समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 364, कुल 726 में से
संदर्भ में पढ़ेंप्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः। २९९ लुमान्तरेषु सर्वेषु वैर्कटेयेन घुषीकृतम् । तयोरन्तरयोर्मध्ये लुमामूले विकर्करम् ॥ ३५ ॥ द्विगुणं त्रिगुणं वा स्यात् ततश्च वलिनीं लिखेत् । व्यासार्धेनोदयश्चेह कर्तव्यस्तत्र मण्डले ॥ ३६ ॥ सम्पातात् तलसूत्राणां तुम्बिका चोर्ध्वसूत्रिता । उदयस्तलसूत्रस्य तुम्बिकायास्तथान्तरम् ॥ ३७ ॥ पूर्वसूत्रे लुमाग्रेषु कण्टकान् कल्पयेद् ऋजून् । बहिस्थानेषु चान्तेषु लक्षं कुर्यात् सुनिश्चितम् ॥ ३८ ॥ लक्षं गृहीत्वाधःसूत्र ऊर्ध्वसूत्राणि लक्षयेत् । उदये कण्टकस्यान्ते तद्भूदेवानुसन्ततम् ॥ ३९ ॥ दापयेदुत्तरं सूत्रं लुमानां खल्वकानि च । पिण्डव्यासं वलीनां चाप्येषु क्षोभणविस्तृती ॥ ४० ॥ लुमा कर्णगता या स्यादोध्माता सा प्रकीर्तिता । छेदे प्रवर्तितान्या स्यात् किञ्चिदूना मनोरमा ॥ ४१ ॥ कोला तृतीया शान्तेति चतुर्थी परिकीर्तिता । हेलाख्या पञ्चमी षष्ठी लम्बिनी नामतो लुमा ॥ ४२ ॥ सप्तमी तुम्बिनीत्येता मार्गसूत्रविनिर्गताः । एताभिः कारयेत् कोलं वितानं नयनोत्सवम् ॥ ४३ ॥ कोलाविलं हस्तितोलु चाष्टपत्रं शरावकम् । नागवीथीवितानं च पुष्पकं अमरावली ॥ ४४ ॥ हंसपक्षं करालं च विकटं शङ्ककुट्टिमम् । शङ्खनाभिः सपुष्पं च शुक्तिवृ(वृं)त्तकमेव च ॥ ४५ ॥ १ ख. काद्येन । २ द. संयाता चल° । ३ ख. द. रुचिका । ४ ख. द. मू। ५ द. रुचिकाया° । ६ क. त्रेषुमाग्र । ७ ख. बले गृ । ८ द. ना । ९ ख. द. ल्वि । १० द. द । ११ द. ताः । १२ ख. र्तिन्य + स्याः; द. प्रवर्तिन्यस्याः किं° । १३ द. माः । १४ द. ताः । १५ ख. तस्तुला । द. °तस्तुला । १६ ख. का; द. °ये का° । १७ द. °स्त° । १८ द. ती । १९ क. मु ।