समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 385, कुल 726 में से
संदर्भ में पढ़ें३२० समराङ्गणसूत्रधारे। द्वाभ्यां समालिखेत् कुम्भं भागेनैकेन पट्टिकाम् । वर्तमानां चत्रा(?)कार्या शोभा स्यादस्य यावतैः ॥ १४८ ॥ एष कुम्भक्रमः प्रोक्तः स्तम्भपादे व्यवस्थितः । तैलपट्टस्य पिण्डस्तु भागपट्टसमो भवेत् ॥ १४९ ॥ द्रव्येष्वत्र हि सर्वेषु सम्यक् शोभा ४विवक्षिता । न्यूनातिरिक्त मप्यस्मान्मानेष्वङ्गलमाचरेत् ॥ १५० ॥ द्वारामुदयविस्तारो द्रव्यसंस्थानमेव च । पूर्वमेव यथोद्दिष्टं (य ? त )था सर्वमनुस्मरेत् ॥ १५१ ॥ पिण्डेन त मूलशाखायां द्वितीया र्प विधीयते । संपाद्यते सपादेन प्रत्ययदेनाथ सार्धनरूपशाखा प्रशस्यते(?)॥१५२॥ अर्धेन मूलशाखाः समा चैव बाह्यशाखा शाखां प्रकल्पयेत्(?) । ऊर्ध्वपञ्चमशाखाया (दु ?) सप्तमी नवमी च सा ॥ १५३ ॥ रूपशा ९+ + + स्यान्न न्यूना नाधिकापि च । १०विस्तारार्धं तु कर्तव्यः सर्वांसामेव निर्गमः ॥ १५४ ॥ शाखाविस्तारविस्तीर्णा(नु ? न्यु )त्तरङ्गानि कारयेत् । सार्धेन ध्रुवशाखानां पिण्डेनोदुम्बरोदयः ॥ १५५ ॥ उदुम्बरस्य पिण्डेन सिंहवक्त्राणि कारयेत् । तदर्धं विलसन्धिः १३ स्यात् तत्समा भूमिरङ्गिका ॥ १५६ ॥ तलन्याससमः पट्टः पिण्डपूर्वव्यवस्थितः । कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥ १५७ ॥ पत्रजातैरनेकैश्च कण्ठं कुर्याद् यथेप्सितम् । पाचकः कटुतीक्ष्णाद्यैरनुसाररसैर्यथा ॥ १५८ ॥ १ द. ॰नोवताकार्या । २ द. ता । ३ द. तलपट्टस्य पिंडे तु भारपदसमो भवेन् ॥ ४ द. व्यव- स्थिताः । ५ द. या । ६ द. पि । ७ द. सपादेनाथा सार्धेन रूप॰ । ८ इ. अर्द्धेन मूलशाखाया खल्वशाखा तु विस्तृताः ॥ ४७ ॥ रूपशाखा समाचैव वाह्यशाखां प्रकल्पयेत् । उर्ध्वं पंचमशाखाया सप्तमी नवमी च या ॥ (अर्धेन मूलशाखाः ... नवमी च सा ॥ १५३) मुद्रित पाठः । ९ द. ॰शाखा समासा स्यान् । १० द. स्व विस्तारार्द्धा तु । ११ द. ॰याः । १२ द. चक्राणि । १३ द. न्धी । १४ द. तें ।