समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 384, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१९ तुलाधारणकोत्सेधाच्चतुर्भागविभाजितात् । भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥ १३७ ॥ मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले (?) । द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥ १३८ ॥ इति हीरग्रहादीनां समासाल्लक्ष्मकीर्तनम् । पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थेन कुम्भिका (?) ॥ १३९ ॥ कुर्वीत स्तम्भतः सार्धा गर्गे(?)कुम्भस्य विस्तृतः । अथवा स्तम्भकर्णेन स्तम्भाग्राद्विगुणा क्वचित् ॥ १४० ॥ पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः । स्तम्भविस्तारकर्णाद् वा यद्वा पिण्डोऽग्रकुम्भके ॥ १४१ ॥ तस्य भागान् प्रवक्ष्यामो यथाकुम्भं स युज्यते । विभक्तोऽत्र त्रिधा पिण्डो भागेनैकेन पुत्तली ॥ १४२ ॥ चतुर्भिस्तस्य मध्यस्थं (यखं ?)पद्मं समालिखेत् । उच्छ्राले पञ्चधा भक्ते त्रिभिरात्र्तनं + + ॥ १४३ ॥ वर्तनं योषन्त्येत्(?) किञ्चिन्न च खत्वं समाचरेत् । वर्तने कुम्भकुम्भौ तु सूत्रं दत्त्वा सुतानितम् ॥ १४४ ॥ पद्मनालौसमा स स्यान्न भवेत् पङ्क्तिवर्जितौ (?) । नवाध्रोच्छाहा(?)लके भक्ते वीरगण्डस्तु भागिकैः ॥ १४५ ॥ एकेनैकेन भागेन विधेयाँ पट्टिकाद्विका । १६(ध्वसंस्राकाल ?)कर्णव्यं भागद्वितयसंमितम् ॥ १४६ ॥ तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत् । भागेनैकेन पद्मं स्याद् भागेन कलशं लिखेत् ॥ १४७ ॥ १ द. ढ्या तां च न्यस्येच्छलाखले । २ द. ॰र्तिंतं । ३ द. पंचास्याभ्यं । ४ द. ॰रस्तेन कुंभिकाः । ५ द. मग्रं । ६ द. ॰तिः । ७ द. म्मः स युज्यते । ८ द. विभक्तानवधा पिंडदान्भागेनैकेन त्रुवती । ९ द. मध्यं स्याच्छेलां पद्मा सं० । १० द. त्यां । ११ द. वर्न० । १२ द. ॰यक्षौ । १३ द. ल । १४ द. ताः । १५ द. ॰धो कालके । १६ द. दका । १७ द. विधेयं पट्टिकाद्वयं । १८ द. कालकं तथ कर्त्तव्यं ।