्गमः ॥ १९ ॥ चतुर्विधः समाख्यातो मुनिभिः स तपोधनैः । श्वेतो विचित्रकण्ठश्च विचित्रोऽन्योऽथ कृष्णकः ॥ २० ॥ कपोतो भवने यस्य श्वेतवर्णो विशेत् क्वचित् । कीर्त्तिविद्याधनं पुण्यं शीघ्रं च नयते क्षयम् ॥ २१ ॥ नित्यं रोगाः प्रवर्धन्ते शिशुपीडा च जायते । चित्रकण्ठो ७ हरेज्जायां पुत्रान् सर्वान् विचित्रकः ॥ २२ ॥ सर्वाः सिद्धीश्च कृष्णाङ्गः ४प्रदुष्यै च कुलं हरेत् । रोगाः सर्वेऽपि वर्धन्ते विपदो व्यसनानि च ॥ २३ ॥ बन्धनानि च जायन्ते प्रविष्टे तु कपोतके । तस्माद् यत्नपरो भूत्वा प्रायश्चित्तं समाचरेत् ॥ २४ ॥ स्नातस्त्रिकालशुद्धात्मा सोपवासो जितेन्द्रियः । देवपूजार्चनरतो नित्यं दानपरः शुचिः ॥ २५ ॥ १ ख. ग. द. दृढं । २ ग. द. न । ३ क. कलिसूत्रं क । ४ द. ०धं । ५ द. ष्ठे । ६ क. यु । ७ ग. द. ण्ठ्यं ।

तोरणभङ्गादिशान्तिर्नाम षट्चत्वारिंशोऽध्यायः । २६९ यवान्नप्रायभोजी च नित्यं होमपरायणः । गुरुविप्ररतश्चैव श्वेतमाल्याम्बरस्तथा¹ ॥ २६ ॥ गृही सगृहिणीकस्तु व्रतमेतत् समाचरेत् । श्वेतके पञ्चरात्रं च चित्रकण्ठे दशैव तत् ॥ २७ ॥ चित्रे पञ्चदशाहानि कृष्णे दिवसविंशतिः । व्रतस्थेन² तु कर्तव्यमग्निकार्यं मनोरमम् ॥ २८ ॥ यथालाभं समादाय तस्य देहं सपिच्छकम् । निकृन्तेत् खण्डखण्डानि विभागाष्टशतानि तैम्³ ॥ २९ ॥ घृतैःप्लुतानि पुण्यानि मधुलाजान्वितानि च । पञ्चवारुणसंज्ञेन वह्निकार्ये कृतेऽक्षतैः⁴ ॥ ३० ॥ तैतश्च⁵ मांसं जुहुयाद्ध्वंमात्रेण मन्त्रवित् । हुते क्रव्ये⁶ ततः क्षीरं दधिमध्वाज्यमेव च ॥ ३१ ॥ संपूजयेद् ग्रहान् सर्वान् ब्राह्मणान् वाचयेत् ततः । स्ववित्तपादं श्वेते तु विप्रेभ्यः प्रतिपादयेत् ॥ ३२ ॥ वित्तार्थं चित्रकण्ठे तु पादोनं सर्वचित्रके । कृष्णे⁸ सर्वधनत्यागः कर्तव्यो ब्राह्मणांत्⁹ पुनः ॥ ३३ ॥ एवं शान्तिर्भवेद् गेहे¹⁰ सर्वदोषक्षयार्वहा¹² । महतीं श्रियमाप्नोति धनलाभश्च जायते ॥ ३४ ॥ पुत्रैः पौत्रैर्वृद्धिमाप्नोत्यैनन्तामायुर्दीर्घं¹³ प्राप्नुयात् संयतात्मा¹⁴ । एतत् कृत्वा मुच्यते सर्वपापैर्मेघैर्यद्वच्छारदः शीतरश्मिः¹⁵ ॥ ३५ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे तोरणभङ्गकपोतप्रवेशशा¹⁶न्तिका नाम षट्चत्वारिंशोऽध्यायः ॥


१ ग. द. था । २ द. व्रतस्वेना तु । ३ क. तत्; ग. द. ते । ४ ख. ग. द. ताक्षतानि पुष्पाणि म° । ५ द. बद्धश्व । ६ द. न्य । ७ द. हुतः कुधे ततः । ८ द. °ष्णो । ९ क. णान् पु । १० क. शि । ११ द. देहे । १२ क. पहा । १३ द. प्नोत्यनन्तं चा । १४ क. ग. यु । १५ द. दिम । १६ द. °शान्तिकाध्यायो नाम षट् चत्वारिंशः ॥ छ ॥

२६६ समराङ्गणसूत्रधारे अथ वेदिलक्षणं नाम सप्तचत्वारिंशोऽध्यायः । वेद्यश्चतस्रो विज्ञेया या पुरा ब्रह्मणोदिताः । वयं तां:¹ संप्रवक्ष्यामो नाम²संस्थानमानतः ॥ १ ॥ प्रथमा चतुरश्रा स्यात् सभद्रा च द्वितीयका³ । तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता⁴ ॥ २ ॥ यज्ञकाले तथोद्वाहे देवतास्थापनेषु च । नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥ ३ ॥ नृपाभिषेचने चैव शक्रध्वजनिवेशने । नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥ ४ ॥ चतुरश्रा तु या वेदि नवहस्ता समन्ततः । अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता⁵ ॥ ५ ॥ श्रीधरी सप्त विज्ञेया हस्तान्⁶ मानेन वेदिका । षड्हस्ता चैव शास्त्रज्ञैर्नलिनीह विधीयते ॥ ६ ॥ चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः । भद्रैस्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ॥ ७ ॥ श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता । नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥ ८ ॥ कर्तव्याः⁷ स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः । कुर्यान्मन्त्रवतीमिस्ता इष्टकाभिस्तु चाये(यि) ताः⁸ ॥ ९ ॥ चतुरश्रा ⁹यज्ञकाले विवाहे श्रीधरी स्मृता । देवतास्थापने वेदीं ¹⁰सर्वभद्रां निवेशयेत् ॥ १० ॥ नीराजने साग्निकार्ये तथा राजाभिषेचने । वेदी पद्मावती या¹¹ च तथा शक्रध्वजोच्छ्रये ॥ ११ ॥ १ क. तासां प्र । २ द. माम् । ३ द. काः । ४ द. ताः । ५ द. ताः । ६ क. स्तोन्मा । ७ क. द. व्या । ८ क. का । ९ द. वायकाः । १० ख. ग. कः । ११ द. यां । १२ द. वेदी सर्वभद्रं ।

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २५७ चतुर्मुखा तु कर्तव्या सोपानैश्च चतुर्दिशम् । प्रतीहारसमायुक्ता चार्थचन्द्रोपशोभिता¹ ॥ १२ ॥ चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता । काञ्चनै राजनैस्ताम्रैर्मृन्मयैः कलशैस्तथा ॥ १३ ॥ कोणे कोणे तु विन्यस्तैर्बल्गुवानरभूषितैः । स्तम्भप्रमाणं वेदीनां कार्यं छायवशेन चै² ॥ १४ ॥ एकेन द्वित्रिभिर्वापि च्छायैः सामलसॉरकैः । स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥ १५ ॥ परमान्नेन वाभ्यज्य तान्³ विन्यस्येद् यथातथम् । देवै⁴ताः⁵ पूजयित्वा तु ब्राह्मणान् स्वस्ति वाचयेत् ॥ १६ ॥ चतुर्विधमितीरितं यदिह वेदिकलक्षणं समग्रमपि वर्तते मनसि यस्य तच्छिल्पिनः । स याति भुवि पूज्यतामवनिभोक्तुराप्नोति च श्रियं स्थपतिसंसदि स्फुरति चास्य शुभ्रं यशः ॥ १७ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः । अथ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । अतः परं गृहादीनामप्रशस्तसमुच्छ्रितम् । क्रियते कथितं यस्मादेकत्र सुसमं भवेत् ॥ १ ॥ रक्षोम्बुनाथकीनाशमरुद्दहनदिक्प्लवां⁶ । मध्यप्लवा च भूर्व्याधिदारिद्र्यमरकावहा ॥ २ ॥ वह्निप्लवा वह्निभये मृतये दक्षिणँ⁷प्लवा । रुजे रक्षःप्लवा प्रत्यक्प्लवा धान्यधनच्छिदे ॥ ३ ॥ १ द. ताः । २ द. ण । ३ द. न् । ४ ख. ग. ड. र । ५ द. देवतानु (न् ) पूजयित्वात् (च ) ब्राह्मणा स्वस्ति वाचयेत् । ६ द. निप्लवा । ७ द. णं । वा. ३३

२९८ समराङ्गणसूत्रधारे कलहाय प्रवासाय रोगाय च मरुत्प्लवा । मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥ ४ ॥ तुषास्थिकेशकीटत्वं(क्)शङ्खभस्मोषरान्विताम् । कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥ ५ ॥ चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् । पशुनाशनमाषाढे शून्यं भाद्रपदे कृतम् ॥ ६ ॥ आश्विने कलहाय स्यात् कार्त्तिके भृत्यनाशनम् । माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥ ७ ॥ पावकस्य पदे पृष्ठवंशस्यापिं च पश्चिमे । पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥ ८ ॥ पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद् भवेत् । उदङ्गूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥ ९ ॥ यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् । प्राग्वास्तुनि (र्तु) कुर्वीत प्रासादं मन्दिरं पुरे ॥ १० ॥ वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् । यत् स्यान्मुखविनिष्क्रान्तं वलितं तत् प्रकीर्तितम् ॥ ११ ॥ चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते । विसूत्रं कर्णहीनं स्यात् फलमेषां प्रचक्ष्महे ॥ १२ ॥ वलिते चलति स्थानं चलिते विग्रहो भवेत् । भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥ १३ ॥ मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् । छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥ १४ ॥ मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम् । विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी । भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥ १५ ॥ १ द. वे। २ द. भासा। ३ द. केसीकीटत्वप्लषभस्मोषरान्वितं; ख. ग. 'सी' । ४ ख. ग. त्वप्लषभ । ५ द. भ । ६ क. अश्विन्ये क; द. अं । ७ द. तः । ८ द. तः । ९ द. विरुद्धं । १० द. विचित्र । ११ क. शुभम्; द. शुतं । १२ क. ग. र्तु । १३ क. गान् ।

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २१९ सपादं सत्रिभागं वा सार्धं द्विगुणमेव चं¹ । यत् स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥ १६ ॥ यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा । मूषयां² रहितं वेश्म तदनिष्टफलप्रदम् ॥ १७ ॥ पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता³ । गृहे न शस्यते शाला देवागारे तु शस्यते ॥ १८ ॥ अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते । परॅस्परविरोधाय⁴ तद् वेश्म गृहिणोस्तयोः ॥ १९ ॥ सशल्यं पादहीनं च समसन्धि शिरोगुरुँ⁵ । वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥ २० ॥ वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते । तँदङ्गं⁶ वास्तुनस्तस्य च्छिन्नां⁷ तेनेति निर्दिशेत् ॥ २१ ॥ छिन्नाङ्गं विकलं तत् स्याद् भीतिदं सर्वदोषकृत् । तद्भर्तुर्भज्यतेऽङ्गं तद् वेधस्तस्याफलोऽन्यथा ॥ २२ ॥ स्वगृहद्वयमध्येन निर्गाहो यदि वर्त्मनः । द्वारवेधोदितान् दोषांस्तदा प्राप्नोति निश्चितम् ॥ २३ ॥ मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः । मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥ २४ ॥ उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः । प्रत्यक्षाग्र इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥ २५ ॥ गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः । उत्सङ्ग⁸ इति स प्रोक्तः पूर्णबाहुः ९प्रदक्षिणः† ॥ २६ ॥ वामतो हीनबाहुः स्यात् प्रत्य॑क्षो¹⁰ वा (क्षो य) स्तु पृष्ठतः । चतुर्थो¹²ऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥ २७ ॥ १ द. वा । २ द. मूखो । ३ द. नि । ४ द. परविरोधायातद्गवे तद्° । ५ ख. ग. द. रुः । ६ क. य । ७ द. उच्छांग । ८ ख. सं । ९ द. ˚बाहुमुद˚ । १० ख. ‘मु’ । ११ द. प्रत्युक्तवात्तु˚; ख. त्युक्तो वा । १२ द. ˚ष्टो । † ‘पूर्णबाहुस्तु’ दक्षिणे इति तु पाठो युक्तः ।

२६० समराङ्गणसूत्रधारे उत्सङ्गाख्ये प्रवेशे स्यात् प्रजाहानिः कुटुम्बिनः । धनधान्यक्षयो वास्य मरणं वा ध्रुवं भवेत् ॥ २८ ॥ पूर्णबाहौ पुत्रपौत्रा धनधान्यसुखानि च । भवन्ति वसतो³ नित्यं गृहिणस्तत्र वास्तुनि ॥ २९ ॥ अल्पमित्रो गृही हीनबाहौवत्यल्पबान्धवः । स्याद् वाल्पवित्तो जीयेत स्त्रीभिः पीड्येतै वामयैः ॥ ३० ॥ प्रत्यक्षाय प्रवेशँस्तु विहिनो यत्र वेश्मनि° । तस्मिन् निवसतं पुंसां निश्चितः स्याद् धनक्षयः ॥ ३१ ॥ मूषास्वस्थानयुक्तासु शालाभेद इति स्मृतः । प्राप्नोति तत्र निवसन् मृत्युं दुःखं सरोगताम् ॥ ३२ ॥ उदग्दक्षिणशालासु पूर्वापरगतासु च । अन्यथा वा स्थितं द्वारं वधबन्धनकारकम् ॥ ३३ ॥ मूषागतान् भ्रमान् कुर्यान्न शालां प्रतिभेदयेत् । भ्रमभग्नासु शालासु विपद्यन्ते कुटुम्बिनः ॥ ३४ ॥ शालाभेदो भवेद् यत्र पृष्ठतः पार्श्वतोऽपि वा । धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् ॥ ३५ ॥ यत्र प्रत्यङ्मुखे शाले गृहं तत् स्याद् विकोकिलम् । आयुश्चतुष्पदं धान्यं वसतां तत्र नश्यति ॥ ३६ ॥ सीमाशालाप्रभिन्नस्य प्रासादस्य गृहस्य च । अंस्थिरा जायते ऋद्धिः स्थितिश्च न भवेच्चिरम् ॥ ३७ ॥ सर्वदोषकरि ज्ञेया गर्भे चन्द्रावलोकिता । मूषां विना विनाशाय कामोच्छित्त्यै गवाक्षकः ॥ ३८ ॥ यदा गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते । दायद्यं जायते भर्तुस्तदानीमदुस्सहम् ॥ ३९ ॥ १ द. ज । २ द. ºहा । ३ भवतो निं° । ४ द. ह । ५ द. पीड्यते वासयैः । ६ द. ºसा° । ७ द. नः । ८ ग. थ । ९ द. प्रासादे रूपगृ° । १० द. स्थिरान् । ११ ख. ग. कनां; द. कना ।

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६१ गर्भादुभयतो गण्डौ कक्षे स्तैः¹ कर्णभित्तिगे । दक्षिणोत्तरयोः कुक्षी पृष्ठतः पृष्ठमादिशेत् ॥ ४० ॥ स्थापितद्वारसंरोधे गृहिणो जायतेऽ²श्मरी³ । द्वारे तु विहिते तँ⁴स्मिन्ननर्थस्तस्य जायते ॥ ४१ ॥ पूर्वद्वारनिरोधं तुँ⁵ नवमार्गं कदाचन॑⁶ (?) । श्रोत्रै²रोधॆ³ऽश्मरीदोषः कृत्तश्रोत्रेह्यनं⁸म्यता (?) ॥ ४२ ॥ कृत्तानि यत्र ⁹चीयन्ते गवाक्षालोकनानि चै¹⁰ । तत्र प्रसूतिर्न भवेन्निष्पन्नापि विनश्यति ॥ ४३ ॥ चीयमाना यदा भित्तिर्दक्षिणा स्याद् बहिर्मुखी¹² । तदा व्याधिभयं विद्यान्नृपदण्डभयं तथा ॥ ४४ ॥ यदा तु पश्चिमं कुड्यं प्रयाति बहिरग्रतः । धनहानिं विजानीयाच्चौरेभ्यश्च भयं तदा ॥ ४५ ॥ उत्तरं तु यदा कुड्यं चीयमानं बहिर्व्रजेत् । गृहभर्तुश्च कर्तुश्च व्य॑¹³सनं स्यात् तदा महत् ॥ ४६ ॥ यदाग्रं चीयमानायाः पूर्वभित्तेर्बहिर्व्रजेत् । तदा गृहपतेस्तीव्रं¹⁴ राजद्ण्डं¹⁵भयं भवेत् ॥ ४७ ॥ प्राग्दक्षिणो यदा क॑¹⁶र्णश्चीयमानो बहिर्व्रजेत् । तत्राग्निभीतिरतुला संशयश्च प्रभोर्भवेत् ॥ ४८ ॥ बहिर्मुखो यँ¹⁷दा गच्छेत् कर्णौ दक्षिणपश्चिमः । कलहोपद्रवस्तत्र स्याद् भार्यायाश्च संशयः ॥ ४९ ॥ यँ¹⁸त्रोत्तरापरः कर्णश्चीयमानो व्रजेद् बहिः । पुत्रवाहनभृत्यानां भवेत् तस्मिन्नुपद्रवः ॥ ५० ॥

१ द. स्तिकर्त्त । २ क. क्षौ । ३ द. तेस्मरी । ४ ग. न्य; द. त्य । ५ द. दं तु तं । ६ द. नः । ७ द. स्तोत्ररोधस्मरी दोष कृतश्रोत्रे ह्यलंषता । ८ ख. नंषता । ९ ख. ता; द. कृतानि यत्र वी(दी)र्यन्ते गवाक्षं । १० क. यी, ख. वी । ११ द. तु । १२ क. खा । १३ द. व्या । १४ द. त्र. । १५ द. ण्डं । १६ द. कर्णं श्चीं० । १७ द. यत्र । १८ द. यत्रोदग्व्यश्रमः क० ।

२६२ समराङ्गणसूत्रधारे यदा प्रागुत्तरः कर्णो बहिर्गच्छति वेश्मनः । तदा¹ गवां वृषाणां च गुरूणां च क्षयो भवेत् ॥ ५१ ॥ चतस्रो भित्तयो यस्य बहिर्निर्यान्ति वेश्मनः । चीयमानांस्तदत्रोक्तं मन्दिरं मल्लिकाकृति³ ॥ ५२ ॥ तादृग्⁴ गृहे न तत्रायो व्ययो भवति यादृशः । कर्शितोऽस्यैव दोषेण तस्य भर्त्ता पलायते ॥ ५३ ॥ संक्षिप्यते तु यद् वेश्म चीयमानं समन्ततः । संक्षिप्तमिति तज्ज्ञेयं तत्र राजभयं भवेत् ॥ ५४ ॥ यत् स्यादन्तेषु संक्षिप्तं विस्तृतं चापि मध्यतः । मृदङ्गाकृतिसंस्थानं तत्र व्याधिभयं भवेत् ॥ ५५ ॥ आद्यन्तविस्तृतं⁵ यत् स्यात् संक्षिप्तं चापि मध्यतः । मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥ ५६ ॥ विषमैलन्नतः कर्णैर्धनक्षयकरं गृहम् । भित्तिष्वपि कर्णेषु प्रागुक्तं फलमादिशेत् ॥ ५७ ॥ मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन । मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥ ५८ ॥ द्वारं द्वारेण वा विद्धमशुभायोपपद्यते । अनिष्टद्रव्यसंयुक्तं धनधान्यविनाशनम् ॥ ५९ ॥ नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति । अयोग्यं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥ ६० ॥ नवं पुराणसंयुक्तं द्रव्यं तु कलिकारकम् । न मिश्रंजातिद्रव्योत्थं द्वारं वा वेश्म वा शुभम् ॥ ६१ ॥ गृहस्थानेषु यद् द्रव्यमधिवास्य प्रतिष्ठितम् । तच्चालनेन चलनं गृहभर्तुः प्रजायते ॥ ६२ ॥ १ द य । २ द. न । ३ द. ॰तिः । ४ द. ॰र्गृवे न तत्रायो जाया भवति तादृशः । ५ ख. ता । ६ द. विस्तरं । ७ द. त । ८ द. य । ९ क. द्ध; ख. ग. ध्रं । १० द. न ।

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६३ अन्यवास्तुच्युतं द्रव्यमन्यवास्तौ न योजयेत् । प्रासादे न भवेत् पूजा गृहे च न वसेद् गृही ॥ ६३ ॥ द्रव्येण देवदग्धेन भवनं यद् विधीयते । न तत्र वसति स्वामी वसन्नपि विनश्यति ॥ ६४ ॥ सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता । द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥ ६५ ॥ प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता । त्रिपञ्चसप्तमी भर्तुर्गृहदारा न शोभना ॥ ६६ ॥ निम्नोनतं करालं च सम्मुखं पृष्ठदेशगम् । वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥ ६७ ॥ निम्ने स्यात् स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते । सम्मुखे सुतपीडा स्यात् पृष्ठगे चपलाः स्त्रियः ६८ ॥ वामे वित्तक्षयो द्वारि(रे)भवत्यग्रतरे प्रभोः । द्वारं तस्मान्न कर्तव्यमीहग्रूपं विचक्षणैः ॥ ६९ ॥ नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः । द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥ ७० ॥ इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम् । निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥ ७१ ॥ यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च । भीषणानी च यानि स्युर्न कुर्यात् तानि वेश्मसु ॥ ७२ ॥ स्वयमुद्घाटितं द्वारमुच्चाटनकरं भवेत् । धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥ ७३ ॥ स्वयं यत् पिहितं द्वारं तद् भवेद् बहुदुःखदम् । सशब्दं भयकृत् पादशैथिलं गर्भपातनम् ॥ ७४ ॥ १ क. ख. स्तुनि यो; द. वास्तु नियो˚ । २ द. ती । ३ द. ˚वो । ४ द. ˚यां । ५ द. न्सु˚ । ६ द. पृष्ठं त्वे च˚ । ७ द. ˚परि रक्षणैः ॥ ८ द. ˚व्यं । ९ द. काः । १० द. च । ११ द. द्वा˚ । १२ द. वृद्ध˚ । १३ द. पिहति । १४ द. पात˚ । १५ द. स्य ।

२६४ समराङ्गणसूत्रधारे द्रव्यं नाधोमुखं कार्य प्रत्यग्याम्याननं न च । पश्चिमागे परिक्लेशो दक्षिणाग्रे तु³ शून्यता ॥ ७५ ॥ स्तम्भद्वारं च भित्तिं च विपरीतं¹ न कारयेत् । अमीषां वैपरीत्येन दोषाः स्युर्बहवो नृणाम् ॥ ७६ ॥ मूलसूत्रानुसारेण कर्तव्या भूमिकोपरि । उपर्युपरि यद् वेश्मसमं² संतापकारकम् ॥ ७७ ॥ अधोभूमौ क्षणा ये स्युस्तत्समांश्चोर्ध्वभूमिषु । परित्यजन्नपहितां⁴(?) न कुर्वीत यथोत्तरम् ॥ ७८ ॥ शाला निम्ना भवेद् यस्मिन्नालिन्दस्त्व⁵धिको भवेत् । निधनं जायते तत्र सदा शोकभयानि च ॥ ७९ ॥ मूलद्वारानुसारेण द्वाराण्युपरिभूमिषु । कुर्याद् भयप्रदानि⁶ स्युर्विहितान्यन्यथा पुनः ॥ ८० ॥ क्षुद्रय⁹प्रदमाध्मानं⁷(तं) कुब्जं कुलविनाशनम् । अत्यर्थं पीडितं पीडां करोत्यन्तेनतं क्षयम् ॥ ८१ ॥ प्रवासो बाह्यविनते दिग्भ्रान्ते दस्युतो भयम् । मूलद्वारं क्षयं कुर्याद् विद्धं द्वारान्तरेण यत् ॥ ८२ ॥ प्रवासो भृत्यंजो¹⁰ द्वेषो विद्धे चत्वररथ्यया । नाँशं¹¹ द्रव्यं ध्वजाविद्धं वृक्षेण शिशुदूषकम् ॥ ८३ ॥ पङ्कविद्धे भवेच्छोकः सलिलस्राविणि व्ययः । कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥ ८४ ॥ स्तम्भेन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः । मानादभ्यधिके द्वारे राजतो जायते भयम् ॥ ८५ ॥ व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत् । व्याधयः श्वभ्र¹²विद्धेन धनस्य च परिक्षयः ॥ ८६ ॥

१ क. तां । २ ख. ग. समस्तं ता; द. °समस्तं ताप° (°समस्संताप°) । ३ ग. द. तू । ४ ख. ग. द. ताः । ५ द. °न्दस्तु (अ)थ को° । ६ क. न । ७ द. न । ८ द. निवासं । ९ क. ग. न्तं । १० ख. ग. द. मृत्यजा दोषा वि° । ११ ख, ग, श; द. स । १२ द. शु ।

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६५ देवध्वजेन बन्धः स्यात् सभयैश्वर्यसंक्षयः । सन्निपातभयं वाप्या तुल्या दृष्ट्वमाकृते(?) ॥ ८७ ॥ हृद्रुक् कुलालचक्रेण दारिद्र्यं वारिणा भवेत् । व्याधिरुक् कचकूटेन आपाकेन(?) सुतक्षयः ॥ ८८ ॥ निश्चँ(स्व)तोदूखलेन स्याच्छिलैै्या चाश्मरी भवेत् । तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥ ८९ ॥ दारिद्र्यं छायया विद्धे भवेद् द्वारे कुटुम्बिनः । स्थलस्पन्दनवल्मीकैर्विद्देशगमनं भवेत् ॥ ९० ॥ कृशं विकृतमत्युच्चं करालं शिथिलं पृथु । वक्रं विशालमुत्तानं शू(स्थू)लाग्रं ह्रस्वकुक्षिकम् ॥ ९१ ॥ स्वपादचलितं ह्रस्वं हीनकर्णं मुखानतम् । पार्श्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥ ९२ ॥ तत् करोति क्षयं घोरं विनाशं स्वामिसम्पदः । वसतां कलहं नित्यमतस्तत् परिवर्जयेत् ॥ ९३ ॥ अन्तर्द्वाराद् बहिर्द्वारं नोच्चं कुर्यान्न सङ्कटम् । उच्चं विसङ्कटं वापि तच्छिवाय न जायते ॥ ९४ ॥ पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात् कथञ्चन । कर्तुस्तदा विनाशः स्यात् कुलस्य च परिक्षयः ॥ ९५ ॥ तुला उपतुला वा स्युर्द्वारि तिर्यग् यदा कृताः । दारिद्र्यव्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥ ९६ ॥ अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे । वित्तायुषोस्तदाल्पत्वमनारोग्यं च जायते ॥ ९७ ॥ उदुम्बरे(वि)निहिता(नि?)ललाटी नाम सा तुला । दूषणं मरणं वापि कन्यानां विदधाति सा ॥ ९८ ॥ १ ख. द. द्र; ग. द्रष्ट्व; द्र । २ द. द्रं । ३ क. कतरच । ४ क. श्वि । ५ द. ॰ला । ६ द. स्पं° । ७ द. वक्त्रं सिलामुत्तानं च शूलाग्रं लम्बकुं° । ८ ख. लम्बकु । ९ द. न्ध्ये° । १० द. हृं° । ११ द. जा । १२ द. छा । १३ ख. भल्ला । † कन्दकूटकमिति उपरि वक्ष्यते । वा. ३४

२६६ समराङ्गणसूत्रधारे उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि । तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥ ९९ ॥ तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी । वसतो¹ व्यसनं कुर्यात् कुटुम्बस्यासुखं च सा ॥ १०० ॥ यदि भारतुलैकापि मध्ये विद्धा कथञ्चन । तदा वराङ्गं भज्येत धनं च परिहीयते ॥ १०१ ॥ भित्तिभेदो न कर्तव्यस्तुलाग्रैरखिलैरपि । कुर्याद् ब्रह्मपदन्यस्तो भारपट्टः कुलक्षयम् ॥ १०२ ॥ अयुक्तगोर्युक्तयोर्वा² सन्धिश्चेद् भारपट्टगे³ । सन्धौ स्यात्⁴ तत् सुतो ज्येष्ठः कर्तुश्चापि विनश्यति ॥ १०३ ॥ अनुवंशं न भुञ्जीत न शयीत कदाचन । भुञ्जानस्यार्थनाशः स्याच्छयानस्य महारुर्जः ॥ १०४ ॥ नाशोऽनुवंशं रोगाः स्युस्तिर्यक्स्थे रक्षसो भयम् । शयनागारविन्यस्ते मरणं नागदन्तके⁷ ॥ १०५ ॥ कर्णवात्( ? )पक्षिराङ्घण्टाध्वजच्छत्रकुमारकान् । सिंहकर्णकपोतालिं गृहेषु परिवर्जयेत् ॥ १०६ ॥ इन्द्रकीलं शुकं तुम्बीमर्धवंशं च वेश्मनि । न कुर्यात् तत्र विहिताः सर्वदोषावहा यतः ॥ १०७ ॥ अतिश्लिष्टचिरोत्पन्नं कृशद्रव्यमपाहितम् । अप्रतिष्ठितसंस्थानं गृहं नमति पञ्चधा ॥ १०८ ॥ अतिस्थूलेन ह्रस्वेन शरीरेण यथा नरः । विरूपो दुर्बलश्चैव तथा द्रव्येण मन्दिरम् ॥ १०९ ॥ जीर्णं घुणकृ(क्ष)तं मिश्रं हीनं वक्रं विधिच्युतम् । चण्डं तुण्डं वक्रक्रोगं सन्धिविद्धालपमूलके ॥ ११० ॥ १ द. थ । २ द. ॰र्वासंधिश्चेततारप॰ । ३ क. गः । ४ द. स्यां । ५ द. कर्नायान्वा । ६ द. ॰भुजः । ७ द. दन्तिके । ८ स. र्ता । ९ ख. ग. मूर्व; द. मूर्द्ध॰ । १० द. ॰नेत्रं । ११ ख. ग. पाह; द. ॰हृत । १२ द. स्कारं । १३ क. गु ।

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६७ वज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत् । भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥ १११ ॥ पातितान् वर्जयेद् वृक्षान् द्विपाश्वांग्रिजलानिलैः । प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ॥ ११२ ॥ मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान् । चतुष्पथत्रिकमहानदीसङ्गममार्गजान् ॥ ११३ ॥ देवनायतनजातानूर्ध्वशुष्कान् क्षतच्छदान् । वल्लीपिनद्धान् सुषिरकोटरग्रन्थिसङ्कुलान् ॥ ११४ ॥ याम्यापराशापतितांस्त्यजेत् कण्टकिनोऽपि च । कपित्थोडुम्बरौश्वत्थशिरीषवटचम्पकान् ॥ ११५ ॥ कोविदारधवारिष्टश्लेष्मातकविभीतकान् । किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ॥ ११६ ॥ मर्माणि यत्र पीड्यन्ते द्वारैर्भित्तिभिरेव वा । दारिद्र्यं कुलहानिं वा गृहिणस्तत्र निर्दिशेत् ॥ ११७ ॥ स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम् । सङ्ग्रहैर्बन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥ ११८ ॥ मर्मस्थानस्थितैः कार्यैर्भर्तुः कायो निपीड्यते । मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥ ११९ ॥ गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः । कापिच्छुकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ॥ १२० ॥ षड्दारुकान्यनुसरागवाक्षालोकनानि च । मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥ १२१ ॥ स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः । वातायनैर्नागदन्तैर्द्वारमध्ये निपीडिते ॥ १२२ ॥


१ द. श्च । २ द. जुष्टान् चै° । ३ द. ज्ञा । ४ ख. गः च्छदावृतान्; द. °न् भङ्गच्छेदावृतान् । ५ द. °रो । ६ द. नि । ७ द. धाः । ८ द. समं° । ९ द. लैः । १० द. त्थ । ११ द. धर्मस्थानानि° ।

२६८ समराङ्गणसूत्रधारे व्याधयः संप्रवर्धन्ते धनैनाशः कुलक्षयः । राजदण्डभयं चै स्यादपत्यानां च पीडनम् ॥ १२३ ॥ षड्दारुकाणां मध्येषुं द्वारमध्येषु वा पुनः । कर्णद्रव्यादिभिर्विद्धेष्वेवतदेवाद्दिशेत् फलम् ॥ १२४ ॥ संविद्धा नागदन्तैर्या स्तम्भैर्वातायनैस्तथा । शय्या शस्त्राद् भयं भर्तुः कुर्यात् तस्करतोऽपि वा ॥ १२५ ॥ गृहमध्ये कृतं द्वारं द्रव्यकोशविनाशनम् । आवहेत् कलहं भर्तुर्भार्या वास्य प्रदूषयेत् ॥ १२६ ॥ द्रव्येणैकोत्तरेणापि महामर्मणि पीडिते । सर्वस्वनाशो गृहिणो मरणं वा ध्रुवं भवेत् ॥ १२७ ॥ द्वारस्तम्भतुलालिन्द श्रं(च)यदोषैः संमीरितैः । विसूत्रे नागदन्तेऽपि तच्छून्यं जायते गृहम् ॥ १२८ ॥ विभागपदैहीनेषु रूपस्थानेषु वास्तुषु । यक्षमातृक्रियाद्येषु रोगान्मृत्युर्न संशयः १२९ ॥ कटुकण्टकिदुर्गन्धिगुह्यकाद्याश्रयान् द्रुमान् । न धारयेत् समीपस्थान् पुरप्रासादवेश्मनाम् ॥ १३० ॥ बदरी कदली चैव दाडिमी बीजपूरिका । प्ररोहन्ति गृहे यत्र तद् गृहं न प्ररोहति ॥ १३१ ॥ द्रव्यं द्रव्याधिकं हन्ति कुलमायामतोऽधिकम् । उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥ १३२ ॥ स्तम्भाङ्गेर्भाित्तिभिः पट्टैः शीर्षकैर्भवनेस्तथा । आलोकनातोरणाद्यैश्छाद्यकैः कन्दकूटकैः ॥ १३३ ॥ हीरशाखोत्तमाङ्गैश्च तुलाभिः सन्धिपालकैः । अर्गलाग्रैर्वेदिकाभिर्व्यालैर्जालैश्च नूतनैः ॥ १३४ ॥ १ द. धनत्रासककुं । २ द. चः । ३ द. तु । ४ क. ख. तृ; द. 'भिदृद्ध्येवेदे' । ५ द. स्त । ६ द. त । ७ द. बां । ८ क. न्दै । ९ ख. ग. द. स्व । १० क. ख. ग. द. कि । ११ द. शाद । १२ क. नः । १३ क. क्ष । १४ द. नवधारयस्रं । १५ द. ति ।

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६२ घातितैः पातितैर्नष्टैर्जायते गृहिणो ध्रुवम् । व्याधिदारिद्र्यदुःखार्तिर्निधनत्वं च जायते ॥ १३५ ॥ उच्चच्छायं छिद्रगर्भ भ्रमितं वमितं मुखे । हीनमध्यं नष्टसूत्रं³ शल्यविद्धं शिरोगुरु ॥ १३६ ॥ भ्रष्टाळिन्दकशोभं च विषमस्थं तुलार्ततलं । अन्योन्यद्रव्यविद्धं च कूँपदप्रविभाजितम् ॥ १३७ ॥ हीनभित्त्युत्तमाङ्गं च विनष्टं स्तम्भभित्तिकम् । भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥ १३८ ॥ विकृतं च गृहं भर्तुरनिष्टफलदायकम् । तस्माद् दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥ १३९ ॥ एवंविधं दोषकरं गृहं स्याद् भर्तुश्च कर्तुश्च यतस्तदेते । ज्ञेयाः सदा शिल्पिवरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्त्तिकांमैः ॥ १४० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ॥ अथ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । त्रिदशानां नृपाणां च वर्णिनां च विशेषतः । उत्पत्तिप्रसृतिं ब्रूमः प्रासादा यस्य ये मताः ॥ १ ॥ पुरा ब्रह्मासृजत् पञ्च विमानान्यासुरद्विषाम् । वियद्वर्त्मविचारीणि श्रीमन्ति च महान्ति च ॥ २ ॥ तानि वैराजकैलासे पुष्पकं मणिकाभिधम् । हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥ ३ ॥ १ द. ˚र्त्ति तु व्यंचत्वं । २ ख. ग. द. नि । ३ क. त्रं स्वश । ४ द. त्यं । ५ क. सि । ६ क. तु । ७ ख. ग. चतुष्षहप्रतिभा; द. जतुः पद प्रतिभा˚ । ८ द. स्यु । ९ द. य । १० द. प्रकीर्त्तितामेः । ११ द. अपलक्षणो नामाष्टचत्वारिंशोध्यायः ॥छ॥ १२ द. र्त्ति । १३ द. सी ।