समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 365, कुल 726 में से
संदर्भ में पढ़ें३०० समराङ्गणसूत्रधारे । मन्दारं कुमुदं पद्मं विकासं गरुडप्रभम् । पुरोहतं पुरारोहं विद्युन्मन्दारकं तथा ॥ ४६ ॥ एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः । एतेषां रूपनिर्माणमधुना संप्रचक्ष्महे ॥ ४७ ॥ समन्ताचतुरश्रे च चतुरश्रायतेऽथवा । क्षेत्रे वृत्तीकृते नाभ्यैकया तत् कोलमुच्यते ॥ ४८ ॥ चतुरश्रे यदा क्षेत्रे कर्णस्थानेषु कृत्स्नशः । चतुरश्रनिबन्धेन चतुरश्रनिबन्धने ॥ ४९ ॥ ३वैलिनी विकटाकारा पूर्वं४ वृत्तान्यधस्तथा । भ्रमवृत्तं च यन्मध्ये परं तत्रापरा लुमाः ॥ ५० ॥ क्रियन्ते६ तुम्बिकाः पञ्च यत्र सुंस्थाः सुसंवृताः । मार्ग(?)स्तलेऽधःसूत्रस्य तद् भवेन्नयनोत्सवम् ॥ ५१ ॥ कोलाविलं१० समे क्षेत्रे११ भागाष्टकविभाजिते । मध्ये द्विभागे विलिखेद् वृत्तं तुम्बिकयान्विते ॥ ५२ ॥ तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत् । ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥ ५३ ॥ यानि शेषाणि सूत्राणि वलिनीस्ताः प्र१२कल्पयेत् । तुम्बिन्त्यां कारयेद् वृत्तं गजतालुकमुच्यते ॥ ५४ ॥ अष्टपत्रे चतुष्षष्टिर्भागं१३ क्षेत्रं प्रकल्पयेत् । लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥ ५५ ॥ सम्पातेषु समस्तेषु तुम्बिकाः सन्निवेशयेत् । वृत्ताकारं शरावं स्याद् विन्यासं च धरैश्च तत् ॥ ५६ ॥ चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते । निवेशयेन्नागबन्धं§ सम्पाते वलिसूत्रयोः ॥ ५७ ॥ १ द. स्रा । २ क. मै । ३ क. वा । ४ क. र्वीं ; द. र्वा ५. द. नाः । ६ द. रु । ७ द. स्व । ८ ख. द. स्व । ९ ख. स्थिता । १० द. ल । ११ द. त्रं । १२ द. प्रचक्ष्महे । १३ द. ग । १४ ख. त्व । १५ द. व । १६ द. न्धान् । § नागवीथीति लक्ष्ये पठितम् ।