समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 382, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१७ प्रासादविस्तरात् कार्यो द्विगुणो मण्डपः सदा । मण्डपस्यस्(स्व)विस्तारा(द)ज्जगती द्विगुणा बहिः ॥ ११४॥ कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा । तेषामध्यर्धतः कुर्याद् वलभीनां निवेशनम् ॥ ११५॥ अनेन क्रमयोगेन बाह्याद् बाह्यं सुसंवृतम् । यदा(था) हि शोभते राजा केयूराङ्गदकुण्डलैः ॥ ११६॥ तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः । ध्वास्याँहॉस्यातिसौम्यस्य(?) श्रीकीर्तिविजयावहः ॥ ११७॥ अनेन विधिना न्यस्तः प्रासादः स्यात् सदा नृणाम् । आदित्यं पूर्वतो न्यस्येत् कुमारं पूर्वदक्षिणे ॥ ११८ ॥ दक्षिणे मातृदेवै(वाँ)स्तु गजास्यं दक्षिणोपरि । विन्यसेद् वारुणे गौरीं वायव्येऽपि च चण्डिकाम् ॥ ११९॥ विष्णुं कुबेरदिग्भागे तथैशान्यं महेश्वरम् । अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥ १२० ॥ तत्रैशान्यं दिशि न्यस्येदीशामं लोकनायकम् । दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥ १२१ ॥ वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे । नैरृत्यां निर्ऋतिं न्यस्येत् प्रतीच्यां तु प्रचेतसम् ॥ १२२ ॥ वायुं वायव्यदिग्भागे कुवेरमपि चोत्तरे । अष्टौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥ १२३॥ पालयन्ति जगत् सर्वं स्वस्वस्थाने प्रतिष्ठिताः । पुर(कर्कट ? कर्वट)दुर्गेषु ग्रामेषु नगरेषु च ॥ १२४॥ क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः । न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥ १२५ ॥ १ द. तु । २ द. ज्ज । ३ द. ᵒका कार्या । ४ द. ध्वजाक्रश्वातिसौम्यश्च श्रीकीर्त्तिर्विᵒ । ५ द. वी । ६ द. ᵒणापरे । ७ द. री । ८ द. भवे । ९ द. ईशान्यं दिशि विᵒ । १० द. ᵒन्तु । ११ द. कर्वर्ᵒ ।