भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

३०० समराङ्गणसूत्रधारे । मन्दारं कुमुदं पद्मं विकासं गरुडप्रभम् । पुरोहतं पुरारोहं विद्युन्मन्दारकं तथा ॥ ४६ ॥ एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः । एतेषां रूपनिर्माणमधुना संप्रचक्ष्महे ॥ ४७ ॥ समन्ताचतुरश्रे च चतुरश्रायतेऽथवा । क्षेत्रे वृत्तीकृते नाभ्यैकया तत् कोलमुच्यते ॥ ४८ ॥ चतुरश्रे यदा क्षेत्रे कर्णस्थानेषु कृत्स्नशः । चतुरश्रनिबन्धेन चतुरश्रनिबन्धने ॥ ४९ ॥ ३वैलिनी विकटाकारा पूर्वं४ वृत्तान्यधस्तथा । भ्रमवृत्तं च यन्मध्ये परं तत्रापरा लुमाः ॥ ५० ॥ क्रियन्ते६ तुम्बिकाः पञ्च यत्र सुंस्थाः सुसंवृताः । मार्ग(?)स्तलेऽधःसूत्रस्य तद् भवेन्नयनोत्सवम् ॥ ५१ ॥ कोलाविलं१० समे क्षेत्रे११ भागाष्टकविभाजिते । मध्ये द्विभागे विलिखेद् वृत्तं तुम्बिकयान्विते ॥ ५२ ॥ तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत् । ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥ ५३ ॥ यानि शेषाणि सूत्राणि वलिनीस्ताः प्र१२कल्पयेत् । तुम्बिन्त्यां कारयेद् वृत्तं गजतालुकमुच्यते ॥ ५४ ॥ अष्टपत्रे चतुष्षष्टिर्भागं१३ क्षेत्रं प्रकल्पयेत् । लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥ ५५ ॥ सम्पातेषु समस्तेषु तुम्बिकाः सन्निवेशयेत् । वृत्ताकारं शरावं स्याद् विन्यासं च धरैश्च तत् ॥ ५६ ॥ चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते । निवेशयेन्नागबन्धं§ सम्पाते वलिसूत्रयोः ॥ ५७ ॥ १ द. स्रा । २ क. मै । ३ क. वा । ४ क. र्वीं ; द. र्वा ५. द. नाः । ६ द. रु । ७ द. स्व । ८ ख. द. स्व । ९ ख. स्थिता । १० द. ल । ११ द. त्रं । १२ द. प्रचक्ष्महे । १३ द. ग । १४ ख. त्व । १५ द. व । १६ द. न्धान् । § नागवीथीति लक्ष्ये पठितम् ।

प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०१ वितानमेतत्$^१$ कथितं यश्चिकीर्षति मानवः$^२$ । ऊर्ध्वतिर्यग्गतैर्नालैः क्रियते यन्निरन्तरम् ॥ ५८ ॥ पुष्पमालाकुलं श्रीमत्$^३$ पुष्पकं तदुदाहृतम् । अशोकपल्लवाकीर्णलुमाम्रैर्म्मनिवन्धनम्$^४$ ॥ ५९ ॥ चतुरश्रक्रियायुक्तं सा प्रोक्ता अमरावली । आध्माता कर्णमायाता तुम्बिकास्थानसंश्रया ॥ ६० ॥ तुम्बिनी यन्न मध्ये तु हंसपक्षं तदुच्यते । अस्यैव पक्षे तु यदा सम्बध्येत मनोरमां$^५$ ॥ ६१ ॥ तुम्बिनी च विपक्षेषु करालं तदुदाहृतम् । कोला लुमा स्याद् विकटे शङ्खे शान्ता प्रकीर्तिता$^६$ ॥ ६२ ॥ शङ्खनाभिसमं सूत्रं तुम्बिकायाः प्रवर्तते । सर्वेष्वपि $^७$लुमास्थानेष्वेकररेखान्वितं भवेत् ॥ ६३ ॥ शङ्खनाभिरिति प्रोक्तं वितानमिदमुत्तमम् । एतस्यैव लुमास्थाने तुम्बिका पद्मकावृता$^८$ ॥ ६४ ॥ वलयैर्भूषिता यत् स्यात् सपुष्पमिति तद् विदुः । क्षेत्रे वृत्तायताकारे कारयेच्छुक्तिसंज्ञकम् ॥ ६५ ॥ वृत्ताकारे भवेत् क्षेत्रे वृत्तं वलयकर्मणा । चतुरश्रे समे क्षेत्रे यल्लुमार्थलुमंर्धते( तः ) ॥ ६६ ॥ वृत्तक्षोभणभङ्गानि तन्मन्दारकमुच्यते । कुमुदं कुमुदस्येव लुमाक्षेपा$^९$दिहार्धतः$^{१०}$$^{११}$ ॥ ६७ ॥ पद्मके स्यादधैःक्षिप्ता विकासे मध्यमा लुमा । गरुडे गरुडो मध्ये नागाभरणशोभितः ॥ ६८ ॥ $\dagger$पुरोगतं तद् यदधो गत्वा स्यादूर्ध्वगं$^{१२}$ पुनः । अधो गत्वा पुरारोहमूर्ध्वमूर्ध्वं ततोप्यधः ॥ ६९ ॥


१ द. न । २ ख. द. ˚ति नामतः । ३ द. श्रीमान् । ४ क. स । ५ द. माः । ६ द. ताः । ७ द. रु˚। ८ द. ताः । ९ द. मा । १० ख. द. त्रा । ११ द. धि । १२ द. ख. दूर्धगतं पु˚। $\dagger$पुरोहतमिति तु लक्ष्ये पठितम् ।

३०२ समराङ्गणसूत्रधारे विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः । अष्टभिश्चाश्रिभिर्मध्ये विगुणन्मन्दारकं भवेत् ॥ ७० ॥ मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम् । अर्धेनच्छाद्यविस्तारस्योर्ध्वं वंशं प्रकल्पयेत् ॥ ७१ ॥ अयमर्धोदयः प्रोक्त आवन्त्यो^१ नामतः परः । त्र्यंशेनच्छाद्यविस्तारस्योदयो^२ वामनो भवेत् ॥ ७२ ॥ वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत् । भागोत्तरोदयात्^३ तेऽष्टौ वामनादुदयाः स्मृताः ॥ ७३ ॥ वा(आ)तपत्रोऽथ कौबेरः स(श)^४र्मनारख्यस्तथावली । हंसपृष्ठो महाभोगी नारदः ^५शैम्बुकस्तथा ॥ ७४ ॥ वामनः प्रथमस्तेषामावर्न्त्योते^६(न्त्येन) दशोत्यमी । च्छायानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ॥ ७५ ॥ तलसूत्रसमं कृत्वा कुर्याद् द्वादशधोदयम् । षष्ठादारभ्य भागाँत्^७ स्युः सप्त भागोत्तरोदयाः ॥ ७६ ॥ कुबेरशेखरी चन्द्री नागश्चातु(थ) गणाधिपः । मुख्यश्चाच्छः सुभद्रश्च वृत्ते सप्तोदयाः स्मृताः ॥ ७७ ॥ कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत् ततः । भागार्धमधिकं क्षेत्रं^८ भवेच्छाद्यकवर्तना ॥ ७८ ॥ भागार्धवर्धिते क्षेत्रे तलसूत्रक्रमान्विते । लुमामायां लिखेद् भूयः षट् क्रमेणानुसन्ततम् ॥ ७९ ॥ रिक्षा यथाद्विहस्ताय(?) लुमायाः स्यादनन्तरम् । लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ॥ ८० ॥ तस्याश्चानन्तरा लक्ष्म्या सार्धं वृद्धाङ्गुल^११त्रयम् (?) त्र्यंशोनैः षड्भिरपरा त्र्यंशोनैर्दशभिः परा ॥ ८१ ॥ १ द. ॰त्या । २ क. स्योदयस्यव्यसनो (?) ३ द. ॰ष्टौ च । ४ ख. द. समानाख्य॰ । ५ द. ॰दस्यम्बुका॰ । ६ क. न्त्यौते । ७ ख. द. गाः । ८ क. रञ्चायः । ९ त्रादृ भ । १० थामं- भरायक्ष्म्या सा । ११ ख. द. लं द्वयम् ।

प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०३ चतुर्दशभिरन्या स्यात् सार्धैर्वृद्धा ततोऽङ्गुलैः । विंशत्यङ्गुलवृद्धा तु सप्तमी कोणसंश्रिता ॥ ८२ ॥ क्रमेणानेन मानानि लुमानां वृद्धिह्रासयोः । अनुपातेन कार्याणि च्छाद्यक्षेत्रानुसारतः ॥ ८३ ॥ † कुबेरवल्लरीचन्द्रीपन्नगा गणनायकैः । § मुग्धा सुभद्रेत्येताः स्युर्लुमाकर्मार्धमादितः ॥ ८४ ॥ एतासां गण्डिकाछेदाश्चत्वारः परिकीर्तिताः । ऊर्ध्वस्तिर्यग्( ग )तिस्र्यंशस्तथार्थत्र्यंश एव च ॥ ८५ ॥ छाद्यकोदयविस्तारं तन्निर्गमसमायति । कृत्वा षोढा भजेत् क्षेत्रं विस्तारायामतः समम् ॥ ८६ ॥ तत्रोर्ध्वद्वयमानेनच्छिन्द्यात् प्रागेव गण्डिकाम् । तस्यां छेदानुसारेण दापयेदेव लम्बकम् ॥ ८७ ॥ अधस्ताद् गण्डिकायाश्च कण्टकानि प्रकल्पयेत् । अवपातोच्छ्रयौ ज्ञात्वा त्रीणि स्थानानि चिह्नयेत् ॥ ८८ ॥ गर्भे तथोर्ध्वे प्रान्ते च तृतीयं मध्यतस्तयोः । यत्र स्थाने स्थितं सूत्रं स्पृशति स्थानकत्रये ॥ ८९ ॥ तस्मात् प्रसार्य तत्सूत्रं भ्रमयेत् कर्कटं ततः । लुमार्थस्यैवमुपरि संस्थानमुपजायते ॥ ९० ॥ उपरि स्थितेन सूत्रेण तत्तुल्येनैव कर्कटम् । प्रान्तावलम्बकस्थाने भ्रमयेत् खल्वसिद्धये ॥ ९१ ॥ प्रागक्षे भागयुगलावच्छिन्नं फलके पुनः । कल्पयेत् सममेवैषा लुमापार्ष्णिनिर्गद्यते ॥ ९२ ॥


१ ख. द. ˚द्धां । २ क. द. ताः । ३ क. ˚न नामानि । ४ ख. द. न्द्रा । ५ द. काः । ६ क. स । ७ ख. गा । ८ द. दाययेद् । ९ द. ˚यो˚ । १० द. त । ११ द. प्रा । १२ ख. द. प्राक्क्षेत्रे भा । † ‘कुबेरशेखरी’ति पूर्वं पठितम् । § ‘मुख्य’ इति पूर्वं पश्यते । तदनन्तरं च ‘ अच्छ’ इति नामान्तरमपि तत्र दृश्यते ।

शेषां लुमां तु दीर्घांशैश्चतुर्भिः प्रविभाजयेत् । चतुर्घातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥ ९३ ॥ अर्धोदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः । मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥ ९४ ॥ अधःक्षेत्रे स विस्तारात् सूत्रमालम्ब्य तद्यथा । विस्तारात् सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ॥ ९५ ॥ लुमाग्रेभागत्र्यंशं च तयोर्मध्यं च यत् स्थितम् । सूत्रं स्पृशेत् तत्र धृत्वा कर्कटं भ्रमयेद् बुधः ॥ ९६ ॥ भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि । गण्डिकासु विधातव्यं विधिवद् वृत्तवर्तनम् ॥ ९७ ॥ मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा । पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥ ९८ ॥ संपतत्येवमालिख्य शेषं पूर्ववदाचरेत् लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥ ९९ ॥ पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा । संपतत्येवमालिख्य षड्भागैः शेषमाचरेत् ॥ १०० ॥ नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः । पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ॥ १०१ ॥ शेषैः षड्भिस्ततो भागैरन्यत् तु प्राग्वदाचरेत् । भागार्धं निर्गमः कार्यः प्रासादानां कनीयसाम् ॥ १०२ ॥ छाद्यकस्यैव भागैस्तु ज्यायसां निर्गमो यतः । तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः ॥ १०३ ॥ छाद्यस्य निर्गमः कार्यों विद्भिरनुपाततः । निर्गमस्य त्रिभागेन कनीयाञ् छाद्यकोदयः ॥ १०४ ॥

१ ख. द. मायता । २ ख. र्ध; द. र्द्ध । ३ ख. ध्यं यतः स्थितम् । ४ द. त्ति । ५ ख. लानुमा; द. ०नु । ६ क. गः स्युर्निर्गमोक्षायसां मतम् (?)।

प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०३ अर्धभागेन परमो भाव्यं षड्भिस्तदन्तरम् । अन्ये भागोत्तराः पञ्च सप्तैव मुदया मताः ॥ १०५ ॥ इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् । छाद्यो¹दयोदयः स स्याद् दशभिस्तं विभजयेत् ॥ १०६ ॥ तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः । ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शङ्कुं निवेशयेत् ॥ १०७ ॥ चतुर²श्रीकृते क्षेत्रे कर्णेनारभ्य शङ्कुतः । ततो वृत्तं लिखेत् पश्चाच्छङ्कुं समभिरोपयेत् ॥ १०८ ॥ ऊर्ध्वदेशांत् तु भागेन स स्याद् भागचतुष्टये । लिखेद् वृत्तं त्रिभागोनद्व्यंशकर्कट³कोद्भव⁴म् ॥ १०९ ॥ तस्योपरिष्टात् तदनु ग्रीवा कार्यैकभागिनी । गर्भे शृङ्गाग्रयोर्मध्ये⁵ तिर्यग् भागद्वयं भवेत् ॥ ११० ॥ मध्ये कर्णाग्रयोस्तिर्यक् कार्यं भागत्रयं बुधैः । ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ॥ १११ ॥ शिखाग्रमुपरिष्टाच्च कर्तव्यं गर्भसङ्गतम् । शिखार्यमूर्ध्वतस्तद्वदर्धभागांवलम्बितम् ॥ ११२ ॥ भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु । स्यात् कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ॥ ११३ ॥ स्वस्तिको¹⁰ द्व्यंशविस्तारायामः प्राग्वृत्तमध्यतः¹¹ । एवं शङ्कुमधःसूत्रादूर्ध्वं भागो¹²(गे) निवेशयेत् ॥ ११४ ॥ भागे निवेशितं कुर्यात् पूर्ववृत्तोद्य¹³शेषतः । स्वस्तिकान्तं चै¹⁴ पूर्वोक्तं पूर्ववत् सर्व¹⁵माचरेत् ॥ ११५ ॥ १ द. यो । २ ख. अंशिकक्षे; द. ॰अंशिकक्षेत्रे । ३ ख. शौ त्रिभागोनैः स; द. ॰शो त्रिभागोनैः सं° । ४ ख. द. य । ५ ख. कैः । ६ ख. द. ॰ध्यं । ७ द. य । ८ ख. र्ध; द. ॰र्द्धं° । ९ ख. द. ग । १० ख. द. कस्कन्ववि । ११ द. ख. मः । १२ ख. द. गर्भ नि° । १३ क. त्या । १४ ख. द. तु । १५ ख. द. मुपा । बा. ३९

३०६ समराङ्गणसूत्रधारे तलसूत्रादुपर्यंशैश्चतुर्भिर्गर्भतः समः( मम् ) द्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥ ११६ ॥ भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः । चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥ ११७ ॥ वृत्ताद्धानि लिखेदेककर्णयुक्तानि पूर्ववत् । एकशृङ्गाणि च ग्रीवास्वस्तिकार्धयुतानि च ॥ ११८ ॥ तलसूत्रबहिर्देशाद् बाह्यवृत्तसमुद्भवः२ । पदत्रयप्रविष्टैः स्यात् पार्ष्णिरत्र पॅरिस्फुटः ॥ ११९ ॥ त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः । दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥ १२० ॥ चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत् । दशभागोच्छ्रिते प्राग्वत् स्यात् त्रयोदशविस्तृतः ॥ १२१ ॥ क्षेत्न एकवलिर्नाम सिंहकर्णस्तथापरः । एते शोभान्विताः कार्यास्त्र्यश्रसंवरणाश्रयः ॥ १२२ ॥ प्रासादानामिति निगदितं द्वारमानं निवेशः५ स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाश्च । वृत्तच्छाद्योच्छ्रितिरभिहिता छाद्यसंस्था लुमाश्च प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥ १२३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादद्वारस्तम्भनिवेशवितानलुमालक्षणवृत्तच्छाद्यलुमासिंहकर्णप्रमाणं नाम चतुष्पञ्चाशोऽध्यायः ॥ १ क. द्वे । २ द. वाः । ३ क. ष्टा । ४ क. पुरः स्फु । ५ द. शं ।

मेर्वादिवोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३०७ अथ मेर्वादिवोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । प्रासादानाम्नतो लक्ष्म षोडशानां विशेषतः । ज्येष्ठमध्यकनिष्ठानां यथावदभिदध्महे ॥ १ ॥ विभज्यते यथां¹ येन प्रागश्चोर्ध्वं विधीयते( ? ) । यावदूं² यस्य प्रमाणं तुं³ नथा⁴ तत् तस्य कथ्यते ॥ २ ॥ मेरुः प्रासादराजश्च कैलासश्च हरॅ⁵प्रियः । सर्वतोभद्रकश्चैव विमानच्छदनन्दनौ ॥ ३ ॥ स्वस्तिको मुक्तकोणश्च श्रीवत्सो हंससंज्ञितः । रुचको वर्धमानश्च गरुडैश्च गजस्तथा ॥ ४ ॥ मृगराजश्च पद्मश्च वलभी ⁶चेति ते स्मृताः । न त्रयस्त्रिंशतोऽधस्तान्नापि पञ्चाशतः परा ॥ ५ ॥ सङ्ख्या भवति हस्तानां मेरोरिति पुराविदः । विभज्य दशधा क्षेत्रं शृङ्गं कुर्याद् द्विभागिकम् ॥ ६ ॥ कृत्वा षड्भागिकं मध्यं निर्गमस्तत्र दीयते । भागस्य षोडशांशेन विधेयं सलिलान्तरम् ॥ ७ ॥ पदैः षोडशभिर्गर्भे विधेया चास्य विस्तृतिः । प्रासादभित्ति( ः)पद्किका पदविस्तृतं⁷मन्तरम्( ? ) ॥ ८ ॥ ⁸पद्किका बाह्यभित्तिः स्यादित्येष स तदा॑⁹ स्मृतः । द्विपदो वेदिकाबन्धो जङ्घा पञ्चपदोदया ॥ ९ ॥ पदार्धेन पदार्धेन मेखलान्तरपत्रके । ¹⁰शृङ्गोच्छ्रितिस्त्रिभिर्भागैर्नवभिः शिखरोच्छ्रितिः ॥ १० ॥ शिखरस्यास्य कर्तव्यास्तज्जैः षोडश भूमिकाः । स्कन्धोऽशैर्र्विस्तृतः षड्भिरंशेनोच्छ्रितमण्डकम् ॥ ११ ॥ १ क. था प्रायः प्रापे चोर्वे वि (?)। २ क. दस्य। ३ क. च। ४ क. रि। ५ क. डो गरुडम्त । ६ द. वे। ७ द. ति। ८ क. वाटिका। ९ द. धा। १० क. त्रिभागोच्छ्रि ।

३०८ समराङ्गणसूत्रधारे ग्रीवा वंशोच्छ्रिता कार्या शिखरस्यादिविस्तृतौ । षड्गुणेनैव¹ सूत्रेण वेणुकोशं समालिखेत् ॥ १२ ॥ विस्तृतेरपि² भद्रायाः कुर्याद् द्विगुणमुच्छ्रयम् । कुम्भं भागेन कुर्वीत प्रासादेष्वखिलेष्वपि ॥ १३ ॥ एवमेष चतुःशृङ्गश्रतुर्द्वारोपशोभितः । मेरुर्मेरुरूपमः कार्यो वाञ्छता शुभमात्मनः ॥ १४ ॥ सर्वस्वर्णमयं मेरुं यद् दत्त्वा पुण्यमाप्नुयात् । तमिष्टकाशैलमयं कृत्वा तदधिकं³ भजेत् ॥ १५ ॥ मेरुः ॥ चतुरश्रीकृते क्षेत्रे सप्तविंशतिपाणिकम् । दशधा विभजेत् स स्यात् कैलासः पुण्यवर्धनः ॥ १६ ॥ ब्रह्मकोष्ठगतो गर्भः शेषं भित्त्यन्धकारिका । चतुर्भागं भवेद् भद्रं मूलकर्णौ त्रिभागिकौ ॥ १७ ॥ सप्तभागोच्छ्रिता जङ्घा मेखला चार्धभागिका । भागेनान्तरपत्रं स्याद् ⁴भागेनाण्डकसमुच्छ्रितम् ॥ १८ ॥ ग्रीवार्धभागमुत्सेधाच्छिखरं दशकोच्छ्रितम् । अर्धषष्ठांशविस्तारः स्कन्धः कैलाससंज्ञिते ॥ १९ ॥ अस्मिन्नन्तरपत्रे तु सूत्रं दत्त्वा सुताडितम् । त्रिगुणेन लिखेत् तेन वेणुकोशं मनोरमम् ॥ २० ॥ अष्टभूम्युच्छ्रयः श्रीमान् मञ्जर्या च विराजितः । उच्छ्रयश्चास्य कर्तव्यो द्विगुणः श्रियमिच्छता ॥ २१ ॥ कार्यं षड्भूमिकं चास्य भद्रं भागार्धनिर्गतम् । पातः सिंहकर्णैस्स्थुः(?) समाप्तिर्नायकेन च ॥ २२ ॥ कैलास एष कथितो विशेषेण हरप्रियः । कैलासः ॥

१ क. षड्गणा तेनु सू। २ द. न। ३ द. प। ४ द. त्रिव। ५ क. पदत्वात् मु। ६ द. पं। ७ क. वे। ८ क. र्ध। ९ द. र्णा।

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३०९ इदानीं सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥ २३ ॥ स स्यात् षड्विंशतिं हस्तान् परमः परिमाणतः । जठरं बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥ २४ ॥ जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा स्मृताः । तथैव भद्रविस्तारैः कार्यो भागार्धनिर्गतः ॥ २५ ॥ रथिकैका चतुर्भागा ततेः सार्धद्विभागिका$^३$। तासां परस्परं ज्ञेयो$^४$ भागभागं विधीयते(?) ॥ २६ ॥ षड्भागात् विस्तृतं कार्य शिखरं सप्तमो$^६$च्छ्रितम् । षड्भिर्दशभिर्भागैः स्यान्मूलजा स्कन्धविस्तृतिः( ? ) ॥ २७ ॥ ग्रीवार्धभागमुत्सेधाद्दण्डकं भागमुच्छ्रितम् । मूलसूत्रानुसारेण छेदः संयुज्यते यथा ॥ २८ ॥ अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी$^७$ मेरोरस्य च शृङ्गाणि सिंहकर्णैर्विभूषयेत् ॥ २९ ॥ मञ्जरीं पद्मकोशाग्रतुल्यां सर्वत्र कारयेत् । जयं लक्ष्मीं यशः कीर्त्तिं सर्वानि(णी)ष्टफलानि च ॥ ३० ॥ करोति सर्वतो भद्रं सर्वतोभद्रकः कृतः । सर्वतोभद्रः ॥ चतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥ ३१ ॥ विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् । भद्रैश्चतुर्भिसतत् कुर्यात् कर्णप्राग्रीवकैस्तथा ॥ ३२ ॥ पञ्चभूमिर्भवत्येष यदि वा त्रिविधं भवेत् । हस्ताँ$^{११}$स्त्रिंशद् भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ॥ ३३ ॥ स्यादेकविंशतिर्हस्तात् कनीयान् षोडशाथवा । जातिशुद्धो भवेदेको मञ्जर्या वै$^{१२}$ परो भवेत् ॥ ३४ ॥


१ क. र्या । २ द. त् । ३ ख. द. काः । ४ क. यो भागं । ५ द. स्तृ° । ६ ख. वो, द. यो । ७ क. र्वाः, ८ क. नीः । ९ द. कर्णौ वि° । १० द. श्रो । ११ द. स्त । १२ द. च ।

३१० समराङ्गणसूत्रधारे मिश्रकोऽन्यो विमानानामिति संख्या त्रिधोदिता । ज्येष्ठो मिश्रकनिर्माणः स च कौ१लाशभद्रकृत् ( ? ) ॥ ३५ ॥ मध्यमो जातिशुद्धः स्यात् कनीयान् मञ्जरीयुतः । पञ्चभागयुतं भद्रं विस्तरेण प्रकीर्तितम् ॥ ३६ ॥ कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः । भागार्धं क्षोभणे४ कार्यं तलिपं तज्जलान्तरं( ? ) ॥ ३७ ॥ गुप्तकर्णं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम् । तस्माद् भद्रस्य निष्कंशं( ? ) भागेनैकेन कारयेत् ॥ ३८ ॥ मिश्रकस्य चतुर्भागं भद्रं कुर्याद् विचक्षणः । पञ्चभागोच्छ्रिता जङ्घा खुरपिण्डकया सह ॥ ३९ ॥ द्विभा(गा) रथिका कार्या भूमिः स्याच्चतुरंशका७ । द्वितीयार्धांशहीना च तृतीया भूमिरिष्यते ॥ ४० ॥ चतुर्थ्य(र्थी) तु त्रिभिर्भागैरर्धहीना तु पञ्चमी । उदयो भूमिकाया यः कूटं कुर्यात् तदर्धतः ॥ ४१ ॥ अर्धेन कु८म्भिकां कुर्यादुच्छ्रालंकसमन्विताम् । ऊँ१०र्ध्वभवस्तु( ? ) पञ्चम्या वेदिका भागमुच्छ्रिता ॥ ४२ ॥ घण्टा षड्भागविस्तारा कार्या भागद्वयोच्छ्रितां११ । घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तदनन्तरम् ॥ ४३ ॥ भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च । भागं कण्ठप्रदेशैः१२ स्याद् दै१३ण्डिकायाः समुच्छ्रितिः ॥ ४४ ॥ घण्टार्धेन विधातव्या द्विभागा कलशोच्छ्रितिः । सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत् तथा ॥ ४५ ॥ भद्रं मनोरमैश्चेह सिंहकर्णैर्विभूषयेत् । पञ्च१४न्यासेन सूत्रेण पद्मकोशं समालिखेत् ॥ ४६ ॥


१ द. कै । २ द. व । ३ द. वितः । ४ द. णा कार्या यच्छेषं तद् जलांतरम् ॥ ५ द. दी । ६ द. ष्का, ७ द. काः, ८ द. स्त° । ९ द. त्का । १० द. ऊर्ध्वं भवतु । ११ द. ताः । १२ द. शाः । १३ द. च्चद्रि । १४ द. न्या ।

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३११ लतांतयो(?)भवेदेषां लताभिस्तं प्रकल्पयेत् । मिश्रको मिश्रितैरङ्गैः शुद्धः स्याद् भूमिकान्वितः ॥ ४७ ॥ विमानः .। नन्दनस्य भवेत् सीमा द्वात्रिंशद्धस्तनिर्मितैः । अष्टाष्टकविभागेन चतुःषष्टिपदो हि सः ॥ ४८ ॥ भागैश्चतुर्भिर्गर्भोऽस्य शेषं भित्त्यन्धकारिकौ । भद्रं गर्भसमं कार्यं तदूर्ध्वेनास्य निर्गमः ॥ ४९ ॥ द्वौ रथौ पार्श्वतो भूयः सर्वतः कर्णसूत्रतः । पञ्चभागोच्छ्रिता जङ्घा मेखला भागसंमितौ ॥ ५० ॥ षड्भ(भू)मिरेष भूमिः स्यादेकैका द्वादशांशकैः । रेखास्कन्धाण्डकादीनां कैलासे(न) समाकृतिः ॥ ५१ ॥ नन्दनो नन्दयत्येष समृद्ध्या(द्वया) हन्ति चापदः । नन्दनः ॥ चतुरश्रीकृते क्षेत्रे पञ्चविं(शनि) हस्तके ॥ ५२ ॥ सूत्रपातं ततः कुर्यात् कर्मोयतमुखायतम्(?) । ततः सीमार्थसूत्रेण सम्यग् वृत्तं समालिखेत् ॥ ५३ ॥ ततस्तदष्टाविंशत्या भजेद् भागैर्यथापदम् । निर्मापये शालार्धेन(त् तदर्धेन शाला)दिक्सूत्रसंश्रिताः ॥ ५४ ॥ तासां तु मध्यगाः कार्या एकैकस्य रथास्त्रयः । अन्ये चार्थरथाः कार्याः शालाकर्णसमाश्रिताः ॥ ५५ ॥ भागषट्कोच्छ्रिता जङ्घा भागार्धेन तु मेखलाः । भागेनान्तरपत्रं स्याद् भागं चोदुवृत्तमण्डकम् ॥ ५६ ॥ अर्धभागोच्छ्रिताँ जीवा विष्कम्भेन चतुष्पदाम्(?) । शिखरस्योच्छ्रयो भागैरेकादशभिरिष्यते ॥ ५७ ॥ १ द. तु(त्र)। २ द. विस्तृता । ३ द. काः। ४ द. ताः । ५ द. ˚डकाः। ६ द. ˚न्धांश˚। ७ द. ˚र्णा । ८ द. ˚त्ततः शालाः कर्ण˚ । ९ द. प. । १० द. चोच्छ्रितमंडपं ॥ ५० ॥ ११ द. तो । १२ द. दाः ।

३१२ समराङ्गणसूत्रधारे सर्वेषामेव लतिना १मात्रिधा द्विगुणो हि सः (?) । विस्ताराद्२ द्विगुणं सूत्रं स्कन्धाद्यं ३चापि षड्गुणम् ॥ ५८ ॥ सुत्तानितं(?) समाकृष्य पद्मकोशं समालिखेत् । स पञ्चविंशतिर्हस्ता ज्येष्ठः षोडश मध्यमः ॥ ५९ ॥ कनीयान् द्वादशकरश्छस्यो४( ? ) विजानता । ज्येष्ठस्य भागसंख्येयमेतदर्धेन मध्यमः ॥ ६० ॥ मध्यमस्य तथार्धेन कनीयान् भागसंख्यया । भागषट्कमिता जङ्घा ज्येष्ठस्य परिकीर्तिता५ ॥ ६१ ॥ सप्तभागोच्छ्रिता सा स्यान्मध्यमे सकनीयसि । सर्वेषां लतिनामेष क्षेत्रेण विधिरीरितः६ ॥ ६२ ॥ स्वस्तिकोऽयं समाख्यातः स्वस्तिश्रेयस्करो७ नृणाम् । स्वस्तिकः ॥ इदानीं मुक्तकोणस्य सू( ल )क्ष्म ब्रूमः स तु९ त्रिधा ॥ ६३ ॥ षोडश द्वादशाष्टौ च हस्तसंख्या परस्य च । ज्येष्ठः षोडशभिर्भागैर्मध्यो१० द्वादशभिर्भवेत् ॥ ६४ ॥ कनीयानष्टभिः प्रोक्तः प्रासादो मुक्तकोणकः । मुक्तकोणस्वस्तिकयोरिदमेवान्तरं भवेत् ॥ ६५ ॥ स्वस्तिको वर्तुलस्तत्र चतुरश्रोऽपरः स्मृतः । पञ्चभागोन्नता१२ जङ्घा द्वौ भागौ रथिका भवेत् ॥ ६६ ॥ भागैश्चतुर्भिः कर्तव्या द्वितीया तस्य भूमिका । येषास्त्वर्धार्धभागेन विधेयास्त( द्व ? )स्य भूमिकाः ॥ ६७ ॥ विधाय नवधा गर्भैस्तै१३स्त्रयोदशभिर्भवेत्११ । जङ्घापादोनपञ्चाशैराद्यैकः१४ष्पणिकाँ१५( ? ) भवेत् ॥ ६८ ॥ मुक्तकोणः । विस्तारं दशधा कृत्वा षड्भागं मध्यमालिखेत् । १ द. मात्स्कंधाद् । २ द. त्रि । ३ द. श्रद्धापि । ४ द ष्ट । ५ द.ः प्रारब्धव्यो विजानता । ६ द. ताः । ७ द. वीर्°। ८ द. रा । ९ द. क्त । १० द. च । ११ द. ध्ये । १२ द. च्छ्रोन्ना । १३ द. गर्भं तंत्रयो° । १४ द. जे । १५ द. का। १६ द. शुं° ।

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१३ १कर्णा द्विभागिको( ? )मध्यं चतुर्धा विभजेत् पुनः ॥ ६९ ॥ तदून्मध्ये कृतौ द्व्यंशौ ३भागिकौ वामदक्षिणौ । अङ्गुलीकरसंख्यातैर्विधेयो रथनिर्गमः ॥ ७० ॥ प्राग्ग्रीवैर्विकटैः स्वष्टैः स्तम्भैः ४सद्भूषकर्मभिः( ? ) । एवं गुणै५समायुक्तः श्रीवत्सः६ सुखदो भवेत् ॥ ७१ ॥ द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव च । उदकान्तरकं कार्यं श्रीवत्सो नन्दनो(त्से नन्दने)पि च ॥ ७२ ॥ श्रीवत्सः ॥ विस्तारैर्दशधा भक्तैः षड्भा(गा)मञ्जरी भवेत् । सर्वतोभद्रवन्मूलकर्णावस्य द्विभागिकौ ॥ ७३ ॥ उदकान्तरमन्य(प्य)स्य श्रीवत्सस्यैवं कल्पयेत् । हंसोऽयं कीर्तितः सम्यक् शुभदो लक्षणान्वितः ॥ ७४ ॥ हंसः ॥ रुचकोऽप्येवमेव स्यादुदकान्तरवर्जिता( र्त)म् । भित्तयश्चतुरंशेन गर्भो व्या सार्धसंम९तः ॥ ७५ ॥ रुचकः ॥ चतुरश्रीकृते क्षेत्रे विभजेद् दशभिः पदैः । विदध्यादर्ध१०मानाख्यं तत्र भ्रान्तमनुक्रमात् ॥ ७६ ॥ भद्रस्यै११ च भवेद् भागैश्चतुर्भिः परिविस्तृतम् । एकेनैकेन भागेन द्वौ रथौ वामदक्षिणौ ॥ ७७ ॥ द्विभागविस्तृतौ कर्णौ निर्गमः स्यात् कराङ्गुलैः । वर्धमानैः१२ क्रियायुक्तो यशोलक्ष्मीं १३विवर्धयेत् ॥ ७८ ॥ रुचको वर्धमानो वा श्रीवत्सो हंस एव च । य एको रोचते तेषु न्यसेत् तं गरुडे सुधीः ॥ ७९ ॥ १ द. कर्णो द्विभागिकौ । २ द. तत्र मध्ये कृतो द्व्यंशो । ३ द. तौ वि० । ४ द. सद्भू० । ५ द. णः । ६ द. त्सुभवो । ७ द. स्यै । ८ द. तः । ९ द. मितेः । १० द. र्द्धं । ११ द. मस्य । १२ द. न । १३ द. च । वा. ४०

३१४ समराङ्गणसूत्रधारे पक्षावेतस्य कर्तव्यौ प्रासादार्थविनिर्गमौ¹। नासिकां वैनतेयस्य त्रिगर्भां कारयेदपि ॥ ८० ॥ गरुडः ॥ चतुःषष्टिपदे क्षेत्रे प्रासादं विभजेच्छुभम् । क्षेत्रार्थेन च सूत्रेण पृष्ठतो वृत्तमालिखेत् ॥ ८१ ॥ भागैश्चतुर्भिर्जङ्घास्य मेखलार्धभागिका । पुरतः †सूरसोयं( ? ) पृष्ठतश्च गजाकृतिः ॥ ८२ ॥ गजः ॥ चतुःषष्टिपदः सिंहो भद्रं भागचतुष्टयम् । द्व्यंशकौ मूलकर्णौ च गर्भः षोडशभिः पदैः ॥ ८३ ॥ विस्तारार्थे भवेज्जङ्घा मेखला पदिका भवेत् । एकैका रथिका चास्य भवेद् भागत्रयोच्छ्रिता³ ॥ ८४ ॥ सर्वतोभद्रवच्चा⁴स्य रेखाग्रीवाण्डकादिकम् । सिंहाक्रान्तैस्तथा भद्रैः प्रासादः सिंह उच्यते ॥ ८५ ॥ विक्रमार्जनशीलानां प्रासादोऽयं शुभावहः । सिंहः ॥ पद्मस्य हस्तसंख्या स्यात् षोडश द्वादशाथवा ॥ ८६ ॥ वर्तुलः स च कर्तव्यः सूत्रं तु स्वस्तिके यथा । सर्वे रथाः स्मृताः पद्मपत्राकृतिमनोरमाः ॥ ८७ ॥ उदकान्तरकं कुर्याच्छ्रेयसे नन्दने यथा । पद्मकः ॥ स्वस्तिकस्य यथा पूर्वं कथितं मानलक्षणम् ॥ ८८ ॥ तेनैव §लक्षितः सर्वो( ? )विदधीत विचक्षणः । यथामूलविभक्तंस्तु लतिषु स्वस्तिकादिषु ॥ ८९ ॥ १ द. तौ । २ द. सेनोयं । ३ द. ताः । ४ द. त्वस्याद्रे° । ५ द. न । ६ द. या । ७ द. हराः । ८ द. च्छ्रीवत्से नन्दने । ९ द. लतिनः सर्वान् वि° । १० द. क्ति । ११ द. स्त्रि । † ‘सूकराण्योऽयम्’ इति स्यात् । § ‘लतिकाः सर्वा’ इति स्यात् ।

मेर्वादिशोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१३ १यथास्कन्धविभागोऽपि रेखामध्यविभागताः । स्वस्तिकाङ्को विधातव्यः शुकनाशो(सो)च्छ्रयाच्छुभः^२ ॥ ९० ॥ प्रासादानां स भागैः स्यात् सप्तभिर्विहितः श्रिये^३ । विमाने सं^४ धराय्यंशन्यूनः कार्यों विपश्चिता ॥ ९१ ॥ कैलासो च(साच्च)तुरंशोना विधेना(या) शुकनासिका^५ । सर्वतोभद्रसिंहारूयौ मेरूर्णां तु विशेषतः ॥ ९२ ॥ षड्भिर्भागैर्विना कार्या शुकनासा विजानता । ^६प्रासादोच्चेन सन्धारो विमानाद्याः^७ प्रकीर्तिताः ॥ ९३ ॥ विस्तारार्धेन तद्गर्भो यच्छेषं तेन भित्तयः । प्रासाद(सि?)जङ्घो^८च्छ्रयेण तुल्यो गर्भतुलोदयः ॥ ९४ ॥ सभिर्त्तिर्गर्भतुल्यः स्यात् सन्धारेषु^९ तुलोदयः । स विधेयः पुनर्व्यासाद् यदि वा किञ्चिदुन्नतः ॥ ९५ ॥ मूलसूत्रं तु दशधा ++^१०(मत्स्य?)समालिखेत् । गर्भसूत्रं प्रतिष्ठाप्य सिंहकर्णं प्रकल्पयेत् ॥ ९६ ॥ सार्धभागेन सूत्रेण मध्यमस्य समालिखेत् । उरो द्विभाग^११तुल्यं तु मस्तकं भागमुच्छ्रितम् ॥ ९७ ॥ अर्धेन वोच्छ्रयस्तस्याः पक्षोच्छ्रायौ द्विभागिकाः^१२ । उरो(लेख्यै?)^१३ च सीमान्ते सूत्रेणच्छन्दमादिशेत् ॥ ९८ ॥ नवधा दशधा चैव सिंहकर्मा(र्णा)वुभौ स्मृतौ । एकषड्विस्तृतो भागा(?) उद्द्यात् पञ्चभागिकः^१४ ॥ ९९ ॥ सूरसेनो द्वितीयस्तु खात् समोदयविस्तृतिः उदयात् सार्धविस्तीर्ण^१५ सिंहकर्णत्रिसंकुला^१६(?) ॥ १०० ॥ कामलान् मल्हकांश्चान्यान् सिंहकर्णात् प्रलोप(कल्प)^१७येत् । प्रासादानां हि सर्वेषां सर्वमेतद् विभूषणम् ॥ १०१ ॥ १ द. त । २ द. यः शुभः । ३ द. यै । ४ द. शिखरा त्र्यंश न्यून° । ५ द. काः । ६ द. स्य । ७ द. प्रसादा येन संधारा° । ८ द. ग । ९ द. सा । १० द. कृत्वा मत्स्यं । ११ द. यो । १२ द. कः । १३ द. ॰ख्ये । १४ द. दु । १५ द. र्णा । १६ द. संकलाः । १७ द. न् प्रलेपयेत् ॥ ।

३१६ समराङ्गणसूत्रधारे यस्य यत्रोचितं स्थानं तत् तत्र विनिवेशयेत् । निर्मितौ^१ वलभेस्तिर्यक् सूत्रं कुर्वीत सप्तधा ॥ १०२ ॥ पञ्चभागांश्च मुखतस्तेनैवांशेन कल्पयेत् । मेखलान्तरपत्रे च जम्भाकुम्भकमेव च ॥ १०३ ॥ पञ्चभागोच्छ्रितं कुर्यात् तद्वच्छिखरमुच्छ्रितम् । कीर्तितानि विमानानि यान्येव सुरवर्त्मनि ॥ १०४ ॥ तान्येव स्थावरत्वेन प्रासादा इति विश्रुताः । महेश्वरस्य कैलासो विष्णोस्तु^३ गरुडाभिधः ॥ १०५ ॥ कार्यः प्रजापतेः पद्मो गणनांथस्य च द्विपः । न खल्वेतेऽन्यदेवानां विधातुमुचिताः स्मृताः ॥ १०६ ॥ यस्तु त्रिविष्टपः स स्यात् सर्वदेवनिकेतनः । अस्मात् तु येऽन्ये प्रासादाः स्मृतास्तेऽनेकरूपिणः ॥ १०७ ॥ सर्वेषामेव देवानामभेदेन भवन्ति ते । जगत्यां^४ विस्तारः कार्यः प्रासादोच्छ्रयसंमितः ॥ १०८ ॥ गर्भाधैनोच्छ्रयस्तस्याः^५ शुभदः परिकीर्तितः । मण्डपस्य षडंशाधो( ? ) पञ्चमांशार्दथ^६ स्मृतः ॥ १०९ ॥ कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः । पूर्वापरमुखाः कार्या एते^८ याम्योत्तराननाः ॥ ११० ॥ ऐन्द्रे याम्ये वारुणे च कौबेरे च यथाक्रमम् । दिग्भागेषु चतुर्ष्वेषां वलभीं ^१०विनिवेशयेत् ॥ १११ ॥ गर्भविस्तारविस्तीर्णौ द्वौ त्रिभागौ मुखायतम् । इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥ ११२ ॥ तीर्थायतमारोप्य सूत्रं गर्भेण मण्डपे । (गुरुपक्षोऽर्थे ? ) कर्तव्या गवाक्षस्तम्भसंयुताः ॥ ११३ ॥ १ द. निष्पत्त्यैव लभेति° । २ द. जंघा । ३ द. श्व । ४ द. जगत्या विस्तृतः । ५ द. °स्य । ६ द. °शाद्वा । ७ द. व । ८ द. नैते । ९ द. र्थे । १० द. च । ११ द. वास्य° । १२ द. °क्षाप्र° ।

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१७ प्रासादविस्तरात् कार्यो द्विगुणो मण्डपः सदा । मण्डपस्यस्(स्व)विस्तारा(द)ज्जगती द्विगुणा बहिः ॥ ११४॥ कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा । तेषामध्यर्धतः कुर्याद् वलभीनां निवेशनम् ॥ ११५॥ अनेन क्रमयोगेन बाह्याद् बाह्यं सुसंवृतम् । यदा(था) हि शोभते राजा केयूराङ्गदकुण्डलैः ॥ ११६॥ तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः । ध्वास्याँहॉस्यातिसौम्यस्य(?) श्रीकीर्तिविजयावहः ॥ ११७॥ अनेन विधिना न्यस्तः प्रासादः स्यात् सदा नृणाम् । आदित्यं पूर्वतो न्यस्येत् कुमारं पूर्वदक्षिणे ॥ ११८ ॥ दक्षिणे मातृदेवै(वाँ)स्तु गजास्यं दक्षिणोपरि । विन्यसेद् वारुणे गौरीं वायव्येऽपि च चण्डिकाम् ॥ ११९॥ विष्णुं कुबेरदिग्भागे तथैशान्यं महेश्वरम् । अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥ १२० ॥ तत्रैशान्यं दिशि न्यस्येदीशामं लोकनायकम् । दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥ १२१ ॥ वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे । नैरृत्यां निर्ऋतिं न्यस्येत् प्रतीच्यां तु प्रचेतसम् ॥ १२२ ॥ वायुं वायव्यदिग्भागे कुवेरमपि चोत्तरे । अष्टौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥ १२३॥ पालयन्ति जगत् सर्वं स्वस्वस्थाने प्रतिष्ठिताः । पुर(कर्कट ? कर्वट)दुर्गेषु ग्रामेषु नगरेषु च ॥ १२४॥ क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः । न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥ १२५ ॥ १ द. तु । २ द. ज्ज । ३ द. ᵒका कार्या । ४ द. ध्वजाक्रश्वातिसौम्यश्च श्रीकीर्त्तिर्विᵒ । ५ द. वी । ६ द. ᵒणापरे । ७ द. री । ८ द. भवे । ९ द. ईशान्यं दिशि विᵒ । १० द. ᵒन्तु । ११ द. कर्वर्ᵒ ।

३१८ समराङ्गणसूत्रधारे प्रासादस्यानुसारेण भवेद् द्वारं शुभावहम् । अथातः प्रोच्यते सम्यग् द्वारमानमनुक्रमात् ॥ १२६ ॥ ज्येष्ठमध्यकनिष्ठानां द्रव्यं² स्तम्भानुसङ्गतम् । एकहस्ते भवेद् द्वारं प्रासादे षोडशाङ्गुलम् ॥ १२७ ॥ द्विकरे द्विगुणं तत् स्यात् त्रिकरे द्विकरं शुभम् । चतुष्करे चतुःषष्टिरङ्गुलानि प्रशस्यते ॥ १२८ ॥ अत ऊर्ध्वं प्रतिकरं त्र्यङ्गुला वृद्धिरिष्यते । द्वारोदयकरैस्तुल्यान्यङ्गुलानि नियोजयेत् ॥ १२९ ॥ ( पोह्यांजयन्यान्यार्ध ? ) ध्रुवके चतुर( र ? )ङ्गुले । विस्तारो द्विगुणस्तस्य स्तम्भपिण्डं स एव हि ॥ १३० ॥ एकद्वित्रिचतुष्पञ्चषट्सप्तककरावधिं⁵ । द्वारविस्तारभागेन स्तम्भः सम्यग् विधीयते ॥ १३१ ॥ चतुर्भागेन कर्तव्या सीमास्तम्भः प्रमाणतः( ? ) । तथा स्तम्भस्य बाहुल्याच्चतुर्भागविभागविनाँ ( ? ) ॥ १३२ ॥ +⁸ भागौ तत्र कर्तव्यौ हीरग्रहणमुच्छ्रितम् । भागत्रयेण कर्तव्यः पट्टस्य च समुच्छ्रयः ॥ १३३ ॥¹⁰ भागेनैकैन नीश्यानव्यविस्तारं भत्रिभागरुद्यकिम् ( ? ) । पट्टहस्ते विधातव्यमङ्गुलद्वयनिर्गमम् ॥ १३४ ॥ +¹² ऽ + + + + स्तारः स्तम्भतुल्यः प्रशस्यते । एकैकमङ्गुलं ( लौं ? )पट्टपार्श्वयोरधिकस्ततः ॥ १३५ ॥ पट्टै¹⁴दस्य विस्तारः( ? )कार्यश्चतुर्भागविभाजितैः । भागेनैकैन चोत्सेधस्तुलाधारणमिष्यते ॥ १३६ ॥ १ द. मुपक्रं । २ द. व्य । ३ द. पेया बाह्त्य सेन्यर्थ धुं । ४ द. ण्ड । ५ द. धिः । ६ द. म्मप्रं । ७ द. विभाजितौ । ८ द. द्वौ भागौ तत्र कर्तव्यं । ९ द. पदस्य । १० द. स्तंभपिंडत्रि- भागेन पदस्य यदि वोच्छ्रयः । ११ द. भागेनैकैन तीरं स्याद्द्वास्तंभत्रिभागिकं । पदतस्तद्विधातव्यं त्र्यंगुल- द्वयनिर्गमम् ॥ १२ द. स्तंभशीर्षस्य विस्तारः । १३ द. पाट्ः । १४ द. पदस्य विस्तरः काँ । १५ द. तान् ।

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१९ तुलाधारणकोत्सेधाच्चतुर्भागविभाजितात् । भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥ १३७ ॥ मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले (?) । द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥ १३८ ॥ इति हीरग्रहादीनां समासाल्लक्ष्मकीर्तनम् । पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थेन कुम्भिका (?) ॥ १३९ ॥ कुर्वीत स्तम्भतः सार्धा गर्गे(?)कुम्भस्य विस्तृतः । अथवा स्तम्भकर्णेन स्तम्भाग्राद्विगुणा क्वचित् ॥ १४० ॥ पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः । स्तम्भविस्तारकर्णाद् वा यद्वा पिण्डोऽग्रकुम्भके ॥ १४१ ॥ तस्य भागान् प्रवक्ष्यामो यथाकुम्भं स युज्यते । विभक्तोऽत्र त्रिधा पिण्डो भागेनैकेन पुत्तली ॥ १४२ ॥ चतुर्भिस्तस्य मध्यस्थं (यखं ?)पद्मं समालिखेत् । उच्छ्राले पञ्चधा भक्ते त्रिभिरात्र्तनं + + ॥ १४३ ॥ वर्तनं योषन्त्येत्(?) किञ्चिन्न च खत्वं समाचरेत् । वर्तने कुम्भकुम्भौ तु सूत्रं दत्त्वा सुतानितम् ॥ १४४ ॥ पद्मनालौसमा स स्यान्न भवेत् पङ्क्तिवर्जितौ (?) । नवाध्रोच्छाहा(?)लके भक्ते वीरगण्डस्तु भागिकैः ॥ १४५ ॥ एकेनैकेन भागेन विधेयाँ पट्टिकाद्विका । १६(ध्वसंस्राकाल ?)कर्णव्यं भागद्वितयसंमितम् ॥ १४६ ॥ तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत् । भागेनैकेन पद्मं स्याद् भागेन कलशं लिखेत् ॥ १४७ ॥ १ द. ढ्या तां च न्यस्येच्छलाखले । २ द. ॰र्तिंतं । ३ द. पंचास्याभ्यं । ४ द. ॰रस्तेन कुंभिकाः । ५ द. मग्रं । ६ द. ॰तिः । ७ द. म्मः स युज्यते । ८ द. विभक्तानवधा पिंडदान्भागेनैकेन त्रुवती । ९ द. मध्यं स्याच्छेलां पद्मा सं० । १० द. त्यां । ११ द. वर्न० । १२ द. ॰यक्षौ । १३ द. ल । १४ द. ताः । १५ द. ॰धो कालके । १६ द. दका । १७ द. विधेयं पट्टिकाद्वयं । १८ द. कालकं तथ कर्त्तव्यं ।