समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 328, कुल 726 में से
संदर्भ में पढ़ेंगृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । २६३ अन्यवास्तुच्युतं द्रव्यमन्यवास्तौ न योजयेत् । प्रासादे न भवेत् पूजा गृहे च न वसेद् गृही ॥ ६३ ॥ द्रव्येण देवदग्धेन भवनं यद् विधीयते । न तत्र वसति स्वामी वसन्नपि विनश्यति ॥ ६४ ॥ सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता । द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥ ६५ ॥ प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता । त्रिपञ्चसप्तमी भर्तुर्गृहदारा न शोभना ॥ ६६ ॥ निम्नोनतं करालं च सम्मुखं पृष्ठदेशगम् । वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥ ६७ ॥ निम्ने स्यात् स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते । सम्मुखे सुतपीडा स्यात् पृष्ठगे चपलाः स्त्रियः ६८ ॥ वामे वित्तक्षयो द्वारि(रे)भवत्यग्रतरे प्रभोः । द्वारं तस्मान्न कर्तव्यमीहग्रूपं विचक्षणैः ॥ ६९ ॥ नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः । द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥ ७० ॥ इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम् । निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥ ७१ ॥ यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च । भीषणानी च यानि स्युर्न कुर्यात् तानि वेश्मसु ॥ ७२ ॥ स्वयमुद्घाटितं द्वारमुच्चाटनकरं भवेत् । धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥ ७३ ॥ स्वयं यत् पिहितं द्वारं तद् भवेद् बहुदुःखदम् । सशब्दं भयकृत् पादशैथिलं गर्भपातनम् ॥ ७४ ॥ १ क. ख. स्तुनि यो; द. वास्तु नियो˚ । २ द. ती । ३ द. ˚वो । ४ द. ˚यां । ५ द. न्सु˚ । ६ द. पृष्ठं त्वे च˚ । ७ द. ˚परि रक्षणैः ॥ ८ द. ˚व्यं । ९ द. काः । १० द. च । ११ द. द्वा˚ । १२ द. वृद्ध˚ । १३ द. पिहति । १४ द. पात˚ । १५ द. स्य ।